व्यवसितं निश्चितमतिम् निर्देश आज्ञा बाष्पसंरुद्धा बाष्पसंरुद्धवाक् । धर्मिष्ठं रामम् ॥ २।२४।१ ॥
उञ्छः क्षेत्रपतितकणशो ग्रहणम् । वर्तयेज्जीवेत् भवानिति शेषः ॥ २।२४।२ ॥
भृत्या भर्तव्याः । अयमुपस्कृतमांसादिभोजनशीलः ॥ २।२४।३ ॥
वियास्यत इति यदेतच्छ्रुत्वा कः श्रद्दधेत्सत्यं मन्वीत सत्यमिति वा ज्ञात्वा कस्य स्वपित्रादिभ्यो भयं न भवेत् ॥ २।२४।४ ॥
सर्वमादिशन्सुखदुःखेन योजयन् । कृतान्तो दैवं बलवानिति नूनमहं मन्ये । यत्र यस्माद्धे राम अभिरामस्त्वं लोके कर्मलोके स्थितो वनं गमिष्यसि ॥ २।२४।५ ॥
आत्मभव आत्मजः स्वमनःसंभूतः तवादर्शनमेव वर्धकत्वान्मारुतो यस्य सः विलापदुःखैः समिधः समिन्धनं यस्य सः घञर्थे कः रुदिताश्रूण्येव हुता आहुतयो यस्मिन्सः चिन्ताहेतुकबाष्पमेव महाधूमो यस्य स तवागमनचिन्तजः चिन्तज इति बाहुलकाद्ध्रस्वः तव या गमनचिन्ता तया जनितः । “अधर्शनचिन्तजः” इति पाठे ऽप्यदर्शनजातचिन्ताजनित इत्यर्थः । परे त्वदर्शनस्य मारुतत्वेन निरूपणात्स चिन्त्य इत्याहुः । निःश्वासरूपायासेन संधुक्षणात्संभवो वृद्धिर्यस्य सः । त्वया विहीनां मामधिकं कर्शयित्वा कृशां कृत्वातुलो युक्तगुणः शोकाग्निर्मां धक्ष्यति । हिमात्यये ग्रीष्मे चित्रभानुर्वह्निः सूर्यो वा ॥ २।२४।६८ ॥
कथमिति यथेत्यर्थः क्वचित्तथैव पाठः ॥ २।२४।९ ॥
यथा निगदितं येन प्रकारेण निगदितं तद्वाक्यं श्रुत्वा आत्मानुगमनं श्रुत्वेति यावत् ॥ २।२४।१० ॥
वञ्चितो वञ्चनया मद्वियोजनाद्दुःखं प्रापितो न वर्तयिष्यति न जीविष्यति ॥ २।२४।११ ॥
केवलं नृशंसः क्रौर्यमेव न तु तेनेहामुत्र सुखमित्यर्थः । मनसापि न कर्तव्यो न चिन्तनीयः यतो विगर्हितो महापापहेतुत्वादतिनिन्दितः ॥ २।२४।१२ ॥
अतः यावदिति ॥ २।२४।१३,१४ ॥
एवं वचनमुक्तो भर्तृशुश्रूषाङ्गीकारवचनमुक्तः श्रावितः ॥ २।२४।१५ ॥
उभयोस्तद्वचनावश्यकर्तव्यत्वहेतुर्भर्ता गुरुरिति च यथायोगम् ॥ २।२४।१६ ॥
पितृवाक्यकरणानन्तरं त्वच्छुश्रूषापि कार्येत्याह इमानीति । विहृत्येत्यनेन वनवासस्य मृगयावल्लीलात्वं दर्शितम् । वचने स्थास्यामि वचनमनुष्ठास्यामि ॥ २।२४।१७ ॥
एवमुक्ता पुत्रेणेति शेषः ॥ २।२४।१८ ॥
अङ्गीकृतभर्तृसेवापि सपत्नीदुःखस्मरणात्पुना
रामानुगमनमभिलषति आसामित्यादि । वन्यां वने भवाम् ॥ २।२४।१९ ॥
यदि ते इत्याद्यर्धं पूर्वान्वयि । तां तथा रुदतीं दृष्ट्वापि स्वयमरुदन्वचो ऽब्रवीत् । रोदने कातर्यप्रकटनेन मातुः पुनरप्यनुगमनप्रत्याशाप्रसङ्गात् ॥ २।२४।२० ॥
प्रभवति दण्डादौ समर्थो भवति ॥ २।२४।२१ ॥
धीमतेति । सनाथा इति शेषः । अथ सपत्नीमध्यवासो दुष्कर इत्यत्र परिहारमाह भरत इति ॥ २।२४।२२ ॥
भवतीमिति । अतः कैकेयीकोपो ऽकिंचित्कर इति भावः । यथा मयि निष्क्रान्ते
श्रमं नाप्नुयात्तथा कुरु यथा चैनं राजानं शोको न विनाशयेत्तथा च कुरु ॥ २।२४।२३,२४ ॥
द्विजस्य गायत्रीजपवत्स्त्रिया भर्तृशुश्रूषैव परं नित्या नान्यत्किंचित्प्रत्युत तद्विरोध्यन्यदाचर्यमाणं प्रत्यवायजनकमपीत्याह व्रतेत्यादि । नित्याकरणजप्रत्यवायानर्थं साङ्गाप्यनित्यधर्मकृतिः परिहर्तुं न शक्नोतीति भावः ॥ २।२४।२५,२६ ॥
नित्यानुष्ठाने सत्यनित्याकरणे ऽपि न परलोकनाश इत्याह अपि येति । निर्नमस्कारा भर्तृव्यतिरिक्तदेवादेर्नमस्काराद्युपचाररहिता । देवपूजनाद्विष्ण्वादिदेवपूजनात् । सापि स्वर्गं लभते इति
प्राक्तनेनान्वयः । एतमेवार्थं नियमविधिद्वारेण द्रढयति शुश्रूषामेवेति । तत्प्रीतिजनकं कर्मैवेत्यर्थः । तदेवाह प्रियहिते रतेति । हितपदेन पश्चादुक्तेनैतद्धनयति । आपाततो ऽप्रियमपि हितं कुर्यादापाततः प्रियमप्यहितं त्यजेदिति ॥ २।२४।२७ ॥
तत्र मानमाह एष भर्तृसेवारूपो धर्मः स्त्रिया नित्य इति वेदे श्रुतः लोके स्मृतः तर्हि किं कर्मान्तरं सर्वथा त्याज्यं नेत्याह अग्नीत्यादि । भर्तृसंमतेष्वग्निकार्येषु च तेष्वेव । च एवकारार्थः ॥ २।२४।२८ ॥
एवं भर्तृसेवातत्परतया । कालं ममागमनकालम् ॥ २।२४।२९ ॥
काममैहिकविषयसुखम् ॥ २।२४।३० ॥
तस्य पुत्रमात्रासाध्यत्वादाह यदीति । अनेन दशरथमरणस्य संनिहितत्वं सूचितम् ॥ २।२४।३१ ॥
सुकृतां सुष्ठुकृतनिश्चयाम् ॥ २।२४।३२ ॥
काल इष्टवियोगादिजनकः ॥ २।२४।३३ ॥
आनृण्यताम् । स्वार्थे ष्यञ् ॥ २।२४।३४ ॥
मे वच आविद्ध्याच्छिद्य त्वां सञ्चोदयति । वनायेति शेषः इति यत्, अतः कृतान्तस्य गतिर्दुर्विभाव्या ॥ २।२४।३५ ॥
श्लक्ष्णेन निर्मलेन चारुणा मनोहरेण साम्ना सान्त्वेन वचनेन । “शुक्लेन” इति पाठान्तरम् ॥ २।२४।३६ ॥
अदर्शनासहिष्णुत्वात्प्रत्यागमनकाल इदानीमेव भवेदिति प्रार्थयते अपीति । येन कालेन प्रत्यागतं प्रत्यागमनं भवेत्स इत्यर्थः । अपीदानीमिति लोकोक्त्योवाच ॥ २।२४।३७ ॥
परमेणादरवता । धर्मशीलत्वाद्देवर्षिरक्षणोद्यतत्वाच्च भगवत्सङ्कल्पेनैव तथा ज्ञानं तस्या इति बोध्यम् । स्वस्त्ययनं मङ्गलमभिकाङ्क्षितुं शीलमस्त्यस्याः सा ॥ २।२४।३८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुर्विशः सर्गः ॥ २।२४ ॥