धर्मिष्ठे ऽतिशयेन धर्मवति ॥ २।२६।१ ॥
आममन्थ क्षोभयति स्म । तत्र हेतुर्गुणवत्ता ॥ २।२६।२ ॥
तत्सर्वं वनगमनवृत्तान्तम् । तस्याश्च तस्यास्तु हृदि तदेव यौवराज्याभिषेचनं स्थितमभूदिति शेषः ॥ २।२६।३ ॥
देवकार्यं देवपूजाम् । देवकार्यकरणे हेतुः कृतज्ञत्वं राजधर्माभिज्ञत्वं च । देवैरेवं राज्यप्रदानोपकृतत्वेन कृतज्ञतया तत्पूजा ॥ २।२६।४ ॥
ह्रिया सीतायै कथमिदमन्याय्यं स्वमातापितृकृतं कथयामीति लज्जायावाङ्मुख इव ॥ २।२६।५ ॥
वेपमाना भर्तुगतहर्षत्वावाङ्मुखत्वादिदर्शनात्कम्पमाना ॥ २।२६।६ ॥
सोढुं गूढं कर्तुम् । शोकमन्येषां प्राकृतानां शोकजनकं वस्तु शोकरूपकार्याजनकं कर्तुं न शशाक । ततस्तदनन्तरं स शोकस्तच्छोकजनकं वस्तु विवृततां प्रकटकार्यत्वं गतः, यद्वा स रामो विवृताभिप्रायं गतः । शुद्धमुक्तस्वभावो ऽपि मायाख्यप्रकृत्यवतारसीतासांनिध्यादुद्बुद्धाविक्षिपशक्तिरिव जात इत्यर्थः । अनेन हि नाठ्येन प्रियाया अग्रे न किंचित्पुंसो गोप्यमिति लोकव्यवहारो दर्शितः ॥ २।२६।७ ॥
प्रस्विन्नं प्राप्तदुःखजस्वेदम् अमर्षणं शोकधारणाक्षममिव । यत्तु सीताया दुःखेन कथमेष कालं नयिष्यतीति धिया दुःखित इति विवर्णवदनत्वादिकमिति तदनुचितं, भगवति कथमपि दुःखासंबन्धात्तादृशधियो ऽप्यभावाच्च । “व्यसनेषु मनुष्याणां भृशं भवति दुःखितः” इत्यादावपि दुःखित इवेत्येवार्थ इति ममाभाति ॥ २।२६।८ ॥
बार्हस्पतो बृहस्पतिदेवताकः युक्तः चन्द्रेणेति शेषः । युक्तस्तेन पुष्येणाभिषेक इति ब्राह्मणैः प्रोच्यते इत्यन्वयः । तज्जन्यसंतोषं विहाय दुर्मनाः केनासि ॥ २।२६।९ ॥
शतं शलाका यस्मिंश्छत्रे तेन छत्रेणावृत्तः सन्निभिविराजत इति योजना । वल्गु सुन्दरम् ॥ २।२६।१० ॥
व्यजनाभ्यां वालव्यजनाभ्याम् । शतपत्रं पद्मं तत्समेक्षणम् ॥ २।२६।११,१२ ॥
क्षौद्रं च दधि च तीर्थोदकमिश्रितमिति शेषः । मूर्धाभिषिक्तस्य शिरःस्नातस्य ॥ २।२६।१३ ॥
श्रेणीमुख्याः परिषन्मुख्याः, सर्वत्र तत्कुत इति शेषः ॥ २।२६।१४ ॥
पुष्परथो लीलागमनप्रयोजनो रथः न तु युद्धार्ह इत्यर्थः । तादृग्रथो निर्जिगमिषो राज्ञो ऽग्रे भवति तस्मिन्सत्यामिच्छायामारोहति नो चेदग्रतो गच्छति ॥ २।२६।१५ ॥
हस्ती कृष्णमेघप्रभो गिरिप्रभश्च ॥ २।२६।१६ ॥
भद्रासनं पुरस्कृत्य पूजायुक्तं यथा भवति तथा गृहीत्वा यान्तं ते पुरः सरमग्रगं सेवकं न पश्यामि ॥ २।२६।१७ ॥
यदाभिषेकः सज्ज इदानीं तस्मिन्नेवैतस्मिन्वर्तमानकाल उक्तराजचिह्नाभावो मुखवर्णश्चापूर्वः कदाप्यननुभूतो हर्षकाले हर्षाभावश्चेतीदं किमित्यर्थः ॥ २।२६।१८ ॥
विलपन्तीं दुःखेन भाषमाणाम् । तत्रभवान्पूज्यः । तातो दशरथः । अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थौ ॥ २।२६।१९ ॥
उत्कटाप्रियश्रवणेन सीताया अत्यन्तमोहो मा भूदिति विविधगुणकीर्तनेन संबोधयति कुले इत्यादि । येन क्रमेण हेतुनेदं प्रव्राजनमागतं तच्छृणु ॥ २।२६।२०,२१ ॥
नृपेणोद्यते प्रस्ताविते ममाभिषेके सज्जे सति तयाद्य स समयः प्राचीनो वरसङ्केतः प्रचोदितः प्रवर्तितः । तेन प्रवर्तनेन राजा धर्मेण धर्ममार्गेण प्रतिनिर्जितः
स्ववशः कृतः ॥ २।२६।२२ ॥
अस्तु प्रकृते किं तत्राह चतुर्दशेत्यादि । पित्रा वरनिर्जितपितृनियोगेनाद्यवरपालनरूपेण भरतश्च द्वितीयवरपालनरूपपितृनियोगेन यौवराज्ये नियोजितः मयेति शेषः । ज्येष्ठाज्ञां विना तस्य तल्लाभासंभवात् ॥ २।२६।२३ ॥
अथ सीताया गृहे ऽवस्थितौ सुखजनकबुद्धिरुपदिश्यते भरतस्येत्यादिना । न कत्थ्यो न श्लाघनीयः ॥ २।२६।२४ ॥
ते प्रसिद्धा मम गुणाः ॥ २।२६।२५ ॥
“अहं ते नानुवक्तव्यो विशेषेण कदाचन” इति प्राचीनः पाठः कतकेन दर्शितः । अहमस्मत्स्वरूपं ते त्वया विशेषेण विशिष्य कदाचन कदापि नानुवक्तव्यः सखीभिर्वार्ताप्रसङ्ग इति शेषः । भरतस्याग्रत इत्यनुकर्षः । तत्र हेतुः अनुकूलतयेति । मत्स्वरूपवर्णनं च तस्य प्रतिकूलमिति भावः । “नापि त्वं तेन भर्तव्या विशेषेण कदाचन” इत्याधुनिकपाठस्तु न तथा चमत्कारी विशेषेण न भर्तव्या किंतु बन्धुसाधारण्येनेत्यर्थे ऽनुकूलतयेत्युत्तरार्धस्य तथोपयोगाभावात् ॥ २।२६।२६ ॥
तदनुकूलाचरणं किमर्थमत आह तस्मा इति । नृपतिना दशरथेन स त्वया विशेषतः प्रसाद्यः । चो हेतौ यतो नृपतिः ॥ २।२६।२७,२८ ॥
याते गते ॥ २।२६।२९ ॥
कल्यमुषसि ॥ २।२६।३० ॥
त्वयि गते त्वन्मातुर्नमस्कारेण किं फलं सति तु त्वत्प्रतिकूल्याकरणे तत्फलमिति चेत्तत्राह– धर्ममेवाग्रतः कृत्वा धर्म एव तत्फलं मुख्यं बुद्धौ कृत्वा तत्संमानः कार्य इति भावः ॥ २।२६।३१ ॥
स्नेहेन मातृत्वप्रयुक्तेन । प्रणयेन प्रकृष्टः स्नेहः प्रणयः । संभोगः सेवा अन्नपानादिविशेषप्रदानम् ॥ २।२६।३२ ॥
भ्रात्रा पुत्रेण च समौ प्राणैः प्राणेभ्यः प्रियतरौ ॥ २।२६।३३,३४ ॥
विपर्यये शीलादिविपर्यये ॥ २।२६।३५ ॥
जनान्प्राकृतान् संबन्धलेशहीनानिति यावत् ॥ २।२६।३६,३७ ॥
यथा कस्यचिन्मद्वचसो व्यलीकं व्यलोकत्वमनृतत्वं न कुरुषे तथेदमपि मे वचः कार्यम् अनुष्ठेयमित्यर्थः । वचसो ऽनृतत्वकरणं चाननुष्ठाने भवति ॥ २।२६।३८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षड्विशः सर्गः ॥ २।२६ ॥