अथ रामः सौमित्रेः कैकेयीविषयं रोषं शमयतीत्याह अथेति । व्यथया रामस्य राज्यहानिजन्यया । सविशेषं रामेष्टजनान्तरापेक्षयेति शेषः । अमर्षितं प्राप्तासहनम् । विस्फारणं विस्तारः ॥ २।२२।१ ॥
आसाद्याभिमुखीकृत्य धैर्येण सत्त्वं चित्तमविकारितया धारयन्प्रकटयन् ॥ २।२२।२ ॥
किमुवाचेत्यत्राह निगृह्येति । रोषं पित्रादिवधहेतुम् । अवमानं वनप्रवासनरूपं निरस्य शत्रुकृतत्वाभावात् । उत्तमं हर्षं सत्यपालनेन पितुः पुण्यलोकसिद्धिजं हर्षम् ॥ २।२२।३ ॥
तादृशहर्षसिद्ध्यर्थमेव हे लक्ष्मण अभिषेकप्रयोजनकं निवर्तय । कार्यं वनगमनोपयुक्तम् ॥ २।२२।४ ॥
तदेवाह सौमित्रे इति । संभारसंपादनाय यः संभ्रमस्त्वरा साभिषेकनिवृत्त्यर्थे ऽस्तु । वनगमनपरिकरसंपादनायास्त्विति यावत् ॥ २।२२।५ ॥
किंच यस्या मदभिषेकार्थे मदभिषेकनिवृत्तौ अर्थशब्दो निवृत्तिवचन इह “अर्थो ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु” इत्यमरः । सविशङ्का कथमयं वने स्थास्यतीति शङ्कया सदुःखा । तथा कुरु । अल्पेनैव कालेन रामं द्रष्टासि, पित्राज्ञाभङ्गश्चातिनिन्द्य इत्यादिवाक्येरिति शेषः । यद्वा यस्याः कैकेय्या नो माता कैकेयी सशङ्का अयं वनं न गमिष्यतीति शङ्कासहिता ॥ २।२२।६ ॥
कुत एवं तत्राह तस्या इति । तस्या मनसि प्रतिसंजातं शङ्कामयं दुःखं मुहूर्तमप्युपेक्षितुं नोत्सहे, “उदीक्षितुम्” इति पाठे द्रष्टुमित्यर्थः ॥ २।२२।७ ॥
तदेवोपपादयति न बुद्धीति । अबुद्धम् अज्ञानपूर्वं वा । अल्पं चाल्पमपि विप्रियं विप्रियकरं कदाचन कदापि कृतं न स्मरामीत्यन्वयः । “समारब्धम्” इति पाठे नारब्धवानस्मीत्यर्थः ॥ २।२२।८ ॥
सत्यः सत्यवचनस्वभावः सत्याभिसंधः सत्यप्रतिज्ञः परलोकभयात्परलोकभयहेतोरसत्याद्भीतः पिता निर्भयो ऽस्तु मया तत्कृतसत्यपरिपालनात् ॥ २।२२।९ ॥
अस्मिन्कर्मण्यभिषेकविषये कर्मणि अप्रतिसंहृते ऽनिवर्तिते मम वचः सत्यं न वृत्तमिति मनस्तापो भवेत् तस्य च मनस्तापो मामपि तपेत् पितृहितमकुर्वतो मम जन्म व्यर्थमिति पीडयेत् ॥ २।२२।१० ॥
यत एवमतः अभिषेकेति । संहृत्य त्यक्त्वा अन्वगेव शीघ्रमेव इतः पुरो ऽस्मान्नगरात् ॥ २।२२।११ ॥
नृपात्मजा कैकेयी । अव्यग्रमव्याकुलम् ॥ २।२२।१२ ॥
गते गते एव ॥ २।२२।१३ ॥
कैकेय्या अत्र नापराधः अन्यप्रेरितत्वात् । तर्हि स एव दण्ड्यस्तत्राह बुद्धिरिति । येनेश्वरेण विधात्रेयं बुद्धिः कैकेय्याः प्रणीता मन्थराद्वारा दत्ता, मनश्च तद्बुद्दिविषये ऽर्थे सुसमाहितं स्थिरीकृतं तं संक्लेष्टुं मत्कृतमन्यथा जातमिति क्लेशयितुं नार्हामि तस्य मदधिकारित्वान्मद्रूपत्वाद्वेति गूढ आशयः मत्संकल्पकृतमेव तदिति गूडं व्यङ्ग्यम् अशक्यत्वादित्यापाततो ऽर्थः । अतो वनं प्रव्रजिष्यामि । चिरं विलम्बो मा मास्त्वित्यर्थः ॥ २।२२।१४ ॥
तत्प्रेरयितारमाह कृतान्त इत्यादि । मद्विवासने मद्विवासनप्रेरणायाम् एवमभिषेकविवर्तनप्रेरणायां कृतान्तो दैवमेवेन्द्रादीनां दुःखनिवर्तकादृष्टमेवेति गूढम् । मत्प्रजानां मत्कृतपरिपालनलाभाभावजनकमदृष्टमिति स्फुटं द्रष्टव्यः कारणत्वेन द्रष्टव्यः । यत्तु रामस्य
प्राक्कृतदुरदृष्टं दैवमिति तन्न, भगवतस्तस्याभावात् ॥ २।२२।१५ ॥
तदुपपादयति कैकेय्या इति । प्रतिपत्तिरध्यवसायः । यदि कृतान्तविहितस्तत्प्रेरितो ऽयं भावो ऽभिप्रायो न भवेत् ॥ २।२२।१६ ॥
ईदृशस्य कैकेय्या भावस्य दैवकारणकत्वसिद्धये तस्याः सहजभावमाह जानासीत्यादि । अन्तरं वैषम्यम् । भूतपूर्वं तस्या वा मयि सुते भरते ऽपि वा न विशेषो भूतपूर्वः तस्माद्दैवकृतमेव वैषम्यमिति भावः ॥ २।२२।१७ ॥
तस्मात् स इति । सो ऽहं रामो दुर्वचैः सामान्येनापि न वक्तुं शक्यैः किं पुनर्वाच्यं दशरथपत्न्या केकयकन्यया, तादृशैर्वाक्यै राज्ञः कैकेय्या प्रेरणे दैवादन्यत्कारणं सो ऽहं रामो न समर्थय इत्यन्वयः ॥ २।२२।१८ ॥
तदेव द्रढयति कथमिति । प्रकृतिसंपन्ना सत्त्वप्रकृतियुक्ता तथागुणा प्रागनुभूततादृक्कल्याणगुणा तत्रापि भर्तृसंनिधौ मत्पीड्यं मत्पीडाजनकं तदेव । “मदधम्” इति पाठे ऽप्ययमेवार्थः । वाक्यं ब्रूयात् यदि न दैवप्रेरितेति भावः ॥ २।२२।१९ ॥
ननु तद्दैवं क्वास्ति, कीदृक्चेत्यत आह यदिति । देशकालवृत्तितया यदचिन्त्यमीदृग्विधमिति चिन्तयितुमशक्यं तद्दैवं यद्भूतेषु भूताधिष्ठातृषु ब्रह्मादिष्वपि न हन्यते न प्रतिहतं भवति हि अतस्तत्कृत एव तस्यां मयि च विपर्ययः पूर्वस्थितवात्सल्यापगमरूपो हस्तगतराज्यभ्रंशरूपश्च पतितः ॥ २।२२।२० ॥
ननु शौर्येण दैवं हनिष्यामीति चेत्तत्राह कश्चेति । यस्य दैवस्य ग्रहणं ज्ञानं
ज्ञानजनकं कर्मणः फलादन्यन्न दृस्यते । एवं च नित्यकार्यानुमेयतया प्रागज्ञातत्वाद्योद्धुमशक्यं जाते तु फले विफलं युद्धम् फलेन तस्य नाशाच्चेति भावः ॥ २।२२।२१ ॥
सर्वतो दैवमेव प्रबलं पौरुषं तु काकतालीयमित्याह सुखेत्यादि । भवाभवौ
बन्धमोक्षौ एषां मध्ये यस्य यत्तथाभूतमचिन्त्यकारणकं किंचित्कार्यं तन्ननु निश्चयेन दैवस्य कर्म फलम् ॥ २।२२।२२ ॥
दैवप्राबल्यमेव द्रढयति ऋषय इति । विश्वामित्रादयः मन्युः क्रोधः बहुवचनं व्यक्तिबहुत्वात् तैर्भ्रश्यन्ते ऽभिभूयन्ते ॥ २।२२।२३ ॥
पुनरपि स्ववनवासस्य दैवजत्वं द्रढयितुं दैवकार्यलक्षणमाह असङ्कल्पितमिति । आरम्भैर्यत्नैरारब्धमुपक्रान्तं कार्यं निवर्त्य यदसङ्कल्पितमेवाचिन्तितमेवाकस्माद्दृष्टहेतुं विना प्रवर्तते तद्दैवस्य कर्म ननु ॥ २।२२।२४ ॥
उपसंहरति एतयेति । तत्त्वया यथार्थया बुद्ध्या बुद्धियोगेनात्मनान्तःकरणस्थेनात्मानमन्तःकरणसंस्तभ्य यदि तिष्ठसीति शेषः । तदा मे ऽभिषेके व्याहते ऽपि तव परितापो न विद्यते न भवति ॥ २।२२।२५ ॥
अथ तत्कालकर्तव्यं नियुङ्क्ते तस्मादिति । उपदिष्टबुद्धियोगबलादित्यर्थः । अपरितापः परितापहीनः संस्त्वमपि मामनुविधाय मामनुसृत्याभिषेचनिकीं तत्प्रयोजनिकां क्रियामलङ्कारं प्रतिसंहारय निवर्तय । अनेन गूढं लक्ष्मणस्यापि वनगमनं सूचितम् ॥ २।२२।२६ ॥
तापस्ये तद्रूपव्रतस्य सङ्कल्पे व्रतस्नानं व्रतसङ्कल्पायापेक्षितं स्नानं व्रतस्नानं तदेभिर्भविष्यतीति योजना ॥ २।२२।२७ ॥
तापस्यव्रतस्नाने ऽप्येभिः क्रियमाणे राज्यलिप्सया स्नानं कृतवानिति कैकेय्याः शङ्का मा भूदिति तन्निषेधति– अथवेति । राज्यद्रव्यमयेन राज्याभिषेकसाधनमङ्गलद्रव्यप्रचुरेण । स्वयं
स्वहस्तेनोद्धृतं तोयं मे व्रतादेशं व्रतसङ्कल्पाधिकारम् ॥ २।२२।२८ ॥
राज्यवनवासयोर्वनवासो महोदयो महाफलः । प्रजानां कृत्याकृत्यचिन्ताव्यापारराहित्येन सततं तपःप्रवृत्त्या पितृवाक्यपरिपालनेन चेति भावः ॥ २।२२।२९ ॥
उपदेशस्य परमप्रयोजनमाह नेति । न माताभिशङ्कितव्या, न पिताभिशङ्कितव्यः, यतो दैवाभिपन्ना दैवग्रस्ता एवमभिशङ्कत इति शेषः । यद्वा दैवाभिपन्नत्वं मातापित्रोर्विशेषणम् । त्वं च दैवं तथाप्रभावमिति जानासि, अतो नातिशङ्कनीया ॥ २।२२।३० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकव्ये ऽयोध्याकाण्डे द्वाविंशः सर्गः ॥ २।२२ ॥