तत्कालसदृशं रामवियोगहेतुककौसल्यादुःखप्रवृत्तिकालोचितम् ॥ २।२१।१ ॥
आर्ये कौसल्ये गच्छेदिति यत्तन्ममापि न रोचते । स्त्रिया इत्याद्युत्तरान्वयि ॥ २।२१।२ ॥
अत एव विपरीतः प्राप्तप्रकृतिवैपरीत्यः । चोद्यमानः स्त्रिया । क्रोधवशात्पुनरुक्तिर्न दोषाय । किमिव न ब्रूयात् अनुचितशतमपि ब्रूयादतस्तद्वचो
न श्रद्धेयमिति । एतेन राजाज्ञाभङ्गः कथं कार्य इति शङ्का समाहिता ॥ २।२१।३ ॥
ननु रामदोषप्रयुक्तं विवासनं स्यात्तत्राह नास्येति । रामस्येत्यर्थः । अपराधं पितृविषयकं दोषमसमञ्जादेरिव प्रजावधादिपातकम् ॥ २।२१।४ ॥
सुतराममित्रो ऽपि शत्रुरपि निरस्तो ऽपि महापातकादिवशं गत्वा त्यक्तो ऽपि परोक्षमपि रामस्य दोषं यो वदेत्तं न पश्यामि ॥ २।२१।५ ॥
यदेवमतो देवतुल्यं दान्तं गुरुभिः शिक्षितम् एवमुक्तगुणं पुत्रं धर्ममवेक्षमाणः कस्त्यजेदित्यन्वयः । रिपूणां कैकेय्यादीनां विषये ऽपि वत्सलं स्निग्धम् ॥ २।२१।६ ॥
बाल्यं बालभावमविमृश्यकारित्वं कामपरवशत्वं उपेयुषः प्राप्तस्य । राजवृत्तं पूर्वराजाचरितम् ॥ २।२१।७ ॥
अतो यावदिममर्थं त्वत्प्रवासनरूपं कश्चिदपि न जानाति तावत्ततः पूर्वमेव शासनं राज्यमभिषेकेणात्मस्थमात्माधीनं कुरु । “शोभनम्” इति पाठे राज्यफलकमभिषेकम् ॥ २।२१।८ ॥
कथमेवं शक्यं तत्राह– मयेति । अधिकं त्वदाज्ञोल्लङ्घनपूर्वमभिषेकविघ्नम् ॥ २।२१।९ ॥
विप्रिये तव विपक्षभावे ॥ २।२१।१० ॥
पक्ष्यो मातुलादिः । यो वान्यः कश्चिदस्य हितमिच्छति । मृदुर्हीति अतो मार्दवं न युक्तम् । मार्दवानुचितः काल इति भावः ॥ २।२१।११ ॥
ननु राज्ञा राज्यस्य भरताय दीयमानत्वादपरिहार्यो ऽयमर्थस्तत्राह– प्रेति । कैकेय्या प्रोत्साहितस्तस्यां सन्तुष्टो यदि पिता नो ऽस्माकममित्रभूतो जायते तदासौ
बन्धनं प्राप्यताम्, अथवास्य वध एव क्रियताम् । त्रेताद्वापरयोः संधावयमवतारस्तदा च किंचिदधिकपादेनाधर्मप्रवेश इति तदनुसारेण लक्ष्मणस्यैवमुक्तिः, कैकेय्याश्च परोपदेशेनैवं मतिः, छलेन वालिवधे प्रवृत्तिश्च भगवत इति बोध्यम् ॥ २।२१।१२ ॥
नन्वेवं दोषः स्यात्तत्राह गुरोरिति । एवं च शास्त्रसंमतत्वान्नात्र दोष इति भावः ॥ २।२१।१३ ॥
ननु राज्ञो बलवत्त्वाद्बन्धनाद्यशक्यमत आह बलमिति । उपस्थितं ज्येष्ठत्वेन न्यायस्तवैव प्राप्तमिदं राज्यम् । एवं च बलहेत्वोरभावाद्बन्धनादि शक्यमेवेति भावः ॥ २।२१।१४ ॥
बलाभावमेवाह त्वयेत्यादि ॥ २।२१।१५ ॥
ननु तवाप्येवं वदतो न विश्वासो ज्ञातित्वाविशेषादत आह– अनुरक्त इति । भाव आन्तरो ऽभिप्रायः ॥ २।२१।१६ ॥
संप्रत्येवानुरागनिर्णय इत्याह दीप्तमिति । दीप्तमग्निम् क्रोधमित्यर्थः । अरण्यं वा पित्राज्ञया ॥ २।२१।१७ ॥
राघवश्चेति । चात्सर्वो जनश्च ॥ २।२१।१८ ॥
कैकेय्यासक्तमानसमत एव कृपणम् । वृद्धभावेन वृद्धत्वेन गर्हितं यथा भवति
तथा बाल्ये कामुकत्वे स्थितम् ॥ २।२१।१९,२० ॥
अनन्तरं युक्तं कार्यं तत्त्वं कुरुष्व यदि रोचते तर्हि लक्ष्मणवाक्यं कुरुष्वेति शेषः । अनेन कौसल्याया गूढं स्वानभिमतत्वं लक्ष्मणोक्तस्य सूचितम् ॥ २।२१।२१ ॥
पुना रामाभिप्रायनिर्णयाय लक्ष्मणवाक्यमेवोपोद्बलयितुमेतद्राजवाक्यमपि न येन तव दोषः स्यात्, किंतु मत्सपत्न्या इत्याह न चेति । अधर्म्यं कनिष्ठस्य राज्यरूपं मम सपत्न्या भाषितं वचः श्रुत्वा मां विहायेतो वनं गन्तुं नार्हसि ॥ २।२१।२२ ॥
अथ यदि सापत्नमातृवाक्योल्लङ्घने ऽप्यधर्मबुद्ध्या तत्राप्यादरस्तर्हि राज्यं परित्यज्यैवेह तिष्ठेत्याह धर्मज्ञ इति ॥ २।२१।२३ ॥
शुश्रूषुः शुश्रूषां कुर्वन् । पुत्रेति रामसंबोधनम् । त्रिदिवं गतः मातृसेवया प्राजापत्यपदं प्राप्त इति भावः । तथाहि ततो ऽपि गौरवेणाहं पूज्येत्यर्थः । “पितुर्दशगुणं माता गौरवेणातिरिच्यते” इति स्मृतेः । नानुजानामि वनं गन्तुमिति शेषः । किं च प्रतिषेधामीत्याह न गन्तव्यमित्यादि ॥ २।२१।२४,२५ ॥
अथ वनगमनपर्यन्तं तदाज्ञासत्वादत्र सर्वथा स्थातुमशक्यमिति चेत्तत्राप्याह त्वद्वियोगादिति । त्वद्वियोगात्परं जीवितादिना मे न किंचित्कार्यम् अतस्त्वयेत्यादि । एवं च मामपि सह नयेति भावः ॥ २।२१।२६ ॥
प्रायमनशनदीक्षाम् चो हेतौ यतो जीवितुं न शक्ष्यामि ॥ २।२१।२७ ॥
ततो मातुर्मरणान्तदुःखदानात् । समुद्रो हि कस्मिंश्चित्कल्पे
मातुर्दुःखजननरूपाधर्मात्पिप्पलादब्रह्मर्षिकृतां कृत्यां प्राप्य नरकवासतुल्यं दुःखं प्राप्तवानिति क्वचित्पुराणे प्रसिद्धमित्याहुः ॥ २।२१।२८,२९ ॥
तद्वचनस्य कर्तव्यत्वे ऽपि युगपदनुष्ठानासंभवात्पितृवचसः प्रथमप्राप्तत्वेन प्राबल्यात्तदतिक्रमो, शक्य इत्याह नास्तीति ॥ २।२१।३० ॥
किं च पितुर्वाक्येन गोमातृवधो ऽपि पूर्वैर्महात्मभिः कृतः, मया तु दुःखमात्रं मातुः संपाद्यत इति न किंचिदेतदित्याह ऋषिणेति । अधर्मं जानतापि ऋषिणापि मन्त्रद्रष्ट्रापि पितृवाक्यतो गौर्हता तस्मात्पित्तृवाक्याकरणे महानधर्म इति सूचितम् ॥ २।२१।३१ ॥
महान्वधो ब्राह्मणसकाशादतिनिन्द्यो वधः । अनेन प्राणत्यागेनापि पितृवाक्यं पालनीयमिति सूचितम् ॥ २।२१।३२ ॥
परशुना स्वयं स्वहस्तेन च्छिन्ना । अरण्ये तपोवने । एवं पित्राज्ञया मातृवधो ऽपि यद्यधर्मो न तदा दुःखमात्रं न तथेति किं वक्तव्यम् ॥ २।२१।३३ ॥
अक्लीबं कातर्यरहितम् । अतः पितुर्हितं करिष्यामि ॥ २।२१।३४,३५ ॥
ते प्रतिकूलमपूर्वं पूर्वानाचरितं धर्मं नाहं प्रवर्तये । उक्तस्यैवार्थस्यान्वयेन
प्रतिपादनं पूर्वैरिति । अयमभिप्रेतो धर्मजनकत्वेनेष्टः पितृवाक्यपालनरूपः पूर्वैरयं मार्गोगतः प्राप्तः, मयापि तेषामनु पश्चाद्गम्यते ॥ २।२१।३६ ॥
तस्माद्धेतोर्भुवि भूलोके कार्यं कर्तुं योग्यमेव तदेतत्पितृवाक्यं मया क्रियते नान्यथा ऽकृत्यं न क्रियत इत्यर्थः । नाम प्रसिद्धम् । कश्चिन्न हीयते मातुः किंचिद्दुःखोत्पादने ऽपि धर्मेणेति शेषः ॥ २।२१।३७ ॥
पुनरनन्तरम् ॥ २।२१।३८,३९ ॥
मम मातुर्यन्महद्दुःखं तत्सत्यशमयोरभिप्रायं तद्विषयमदभिप्रायमज्ञात्वा इत्यतस्तवेदृशं वाक्यं तत्त्वज्ञस्यानुचितमिति भावः ॥ २।२१।४० ॥
तदेवाह धर्म इति । धर्मः सर्वपुरुषार्थेषूत्तमः श्रेष्ठः । प्रतिष्ठितं प्रशस्तं कारणम् । एतदुत्तमं पितुर्वचनं धर्मसंश्रितमपि वने तपस्यया तपस्विरक्षणेन च धर्मलाभात् अतो ऽवश्यं कर्तव्यं तद्वच इति भावः । अत्रोत्तममित्यस्य त्रैलोक्यसुखदत्वेनोत्तममिति व्यङ्ग्यम् ॥ २।२१।४१ ॥
पितृवाक्यकरणस्य प्रतिज्ञातत्वादपि तदुल्लङ्घनमनुचितमित्याह संश्रुत्येति । प्रतिज्ञाय । वृथा मोघम् ॥ २।२१।४२ ॥
इदं सपत्न्याः कैकेय्या वचनं न पितुस्तत्राह सो ऽहमित्यादि ॥ २।२१।४३ ॥
अनार्यां मतिं पितरं बद्ध्वा हत्वा वा राज्यं कर्तव्यमित्येवमधर्मविषयां मतिम् । मद्बुद्धिः पितृवाक्यकरणरूपा अनुगम्यतामनुवर्त्यताम् ॥ २।२१।४४,४५ ॥
शापितासि शपथं प्रापितासि । गमननिरोधं मा कुर्विति शेषः ॥ २।२१।४६ ॥
दिवं हित्वा भूमौ पतितः पुनर्दिवं यथा गतस्तथेत्यर्थः ॥ २।२१।४७ ॥
पुनरेष्यामीत्यन्वयः ॥ २।२१।४८ ॥
पितू राज्ञो दशरथस्य ॥ २।२१।४९ ॥
संभारानभिषेकसंभारान् निगृह्य निवार्य अनुवर्त्यतां त्वयानुमन्यतामित्यर्थः ॥ २।२१।५० ॥
सुधर्म्यं धर्मयुक्तम् अव्यग्रं धैर्ययुक्तम् अविक्लवमकातरम् । मृतेव मूर्च्छितेति यावत् ॥ २।२१।५१ ॥
स्वधर्मेण पालनादिरूपमातृधर्मेण । सुहृत्तया पितुरिव स्नेहवत्तया ॥ २।२१।५२ ॥
लोकेनेतरबन्धुजनेन । स्वधया पितृपूजनेन इदमुपलक्षणं देवपूजादेरपि । अमृतेनामृतत्वसाधनेन तत्त्वज्ञानेनापि किम् कृत्स्नादपि जीवलोकात्कृत्स्नालोकसंनिध्यान्मुहूर्तमपि तव संनिधानमेव श्रेयः ॥ २।२१।५३ ॥
नरैरुल्काभिरलातैरपोह्यमानस्तुद्यमानो निशि ध्वान्तमभिप्रविष्टो गज इव भूयः प्रजज्वाल । किमिदं यन्मामधर्मे प्रवर्तयितुं विपलतीति क्रोधः ॥ २।२१।५४ ॥
तत्र रामस्य धर्मे निष्ठां वाल्मीकिः श्लाघते यथा स एवेति । तत्र तथाविधघोरदशायाम् । अनन्वयालङ्कारो ऽत्र ॥ २।२१।५५ ॥
ममाभिप्रायं धर्मैकनिष्ठत्वरूपम् । अभ्यर्दयसि पीडयसि । “अभ्यर्थयसि” इति पाठे प्रेरयसीत्यर्थः । सर्वथान्तर्भावितण्यर्थता । एवं सुतरां दुःखं मा मा कुर्वित्यर्थः ॥ २।२१।५६ ॥
धर्मफलोदयेषु पूर्वकृतधर्मफलोत्पत्तिकालेषु ये धर्मार्थकामास्त्रयो ऽपि लोके समीक्षिता दृष्टा मन्वादिभिर्धर्मफलत्वेन ये त्रयो ऽपि दृष्टास्ते सर्वे तत्र धर्मे सति अवश्यं भवेयुरिति मे मतिः न तु तत्र
मे कश्चित्सन्देह इति भावः । एकतो ऽनेककार्यलाभे दृष्टान्तमाह भार्येवेति । वश्यानुकूला । अतिथिपूजादिधर्मसाधनम्, अभिमताभिप्रिया कामसाधनम् । सपुत्रा परमलोकगमनरूपार्थसाधनं च भवति तद्वत् । तस्माद्धर्म एव मुख्य इति स एव रक्ष्य इति भावः ॥ २।२१।५७ ॥
अमुमेवार्थं भङ्ग्यन्तरेण द्रढयति यस्मिन्निति । यस्मिन्कर्मणि सर्वे धर्मादयो ऽसंनिविष्टा असंबद्धास्तन्नोपक्रमेत नारभेतैवेति शेषः । एकैकफलकानेककर्मसंभवे ऽपि यतो धर्मः स्यात्तदुपक्रमेत तदेव कुर्यान्नापरम् । कुतस्तत्राह द्वेष्य इति । अर्थपरो धर्मविरुद्धकेवलार्थपरः । कामात्मता धर्मविरुद्धकामपरता न प्रशस्ता गर्हिता राज्ञ इव ॥ २।२१।५८ ॥
यदेवमतो गुरुश्चेत्यादि । गुरुरुपनेता धनुर्वेदाद्युपदेष्टा च स यत्कार्यं व्यादिशेत्तद्धर्ममवेक्ष्य पितृवचनकरणं धर्म इति ज्ञात्वा को न कुर्यात् ॥ २।२१।५९ ॥
इमां सकलां संपूर्णां न कर्तुं न शक्नोमि । नियोगे प्रभुरिति शेषः । मातुः स्वेन
सह गमननिषेधायाह– देव्याश्चेति । भर्तृत्वात्स एवास्या गतिर्न तु पुत्रः । “सगतिः स धर्मः” इति पाठे तेन सगतिः समानगतिरेषा । सः तच्छब्दस्य बुद्धिस्थपरामर्शकत्वात्तेन सहवास एवास्या धर्मः, न तु मया सह वास इत्यर्थः ॥ २।२१।६० ॥
तदेवाह तस्मिन्निति । स्वे पथीष्टपुत्रं परित्यज्यापि सत्यं रक्षणीयमित्येवंरूपे सत्यमार्गे । अन्येत्यस्य विवरणं विधवेति ॥ २।२१।६१ ॥
मा मामित्यर्थः । पुनर्ययातिः स्वर्गमापेति शेषः ॥ २।२१।६२ ॥
केवलाराज्यकारणाद्धर्महीनराज्यहेतोः । महोदयं महाफलम् । यशः प्राप्तमपि राज्यं त्यक्त्वा पितृवाक्यपालनं कृतवानित्येवं यशः पृष्ठतः कर्तुं नालम् । जीविते मनुष्यजीवने ऽदीर्घकाले ऽल्पकालतया निश्चिते सति तदर्थमवरामवरप्रयोजनिकां महीमधर्मतः परमपुरुषार्थत्यागेन न तु वृणे इति संबन्धः ॥ २।२१।६३ ॥
पराक्रमाद्धैर्यात् । दर्शनं स्वसंमतं धर्मरहस्यामनुशास्योपदिश्य तां जननीं
प्रदक्षिणं कृत्वा हृदि चकार गन्तुं मनश्चकारेत्यर्थः ॥ २।२१।६४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकविंशः सर्गः ॥ २।२१ ॥