०२८ वनवासदुःखवर्णनम्

स इति । न नेतुं कुरुते बुद्धिं न नेतुं कुरुते इव ॥ २।२८।१,२ ॥

महाकुलीनेत्याद्युक्तिः स्ववाक्याङ्गीकारप्रयोजना । इहैव स्थित्वा यथा मे मम

मनसः सुखं भवति तथा मदागमनमुद्दिश्य स्वधर्मं चर धर्ममेवाचर ॥ २।२८।३ ॥

हि यतो वने बहवो दोषाः क्लेशाः, अतो मदुक्तं कार्यमित्यन्वयः ॥ २।२८।४ ॥

कान्तारं गहनत्वाद्दुष्प्रवेशं वनं बहुदोषमित्यभिधीयत इति योजना । सीते इति कलत्रनामग्रहणमपि दुःखाकुलचित्तत्वनाटनेन न दोषाय ॥ २।२८।५ ॥

हितबुद्ध्या एतदभिधीयते न तु त्वद्भरणादिप्रयासोपाधिनेत्यर्थः । सदा सर्वकालं सुखं वने नास्ति । सुखं सुखदं न भवति, किंतु दुःखं दुःखदमेवेत्येव जानामि निश्चिनोमि ॥ २।२८।६ ॥

गिरिनिर्झरा गिरिनद्यस्तन्निनदैः संभूताः प्रभूताः । गिरिनिर्दरिवासिनां सिंहानां निनदाः श्रोतुं दुःखा अतो वनं दुःखं दुःखजनकम् ॥ २।२८।७ ॥

विस्रब्धा निःशङ्काः । दृष्ट्वा मनुष्यं दृष्ट्वा समभिवर्तन्ते हन्तुं संमुखमायान्ति ॥ २।२८।८ ॥

सग्राहकत्वं पङ्कवत्त्वं च दुस्तरत्वे हेतुः । नित्यं गजैरित्यस्य युक्तमिति शेषः ॥ २।२८।९ ॥

कृकवाकुर्वनकुक्कुटः सरठ इत्यन्ये । निरपा निर्गतोदकाः “ऋक्पूः” इत्यप्समासान्तः ॥

२।२८।१० ॥

स्वयं भग्नासु स्वयं पतितशीर्णपर्णमयशय्यास्विति यावत् । श्रमखिन्नेन दिवा फलाद्यनायनश्रमखिन्नेन सुप्यते । वनवासिना जनेनेति शेषः । तेन तवापि स श्रमस्तदेव शयनं चेति सममेवेति ध्वनितम् ॥ २।२८।११ ॥

वृक्षावपतितैर्वृक्षेभ्यः स्वयमेव पतितैः । अहोरात्रं प्रातःसायम् ॥ २।२८।१२ ॥

यथा प्राणेन यथाबलानुसारेण केशसंस्काराभावाज्जटाभारकरणम् ॥ २।२८।१३ ॥

प्रतिपूजनं कार्यं तेन तदर्थसामग्रीसंपादनक्लेशो ध्वनितः ॥ २।२८।१४ ॥

काले काले प्रातःकालादौ नियमेनैव चरतां कालक्षेपं कुर्वतां त्रिरभिषेकः कार्यः त्रिषवणस्नानं कर्तव्यमित्यर्थः ॥ २।२८।१५ ॥

उपहारः पूजा । आर्षो विधिरुञ्छादिवृत्तिः । वेद्यामित्यनेन तत्करणदुःखं

ध्वनितम् ॥ २।२८।१६ ॥

तेन वन्यपदार्थेन । यथाहारैर्यथालब्धाहारैः ॥ २।२८।१७ ॥

तिमिरम् रात्रिष्विति शेषः ॥ २।२८।१८ ॥

बहुरूपाः सरीसृपाः सन्ति ते च मार्गमध्ये दर्पाच्चरन्ति ॥ २।२८।१९ ॥

निलयनं वासस्थानम् । नदीवत्कुटिलगतयः ॥ २।२८।२० ॥

अबले इत्यनेन तन्निवारणासामर्थ्यं ध्वनितम् ॥ २।२८।२१ ॥

व्याकुलशाखाग्रत्वं यथायोगं द्रुमेषु कुशकाशयोश्च बोध्यम् ॥ २।२८।२२,२३ ॥

भेतव्ये भेतव्यविषये ॥ २।२८।२४ ॥

अलं गत्वा न गन्तव्यमित्यर्थः । विमृशन्दोषान्विचारयन् तान्दोषानिहस्थो ऽपि पश्यामीव अतो बहुदोषकरं वनमिति ब्रवीमीति शेषः ॥ २।२८।२५ ॥

रामेण यदा वने नेतुं मतिर्न कृता बभूव तदा सीता तस्य वचनं न चकार नाङ्गीचकार ततो हेतोरिदमब्रवीत् ॥ २।२८।२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टाविंशः सर्गः ॥ २।२८ ॥