०२७ सीतायाः वनगमननिश्चयः

एवं रामेण गृहवासे नियुक्ता ममापि वनवास एव धर्मतो न्यायप्राप्त इति सीताह एवमित्यादि । प्रणयात्स्नेहादेव संक्रुद्धा कथं मम पृथक्स्थितिमादिशतीत्यमर्षवती ॥

२।२७।१ ॥

स एवामर्षो दर्श्यते किमिति । लघुतया मयि क्षुद्रत्वालम्बनेनेदं किं भाषसे । किं च हे नरवरोत्तम त्वया यदुक्तं तच्छ्रुत्वा मे ममापहास्यमतिशयितो हासो जायते ॥ २।२७।२ ॥

यत्त्वयेरितं तद्वीराणामनर्हमयशस्यं च अतो न श्रोतव्यं श्रोतुमयोग्यम् ॥ २।२७।३ ॥

कुत एवं तत्राह आर्यपुत्रेत्यादि । पित्रादयः स्वानि पुण्यानि स्वस्य कर्मफलानि भुञ्जानाः स्वं स्वं भाग्यं स्वानुष्ठितं कर्मैवोपासत उपजीवन्ति न पुत्राद्यनुष्ठितम् । तत्र तेषां सहाधिकाराभावात् ॥ २।२७।४ ॥

एका नारी तु भर्त्रा सहाधिकाराद्भर्तुर्भाग्यं भर्त्रनुष्ठितं कर्मफलं प्राप्नोति अतस्तव वनवासादेशेनैव त्वत्पितृभ्यां सर्वकर्मणि सहाधिकारादहमपि वने वस्तव्यमित्यादिष्टैव । तथैव ममापि गुरुत्वात्स आदेशो ऽनुल्लङ्घ्य एवेति भावः ॥ २।२७।५ ॥

यदेवमतो न पित्रादिरिह लोके प्रेत्य परलोके च नारीणां गतिः, किंतु एकः पतिरेव सदा गतिः ॥ २।२७।६ ॥

अतो यदि त्वमिति । मृद्रन्ती कुशेत्यनेन पद्भ्यामेव गमिष्यामीति न च ते दुःखं दास्यामीति च ध्वनितम् ॥ २।२७।७ ॥

स्त्रिया वनगमनसाहसं कथमित्यक्षान्तिरीर्ष्या, तां स्ववाक्योल्लङ्घनेन रोषं च बहिष्कृत्य त्यक्त्वा विस्रब्धो निःशङ्को मां नय । तत्र हेतुगर्भविशेषणम् वीरेति । स्ववीरत्वस्य लोके ख्यापनाय । अन्यथा कुतस्तत्ख्यारिति ध्वनिरत्र । त्यागप्रयोजकं पापं च मयि न विद्यते । ननु भुक्तभोगया त्वया वने किं प्रयोजनमत आह– भुक्तशेषमुदकमिव यथा दुष्प्रापपानीयकान्तारयायिना पीतशेषं कमण्डलुनिष्ठमुदकमवश्यं नेयमेव, तथाहमपि त्वया नेयैव । तरुणत्वादिति गूढहासोक्तिः ॥ २।२७।८ ॥

अतो ऽपि मे वनगमनमेवोचितमित्याह प्रासादाग्रे । स्थितापेक्षयेति शेषः ।

विमानैर्वा वैहायसगनेन वा आकाशगमनेन । उपलक्षिताणिमाद्यष्टापेक्षयेति शेषः । सर्वावस्थागता भर्तुः । “विष्णोरभक्तिकावस्था सर्वावस्थेति गीयते” इत्यभिधानात् । तां गतस्यात एव आ ईषद्भर्तुः । भर्तुरित्यन्तमेकं पदम् । अथवा पृथक्पदे । श्रुत्युक्तधर्माननुष्ठानरूपां तां गतापीति योजना । सकलभर्तृधर्मरहितस्यापि पत्युः पादच्छाया पादसेवनमेवेतरधर्मापेक्षया स्त्रिया विशिष्यते ऽधिकं भवति । श्रुतिस्मृत्योः सर्वपरित्यागेन भर्तृसेवाया एव स्त्रीणां नित्यत्वबोधनादिति भावः ॥ २।२७।९ ॥

मद्गुरूपदेशो ऽप्येवमेवेत्याह अनुशिष्टेत्यादि । विविधाश्रयं

नानाविधावस्थभर्तृनित्याश्रयमनुशिष्टास्मि अतो भर्तरि मया यथोपदिष्टं वर्तितव्यम्, तथा संप्रति नो वक्तव्यास्मि नोपदेष्टव्यास्मि ॥ २।२७।१० ॥

यदेवमतः अहमिति । गमिष्यामि त्वद्गमनमन्विति शेषः ॥ २।२७।११ ॥

त्रील्लोकानचिन्तयन्ती त्रैलोक्यैश्वर्यमप्यगणयन्ती पतिव्रतं पत्या सहवासरूपं व्रतम्

चिन्तयन्त्यपेक्षमाणा ॥ २।२७।१२ ॥

ब्रह्मचारिणी तपश्चरणशीला नियतात्वदुपदिष्टनियमयुक्ता मधुगन्धिषु मकरन्दसुरभिषु ॥ २।२७।१३ ॥

अन्यस्यापि जनस्य जीवसमूहस्य ॥ २।२७।१४ ॥

न निवर्तयितुं शक्या न्यायप्राप्तानुगमनत्वात् त्वच्छक्तिरूपत्वादिति गूढो ऽभिप्रायः उद्यता वनं गन्तुमिति शेषः ॥ २।२७।१५ ॥

दुःखं न करिष्यामि विशिष्टान्नपानादीच्छयेति शेषः । त्वया सह शक्तिरूपत्वात्सदा वसन्ती दुःखमयकार्यापि यथा पूर्वं न कदापि दुःखं कृतवती एवमग्रे ऽपि न करिष्यामीति भावः ॥ २।२७।१६ ॥

सरांसि चेत्यस्य द्रष्टुमित्यनेनान्वयः ॥ २।२७।१७ ॥

कारण्डवा जलकुक्कुटाः ॥ २।२७।१८ ॥

अभिषेकं करिष्यामि । तासु पद्मिनीष्विति शेषः ॥ २।२७।१९ ॥

वर्षसहस्राणि शतं वा त्वया सह वसन्ती तेषां व्यतिक्रमं वनवासदुःखं न वेत्स्यामि, किंतु क्षणमिव तावन्तं कालं नेष्यामीति भावः ॥ २।२७।२० ॥

स्वर्गो ऽपि न मे मतः । त्वया विनेति शेषः । तदेव विवृणोति स्वर्गे ऽपि चेति ॥ २।२७।२१ ॥

मृगैरायुतं मृगैरासमन्ताद्युतं युक्तम् वानरवारणैश्च युक्तमिति शेषः । संमता तवेति शेषः । त्वदाज्ञावर्तिनीति यावत् ॥ २।२७।२२ ॥

त्वया वियुक्तामित्यादि । त्वद्वियोगे मरणविषयनिश्चितमतिम् । याचनां मामिकां वनानुगमनयाचनां साधु कुरुष्व चरितार्थां संपादय मया क्रियमाणादतो ऽनुगमनात्ते गुरुता भारो न भविष्यति ॥ २।२७।२३ ॥

तथा न्यायुक्तं न निनीषतिस्म न नेतुमैच्छत् । अत एवास्या निवर्तने निवर्तनरूपप्रयोजननिमित्तं वनवासस्य दुःखतां दुःखजनकतां प्रति सत्संभवद्बहुहेतुजातमुवाचेत्यर्थः ॥ २।२७।२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे सप्तविंशः सर्गः ॥ २।२७ ॥