मङ्गलकरणमेवाह सेति । आयासं तज्जनकं शोकम् उपस्पृश्याचम्य मङ्गलानि मङ्गलवचनानि ॥ २।२५।१ ॥
सतां क्रमे सतां मार्गे ॥ २।२५।२,३ ॥
देवेष्वायतनेषु देवालयेषु । प्रणमसे च । चाद्रक्षितुमिच्छसि च । ते च देवाः चादृषयः ॥ २।२५।४ ॥
गुणैः सद्गुणैः ॥ २।२५।५ ॥
मातृशुश्रूषयेति । मातात्र कैकेयी ॥ २।२५।६ ॥
समिदादिपदेन तदधिष्ठात्र्यो देवता उपलक्ष्यन्ते । क्षुपा ह्रस्वशाखास्तरवः शिफायुक्तवृक्षाः क्षुपा इत्यन्ये । हदा इति जलाशयमात्रोपलक्षणम् । त्वां रक्षन्त्वित्यग्रिमेण संबन्धः । पतङ्गः पक्षिणः ॥ २।२५।७ ॥
स्वस्ति इत्यस्य कुर्वन्त्वित्यग्रिमेण संबन्धः । धाता विराट् । विधाता सृष्टिविधायकः ॥ २।२५।८१३ ॥
नक्षत्राणि रेवत्यादिनक्षत्राधिष्ठात्र्यो देवताः ग्रहाः सूर्यादयः ग्रहदेवतास्तत्तदधिदेवताः । पुनरुक्तिरत्र पुत्रप्रेमपारवश्यान्न दोषाय । पाठान्तरे ऽप्ययमेवार्थः ॥ २।२५।१४१६ ॥
सर्वक्रव्यादसंबन्दिभयं पुत्रक ते मा भूदित्यन्वयः ॥ २।२५।१७ ॥
प्लवगा वानराः दंशा वनमक्षिकाः गहने तव मा भूवन्मा सन्तु ॥ २।२५।१८ ॥
ऋक्षा भल्लूकाः । ते तुभ्यम् ॥ २।२५।१९ ॥
सर्वजातियाः सर्वजातीयाः । “सर्वजातः” इति पाठे क्रूरजन्तव इति फलितार्थः ॥ २।२५।२० ॥
आगमा मार्गाः ते झटिति त्वदागमनयोग्या भवन्त्वित्यभिप्रायेणैवमुक्तिः । सर्वसंपत्त्यो वनवासापेक्षिताः फलमूलादिरूपाः सन्त्विति शेषः ॥ २।२५।२१ ॥
पार्थिवेभ्यः पृथिवीभवसत्त्वेभ्यः । देवेभ्यो ये च ते परिपन्थिनस्तेभ्यश्च स्वस्त्यस्त्विति योजना ॥ २।२५।२२,२३ ॥
ऋषिमुखाच्च्युता निर्गताः । त्वया गृहीताश्चेति शेषः ॥ २।२५।२४ ॥
भूतकर्तृ ब्रह्म । जगत्कारणं ब्रह्मेत्यर्थः ॥ २।२५।२५२७ ॥
उपसंपादयामास । होमायेति शेषः ॥ २।२५।२८ ॥
अनामयमारोग्यम् उद्दिश्येति शेषः । बाह्यं बलिं होमस्थानाद्बहिर्भूतं लोकपालादिबलिम् ॥ २।२५।२९ ॥
स्वस्तिवाच्यं स्वस्तिवाचनमुद्दिश्य मध्वादिभिरुपलक्षितान्द्विजान्कृत्वा रामस्य वने
स्वस्त्यस्त्वित्येवंरूपां वने स्वस्त्ययनक्रियां वाचयामासेत्यन्वयः ॥ २२५।३० ॥
काम्यामिच्छाविषयाम् ॥ २।२५।३१ ॥
वृत्रनाशे तद्रूपनिमित्ते ॥ २।२५।३२ ॥
प्रार्थयानस्य आर्षत्वान्मुगभावः । अनेन भावि महद्युद्धं तत्र जयश्च सूचितः ॥ २।२५।३३,३४ ॥
विक्रमः पादविक्षेपः ॥ २।२५।३५ ॥
शुभमङ्गलं मङ्गलानामपि मङ्गलम् ॥ २।२५।३६ ॥
इति उक्त्वेति शेषः । पुत्रस्य शिरसि शेषा अक्षताः शेषा इत्यक्षतनामेति कतकः । समालम्भो विलेपनम् ॥ २।२५।३७ ॥
सिद्धार्थां दृष्टवीर्यां विशल्यकरणीमित्यन्वर्थनामिकामौषधीं गुलकीकृत्य शुभां रक्षां चकार
रक्षाहेतुत्वेन हस्ते बबन्धेत्यर्थः । तां मन्त्रैरतिशयितां कर्तुं जजाप च ॥ २।२५।३८ ॥
उवाचापि मन्त्रानिति शेषः । जपोत्तरं स्पष्टमपि मन्त्रानुच्चारयामासेत्यर्थः । एतच्च तन्मन्त्रार्थानुसन्धानेन रामस्य हृत्प्रसादार्थम् । प्रहृष्टेवेति हर्षापारमार्थ्यद्योती इवशब्दः । तदेवाह वाङ्मात्रेणेति । संसज्जमानयान्तरखेदगद्गदया ॥ २।२५।३९ ॥
आनम्येति उच्चत्वात्पुत्रस्य यद्वा वाल्मीकेरपि वर्णनीयमयीभावादुवाचेत्युक्तावपि पुनरवददित्युक्तिर्न दोषाय ॥ २।२५।४० ॥
सन्धितं राजवर्त्मसु प्राप्तराज्यमिति यावत् ॥ २।२५।४१ ॥
मङ्गलै राजोचितवस्त्राभरणैः वध्वाः सीतायाः संवर्ध संवर्धय । याहि भोः गच्छ भोः । भो इति निपात आमन्त्रणे ॥ २।२५।४२,४३ ॥
मात्रा प्रदक्षिणकरणं रक्षार्थम् ॥ २।२५।४४ ॥
निपीड्य नमस्कृत्य । तया श्रिया मातृकृतमङ्गलजशोभया ॥ २।२५।४५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चविंशः सर्गः ॥ २।२५ ॥