०२० कौसल्याविलापः

तस्मिन्निति ॥ २।२०।१ ॥

यः पित्रा ऽचोदितो ऽपि सर्वस्य जनस्यान्तःपुरस्य च कृत्येषु प्रवर्तत इति शेषः । यो गतिः प्राप्यस्य वस्तुनः प्राप्तिमार्गः शरणं रक्षणम् ॥ २।२०।२ ॥

युक्तः सेवातत्परः ॥ २।२०।३ ॥

अभिशप्तो ऽप्यन्येन कृतवाक्पारुष्यो ऽपि न क्रुध्यति । क्रोधनीयान्यन्यस्य क्रोधोत्पादकान्यनुकम्पया वर्जयन् । अनेन क्रोधक्रियाकर्तृत्वकर्मत्वयोः प्रतिपेधः । यत्र कुत्रापि क्रुद्धान्स्वयं प्रसादयन् तिष्ठतीति शेषः ॥ २।२०।४ ॥

जीवलोकं सर्वप्रजारूपं चरति भक्षयति नाशयतीति यावत् ॥ २।२०।५ ॥

पतिमाचुक्रुशुर्निनिन्दुः । सस्वनं चुक्रुशुः रुरुदुः ॥ २।२०।६ ॥

व्यालीयत देहमवगुण्ठ्यावाङ्मुखो विलीन इवाभूदित्यर्थः ॥ २।२०।७ ॥

आयस्तः स्वजनदुःखतः प्राप्तखेदः कुञ्जर इव निःश्वसन् । “आयत्तः” इति पाठे आयत्तः पराधीनो यः कुञ्जरः स यथा निःश्वसिति तद्वदित्यर्थः ॥ २।२०।८ ॥

पुरुषं द्वाराद्यक्षम् ॥ २।२०।९ ॥

जयेन विजयी भवेति शब्देनेत्यर्थः । “जयेति” इति पाठे जयेति शब्देनेत्यर्थः ॥ २।२०।१०,११ ॥

स रामस्तृणीकृतराज्यो रामः ॥ २।२०।१२ ॥

वर्धयित्वा । जयशब्देनेत्यर्थः । प्रियं रामागमनम् ॥ २।२०।१३,१४ ॥

अग्निमग्निहोत्रं मन्त्रवज्जुहोति स्म । ज्येष्ठपत्नीत्वादृत्विजेति शेषः ॥ २।२०।१५ ॥

तदाह हावयन्तीमिति ॥ २।२०।१६ ॥

हविषो हवीषि ॥ २।२०।१७ ॥

कृसरं तिलमुद्गतण्डुलौदनम् ॥ २।२०।१८ ॥

व्रतयोगेन पुत्राभ्युदयकामनया तद्वदेवोपवासव्रतयोगेनेत्यर्थः । देवतां तर्पयन्तीं वरवर्णिनीं तां ददर्शेत्यन्वयः ॥ २।२०।१९ ॥

अभिचक्रामाभिमुखं जगाम । किशोरो ऽस्वबालकः ॥ २।२०।२० ॥

उपसंगृह्याभिवाद्य स्थितस्तया परिष्वक्त इत्यन्वयः ॥ २।२०।२१,२२ ॥

कुले उचितं कुलस्योचितमिति यावत् ॥ २।२०।२३ ॥

राजानं पश्य गत्वेति शेषः । कौसल्याया राजगृहगमनादिव्यापारापरिज्ञानादेवमुक्तिः ॥ २।२०।२४ ॥

अत्रोपविश्य भुक्त्वा राजानं द्रष्टुं गच्छेति भोजनेन फलेन निमन्त्रितो राघवः केवलमासनमालभ्य स्पृष्ट्वा न तूपविष्टो व्रीडया किंचिदञ्जलिं

प्रसार्यावाङ्मुख एवाब्रवीत् । “प्रसाद्याञ्जलिः” इति पाठे प्रकर्षेण

सन्नाञ्जलिर्विशीर्णाञ्जलिरित्यर्थ इति कश्चित् । मातुः प्रसादनयोग्याञ्जलिरित्यर्थ उचितः । किंचिदित्यस्य चावाङ्गमुख इति शेषः ॥ २।२०।२५ ॥

गौरवाच्च मातृत्वप्रयुक्तगौरवाच्च आनतः सन्प्रस्थितः प्रस्थातुमुपक्रान्त

आप्रष्टुमनुज्ञां कारयितुमुपचक्रमे ॥ २।२०।२६ ॥

तव च तवैवाज्ञत्वात् । लोकदृष्ट्याह वैदेह्या इत्यादि ॥ २।२०।२७ ॥

विष्टरस्तपस्विनामासनविशेषः । “पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्धेन तु विष्टरः” इत्युक्तेः ॥ २।२०।२८ ॥

मुनिवदामिषं सूदैर्विशिष्टसंस्कारसंस्कृतं मांसम् । तेन “इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना” इति वक्ष्यमाणेन न विरोधः तस्य शुद्धमांसपरत्वात् मुनिवदित्युक्त्या श्राद्धीयादिमांसपरत्वाच्च ॥ २।२०।२९,३० ॥

वन्यानि वानप्रस्थयोग्यकर्माण्यासेवमान आचरन्, यद्वा वन्यानि वल्कलानि दधानः । वर्तयञ्जीवयन् ॥ २।२०।३१ ॥

यष्टिः शाखा ॥ २।२०।३२,३३ ॥

वाहितां पूर्वं वाहितभारां ततः श्रमनिवृत्तय उपावृत्य भुवि लुण्ठनं कृत्वोत्थितां वडवामिव ॥ २।२०।३४ ॥

असुखेन सुखनाशेनार्ता । उपासीनं समीपे स्थितम् ॥ २।२०।३५ ॥

अप्रजा वन्ध्या । अतो वन्ध्यात्वात् भूयो वन्ध्याधिकं पुत्रवियोगदुःखं न पश्येयम् ॥ २।२०।३६ ॥

वन्ध्यात्वदुःखमितः सुसहमित्याह एक एवेति । अप्रजास्मीति मानसशोकाभिनयः । समासान्ताभावो ऽनित्यत्वात् संधिर्वार्षत्वात् ॥ २।२०।३७ ॥

स्वस्य सदा दुःखित्वमिति शोचति नेति । पत्युः पौरुषमनुरागकृतं रञ्जनं तस्मिन्यत्प्राप्यं

कल्याणं प्रशस्तवस्त्राभरणादिजसौभाग्याधिक्यं सुखं वा पतिसंभोगजम् तन्मया न दृष्टपूर्वम् । अपीति लोकोक्तौ । पुत्रे जाते तदुभयमुक्तकल्याणं पुत्रदर्शनजं सुखं च पश्येयमित्याशया राम मया स्थितं जीवनं स्थापितम् ॥ २।२०।३८ ॥

साहमवराणां कनिष्ठानां सपत्नीनां त्वद्बलादिदानीं परा सती हृदयच्छिदां हृदयविदारिकाणां तासाममनोज्ञानि वाक्यान्येवं जीर्णापि श्रोष्ये ॥ २।२०।३९ ॥

अतः सपत्नीधिक्कारवाक्यश्रवणजात्परं दुःखं स्त्रीणां नास्ति । ममायमनन्तको ऽपारः शोको यादृशस्तादृशो वाचापि वक्तुमशक्य इति शेषः ॥ २।२०।४० ॥

निराकृता सपत्न्येति शेषः । ध्रुवम् प्राप्तमिति शेषः । शोकग्रस्तत्वान्न्यूनपदता न दोषः ॥ २।२०।४१ ॥

निगृहीता भर्तृकृतनिग्रहप्रकारमाह– परिवारेणेति । कैकेय्या दासीजनेन समा

अथवावरा ततो ऽपि निकृष्टा कृतास्मीति शेषः । “प्यधरा वरा” इति पाठे वरा श्रेष्ठाप्यधरा निकृष्टा कृतास्मीत्यर्थः ॥ २।२०।४२ ॥

स सर्वो ऽपीष्टो जनः कदाचिदागतं कैकेय्याः पुत्रमवलोक्य मां नाभिभाषते ।

इदानीमप्येवमवस्था मम वर्तते, त्वयि गते तु किं वक्तव्यमिति भावः ॥ २।२०।४३ ॥

खरवादिनम् । लुगभाव आर्षः । खरवादि परुषवदनशीलं तस्या वदनं कथं द्रष्टुं शक्ष्यामि । दुर्गता त्वद्वियोगेन दुर्दशामापन्ना ॥ २।२०।४४ ॥

जातस्य उपनयनाख्यद्वितीयजन्मनेति शेषः । “ऊनषोडशवर्षो मे रामो राजीवलोचनः” इति विश्वामित्रमुद्दिश्य दशरथोक्त्या विवाहकाले पञ्चदशवर्षत्वोक्तेः, “तत्र द्वादशवर्षाणि राघवः सह सीतया । रमयामास धर्मात्मा नारायण इव श्रिया ॥ तस्मिन्काले महाराजः प्रीतो रामस्य सद्गुणैः । ज्येष्ठं राज्येन संयोक्तुमैच्छत्सर्वनृपाज्ञया ॥ इति पाद्मोक्तेश्च । उपनयनं च गर्भैकादशे । “एकादशे वा राजन्यम्” इति स्मृतेर्दशमे वर्षे इति बोध्यम् । एवमुपनयनोत्तरं सप्तदश वर्षाण्यतीतानि जातस्य तव । अतः परं यौवराज्येन दुःखपरिक्षयं प्रकाङ्क्षन्त्या मया तद्विघाते तस्या वदनं कथं नु द्रष्ट्व्यमित्यनुकर्षः । वस्तुतस्तु “इग्यणः संप्रसारणम्” इति सूत्रस्थभाष्योक्तरीत्या “प्रविश पिण्डीम्” इत्यादौ यथा “प्रविश गृहं पिण्डीं भक्षय” इति वाक्यार्थे प्रविशेति पिण्डीमिति च वाक्यैकदेशस्य प्रयोगः, तथा विदेशेतिवाक्यस्यार्थे वाक्यैकदेशप्रयोगो ऽयम् । द्विरावृत्ता दश विंशतिः सप्त चेत्यर्थः । अत्र तात्पर्यग्राहिका विश्वासिनं प्रति दशरथोक्तिः पाद्मोक्तिश्च तादृशप्रयोगश्च कौसल्याया पुत्रवियोगदुःखार्ततया वाल्मीकेश्च वर्णनीयमयीभावेन न दोषायेति ध्येयम् ॥ २।२०।४५ ॥

दुःखं त्वद्वियोगजम् । अक्षयं तव राज्यनाशात्क्षयसंभावनारहितमपि । अपि च एवं जीर्णा सपत्नीनां विप्रकारं सहितुं सोढुं नोत्सहे ॥ २।२०।४६ ॥

कृपणजीविका शोच्यजीवना ॥ २।२०।४७ ॥

दुर्गतया भाग्यहीनया मया बहुपरिश्रमजनकैरुपवासैर्योगैर्देवताध्यानैर्दुःखं यथा तथा मोघं वर्धितो ऽसि यदि विप्रवत्स्यसीति शेषः । त्वद्वर्धनजफलालाभादिति भावः ॥ २।२०।४८ ॥

न दीर्यते त्वद्विप्रयोगश्रवणे ऽपीति शेषः ॥ २।२०।४९ ॥

ममैवेति । लौकिक्यतिवृद्धोक्तिजातिरियम् । मरणं न विद्यत एव न जिहीर्षत्येवेत्यन्वयः । अवकाशो ऽवस्थितये स्थलम् ॥ २।२०।५० ॥

आयसमयसा निर्मितम् । यद्यतो न भिद्यते भुवि पतित्वा नो विदीर्यते । भेदो दुःखेनार्पितं व्याप्तं देहं देहो न भिद्यत इत्याद्यन्वयः । अर्धर्चादिर्देहशब्दः हि यतो न

भिद्यते ऽतो ऽकाले मरणं न विद्यत इति जाने इति शेषः ॥ २।२०।५१ ॥

यद्व्रतादीन्यनर्थकानि तदिदं महद्दुःखम् । ऊषरे उप्तमत एव निष्फलं बीजमिव ॥ २।२०।५२ ॥

गुरुदुःखेन कर्शितः पीडितः । परेतसंसदं यमसभाम् अहं गता स्याम् । तत्तु न

लभ्यत इति शेषः ॥ २।२०।५३ ॥

अथापि मरणाभावे ऽपि त्वया विना त्वत्संनिधिं विना किंजीवितं कुत्सितं जीवितं वृथा व्यर्थमतो ऽनुव्रजिष्यामि अभिकाङ्क्षया वात्सल्येन ॥ २।२०।५४ ॥

भृशमसुखं दुःखममर्षितासहमाना रामवियोगमूलं सपत्न्यादिकृतं महद्व्यसनं दुःखं निशाम्य पर्यालोच्य सत्यपाशबद्धं सुतमवेक्ष्य यथोक्तनिमित्तवती किंनरी विललाप ॥ २।२०।५५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामयणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे विंशः सर्गः ॥ २।२० ॥