दुःखहर्षयोर्मध्यं जगाम । रामस्य धर्मे धैर्यं दृष्ट्वा हर्षस्तस्य
राज्यभ्रंशाद्दुःखमित्येषा मध्यगतिः लक्ष्मणस्य शेषावतारत्वेन तमोगुणप्रधानता, ज्येष्ठस्य विवेकवाक्यश्रवणेन सत्त्वोदयश्चेति भावः ।
अधःशिरस्त्वेनोक्तार्थस्यार्धाङ्गीकारध्वननम् । इवेन तमसः स्वाभाविकत्वात्तस्य स्थिरता ध्वन्यते ॥ २।२३।१ ॥
तामेव दर्शयति तथा त्विति । तथा भयङ्करामित्यर्थः । बिलमत्र परबिलम् ॥ २।२३।२ ॥
दुष्प्रतिवीक्ष्यं संमुखतया द्रष्टुमशक्यम् । सादृश्यं दुर्दर्शत्वेन ॥ २।२३।३ ॥
अग्रहस्तं हस्ताग्रम् । रामेण क्षमापनाय गृहीतमित्यर्थः । तिर्यगित्यादि क्रोधातिशयेन विविधं शिरोधूननं कृत्वेत्यर्थः चादध इत्यपि ॥ २।२३।४ ॥
अग्राक्ष्णा कटाक्षेण । तिर्यग्वक्रं भ्रातरमीक्षमाणः । धर्मदोषो धर्मविरोधस्तत्प्रसङ्गेन तत्परिहारशेषतया, पितृवचनमकुर्वन्कथमस्मान्धर्मेण पालयिष्यतीति या लोकस्यातिशङ्का तदभावसंपादनहेतुना मयापि पितृवचसो ऽकरणे ऽन्यो ऽपि पितृवचो न करिष्यतीति लोकनाशशङ्काहेतुना च, यस्य ते सुमहानयं वनगमनं प्रति संभ्रमो जातः सो ऽस्थाने ऽयुक्तो भ्रान्तिमूल एव । भ्रान्तिमूलत्वमेवाह कथं हीति । अशौण्डीरमसमर्थं दैवमिति किंचिद्वस्तु प्रबलमिति । एवंजातीयकं यथा हि यथैव त्वं वदसि एतदेतज्जातीयं त्वद्विधः शौण्डीरो दैवनिराकरणे ऽपि समर्थः क्षत्रियर्षभो यद्यसंभ्रान्तः स्यात्कथमेतद्वक्तुमर्हति, न कथमपि । अतः कृपणमसमर्थैकपरिग्राह्यतया शोच्यम् अशक्तं पौरुषसंनिधौ कार्यासमर्थं दैवपदार्थं प्राकृतवत्किमभिशंसस्यभिष्टौषि ॥ २।२३।५७ ॥
एवं दैवावलम्बनं प्रतिक्षिप्य धर्मदोषप्रसङ्गं परिहरति पापयोरिति । पापात्मनोस्तयोः कैकेयीदशरथयोर्विषये ते कथं नाम शङ्का
पापात्मत्वशङ्का न विद्यते न जायते । ननु धर्मव्यवहारवतोः कथमेषा शङ्का तत्राह सन्तीति । हे धर्मात्मन्धर्मैकस्वभाव धर्म उपधा छलं तत्रासक्तमासक्तिर्लोकप्रतारणाय येषां तादृश बहिर्धर्मपरा अन्तःपापासक्ताः सन्ति तान्किं कथं न बुध्यसे ॥ २।२३।८ ॥
तयोर्धर्मोपधत्वं दर्शयति तयोरिति । स्वार्थं स्वकार्यसिद्ध्यर्थम् सुचरितं त्वाम् शाठ्यान्मृषाक्लृप्तधर्मव्यवहारात् परिजिहीर्षतोस्त्यक्तुमिच्छतोस्तयोः कृत्यं किं न बुध्यसे इत्यनुकर्षः । अमुमर्थमर्थापत्त्या साधयति यदीति । यदि तयोरेवं शाठ्येन त्वदर्थप्रच्यावनं व्यवसितमभिप्रेतं न स्यात्तदाभिषेकारम्भं कृत्वा तद्विघ्नकरणं न स्यादिति शेषः । हि यस्मात्प्रागेव पूर्वकाल एव तयोर्दातृप्रतिग्रहीतृभावेन संबद्धः स वरः प्रकृतः प्रवृत्तप्रसङ्गस्तथ्यः स्यात्तदा प्रागेवाभिषेकारम्भात्पूर्वमेव दत्तः स्यात् त्वदभिषेकारम्भं विनैव भरताभिषेकत्वद्वनवासौ कृतौ स्याताम् । तस्माद्वरप्रदानकथा
मिथ्यैवेति भावः ॥ २।२३।९ ॥
यद्यपि दत्तो ऽपि वरो राज्ञा विस्मृत इति तेन मदभिषेकारम्भः कृत इत्यादिसमाधानं शक्यं तथापीदृशवरदानस्य लोकविद्विष्टत्वेनानौचित्यादनुचितकर्तृत्वेन
राजा त्याज्य एवेत्याह लोकेति । ज्येष्ठे श्रेष्ठगुणे जाग्रति कनिष्ठविषयकत्वात्तदभिषेचनस्य लोकविद्विष्टत्वं प्रत्यक्षव्यवहारविरोधाच्छास्त्रविरोधाच्चेति भावः । मे अपराधमिति शेषः । त्वद्विषये प्रतिवचनदानरूपं ममापराधं क्षन्तुमर्हसि ॥ २।२३।१० ॥
प्रतिवचनमेवाह येनेत्यादि । यत्प्रसङ्गाद्यस्य पितृवचनस्य प्रसङ्गाद्धर्मत्वप्रसङ्गकल्पनाद्धेतोर्विमुह्यसि तदकरणे प्रत्यवायः स्यादिति मोहं प्राप्तो ऽसि । येन च मोहेन तव बुद्धिरेवं द्वैधमागता पूर्वं राज्यग्रहणविषयत्वमधुना तत्त्यागविषयत्वरूपं प्रकारद्वयं प्राप्ता स धर्मो ऽपि मम द्वेष्यः धर्माभासत्वादिति भावः ॥ २।२३।११ ॥
तस्य धर्माभासत्वमेवाह कथमिति । कर्मणाचिन्त्यवैभवस्वक्रियाशक्त्या कर्तुमकर्तुमन्यथा कर्तुं च शक्तः समर्थस्त्वं कैकेयीवशवर्तिनः स्त्रीजितस्य अत एव गर्हितं लोकनिन्द्यमधर्मिष्ठं च वचः करिष्यसि ॥ २।२३।१२ ॥
एवं स्पष्टे ऽप्यधर्मे तवाधर्मबुद्धिर्न जायत इति मे दुःखमित्याह यदिति । अयं भेदो ऽभिषेकविघटनात्मा किल्बिषान्मृषावरप्रकल्पनात्कृतो ऽपि यद्यतस्त्वयैवं मृषावरप्रकल्पितत्वेन न गृह्यते, अतो मे तत्र तद्विषये दुःखं जायते । कपटकृतमप्यर्थमसौ साधुतया गृह्णातीति मम व्यथेति भावः । किचैवंविधधर्मासक्तिर्निन्द्या ॥ २।२३।१३ ॥
तदेवाह तवेत्यादिना । अयं वनवासरूपो दोषस्य दोषत्वाग्रहमेव शोचति । त्वां त्वां विना तत्कृते कर्मणि दैवकृतत्वबुद्धिं त्वां विनान्यः कामवृत्तयोरहितयोर्नित्यं पितृनामकशत्र्वोः कामं मनोरथं मनसापि कथं कुर्यात् अनुष्ठानं तु दूरत इति भावः ॥ २।२३।१४ ॥
वरस्य वास्तवं दैवकृतत्वमभ्युपेत्याप्याह यद्यपीति । तयोः पित्रोः प्रतिपत्तिस्त्वदभिषेकविघटनविषया बुद्धिरपि दैवी च दैव्येवेति यद्यपि ते मतं तथापि ते त्वया स्वमतमप्येतदुपेक्षणीयं यतस्तदपीदृशं विरुद्धकारि दैवमपि न रोचते । एवं च प्रियभ्रातुर्ममासंमतत्वादिदं त्वया त्याज्यमिति भावः ॥ २।२३।१५ ॥
किं च त्वादृशस्य दैवालम्बनवादो ऽप्ययुक्त इत्याह विक्लव इति । लोकाप्रसिद्ध इत्यर्थः । संभावितात्मानः सर्वलोकश्लाध्यशौर्यादिमन्तः ॥ २।२३।१६ ॥
समर्थस्त्वादृशः विपन्नार्थो हतप्रयोजनः सः त्वादृशः ॥ २।२३।१७ ॥
ननु दैवबाधनसामर्थ्यं न कस्यापि इति चेत्तत्राह द्रक्ष्यन्तीति । पौरुषं बलं
द्रक्ष्यन्ति लोका इति शेषः । व्यक्तिः प्रबलदुर्बलत्वविवेकः । अद्य मत्पौरुषेणेति शेषः ॥ २।२३।१८ ॥
तदेवाह अद्येति । यैर्देवादाहतं राज्याभिषेचनं ते दृष्टं ते जना अद्य मत्पौरुषहतं
दैवं द्रक्ष्यन्ति यद्दैवात् इति पाठे यस्माद्दैवादाहतम् । येन दैवेनाहतमिति यावत् । दृष्टं यैर्जनैर्दृष्टं ते जनास्तद्दैवं मत्पौरुषहतं द्रक्ष्यन्तीत्यर्थः ॥ २।२३।१९ ॥
अत्यङ्कुशमतिक्रान्ताङ्कुशव्यापारम् । उद्दाममुत्कृष्टदामं निःशृङ्खलमिति यावत् । प्रधावितमभिमुखं धावितं पौरुषेण स्वगतबलेन निवर्तये ॥ २।२३।२० ॥
दैवनिवर्तनं स्वबलस्येषत्करमित्याह लोकेत्यादि ॥ २।२३।२१ ॥
मिथः परस्परैकवाक्यतया स्वपौरुषेण । राजत्वं सिद्धवत्कृत्याह राजन्निति ॥ २।२३।२२ ॥
तदाशां तामाशाम् । तां काम् या तवाभिषेकविघातेन पुत्रराज्याय पुत्रराज्यप्रापणार्थं वर्तते
तामित्यर्थः ॥ २।२३।२३ ॥
मद्बलेन त्वत्पक्षभूतेन मया विरुद्धाय जनाय यथा ममोग्रं पौरुषं दुःखाय प्रभविष्यति तथा दैवबलं न स्यात् तन्निरासनसमर्थमिति शेषः ॥ २।२३।२४ ॥
अथ वनवासोचितं कालं स्वयमेवाह ऊर्ध्वमिति । एतद्विवरणं वर्षसहस्रान्त इति । तस्मिन्नतीते त्वयि वनवासं गते ऽनन्तरमार्यपुत्रा आर्यस्य तव पुत्राः प्रजापाल्यं प्रजापालनरूपं राज्यं करिष्यन्ति तदानीमप्यन्येषां नावकाश इति भावः ॥ २।२३।२५ ॥
इदमेव युक्तमित्याह पूर्वेति । हि यतः पुत्रवत्परिपालननिमित्तं पुत्रेषु प्रजा निक्षिप्य पश्चाद्वनवासः पूर्वराजर्षिवृत्त्या तदाचारेणाभिधीयते । “विधीयते” इत्येव क्वचित्पाठः ॥ २।२३।२६ ॥
राजनि दशरथे ऽनेकाग्रे कामवशादुक्तवानप्रस्थधर्मानुष्ठानैकाग्रताराहित्येन चलचित्ततया प्रतिकूले सति राज्यविभ्रमशङ्कया तद्वचोविरोधेन राज्यग्रहणे सकललोकक्षोभेण स्वस्मिन्राज्यस्य विभ्रमशङ्कया चलनशङ्कया स्थैर्यशङ्कया स वनवासधर्मः त्वया चेदङ्गीक्रियत इति शेषः । किंच हे राम एवं श्रेष्ठत्वाद्धर्मतः प्राप्तं राज्यं तयैव शङ्कया यद्यात्मनि नेच्छसि तदा तां शङ्कां त्यजेति शेषः । “राज्यकामत्वम्” इति पाठे एवं प्राप्तं राज्यभोक्तृत्वं राज्यरूपभोग्यसंबन्धं वा यदि नेच्छसीत्यादि प्राग्वत् ॥ २।२३।२७ ॥
तत्र हेतुः प्रतिजाने इत्यादि । अहं वेला सागरमिव तव राज्यं च त्वां च रक्षेयम् । अन्यथा वीरलोकभाङ्मा भूवमिति ते तवाग्रे प्रतिजाने ॥ २।२३।२८ ॥
तस्मात्त्वं मङ्गलैरभिषेकसाधनैरात्मानमभिषिञ्चस्व वसिष्ठादिभिरिति शेषः ।
तत्राभिषेकव्यापारे व्यापृतो व्यापृतचित्तो भव । तत्प्रतिबन्धकानहं वारयिष्यामीत्याह अहमिति । अलं समर्थः ॥ २।२३।२९ ॥
तदेव दर्शयति नेति । आबन्धनार्थाय काष्ठानां परस्परं बन्धनहेतुच्छिद्रादिकरणाय स्तम्भः कस्यचित्काष्ठादेरधःपतनप्रतिबन्धः ॥ २।२३।३० ॥
न चेत्यादि सार्धस्लोक एकं वाकयम् । यो ऽत्यर्थं मम मतः संमतः शत्रुः स्यात्तं
यं कंचिच्छत्रुं वज्रिणं वा इन्द्ररूपं वा प्रगृहीतेन तीक्ष्णधारत्वादिविशिष्टेनारिना न कल्पये न खण्डशः कल्पये, एवमहं न कामये च एवं कामनामपि न करोमि सर्वधा खण्डाम्येवेति भावः ॥ २।२३।३१,३२ ॥
खड्गनिष्पेषनिष्पिष्टैः खड्गकृताघातेन खण्डितैर्मही गहना निरन्तरत्वात् । अत एव दुश्चरा हस्त्यादीनां हस्तादिभिः क्रमात्संबन्धः । भवितेति लुट् ॥ २।२३।३३ ॥
हता विच्छिन्ना अग्नय इव दीप्यमाना रक्तधारया अत एव सविद्युतो मेघा इव ॥ २।२३।३४ ॥
उक्तधर्मविशिष्टे मयि स्थिते सति पुरुषाणां मध्ये कश्चिदपि कथं पुरुषमानी आत्मानं पुरुषं मन्यमानः शूराभिमानी कथं स्यादित्यर्थः ॥ २।२३।३५ ॥
अत्यस्यन्पातयन् बहुभिर्बाणैः एकेन बाणेन विनियोक्ष्यामि त्यक्ष्यामि ॥ २।२३।३६ ॥
अस्त्रप्रभावस्यास्त्रसामर्थ्यस्य प्रभावः प्रतापः राज्ञो दशरथस्य प्रभविष्यत्युज्जृम्भितो भविष्यति ॥ २।२३।३७ ॥
चन्दनसारस्य चन्दनसारानुलेपनस्य केयूरामोक्षणस्याङ्गदधारणस्य, वसूनां मोक्षणस्य दानस्य, सुहृज्जनपालनस्यानुरूपावर्हौ मे बाहू इमौ पीनप्रलम्बौ ते ऽभिषेचनविघ्नस्य कर्तृ़णां निवारणे कर्म स्वानुरूपं कर्म करिष्यतः ॥ २।२३।३८,३९ ॥
ब्रवीहीत्यार्ष ईट् । वियुज्यतां वियोज्यताम् ॥ २।२३।४० ॥
एवंवादिनं लक्ष्मणं रामो नायमेतस्य काल इत्याह विमृज्येति । बाष्पं लक्ष्मणनयनजं विमृज्य परिमृज्य । “विसृज्य” इति पाठे ऽन्तर्भावितण्यर्थतया विसर्जयित्वा । चक्षुषी परिमृज्येति यावदिति कतकः । पित्रोर्वचने व्यवस्थितं प्रतिष्ठितं मां निबोध । हे सौम्य एष हि सत्पथः “जीवतोर्वाक्यकरणात्प्रत्यब्दं भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥ " इति न्यायादिति भावः । निबोधेत्यस्य नितरामतिशयेनावतरणकालिकवृत्तान्तस्मरणपूर्वकं जानीहि । एष हि एष एव सत्पथः सतां रक्षकः पन्था इत्यप्यर्थोऽत्र गूढः ॥
२।२३।४१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय
आदिकाव्ये ऽयोध्याकाण्डे त्रयोविंशः सर्गः ॥ २।२३ ॥