०११ कैकेय्याः वरयाचना

तमिति ॥ २।११।१ ॥

विप्रकृता प्रियया पराभूता । अवमानः शब्देन तिरस्कारः । मे ममाभिप्रायो ऽभिप्रार्थनीयो ऽस्ति त्वदेकसंपाद्यस्तं त्वया कृतं संपादितमिच्छामि ॥ २।११।२ ॥

यदि त्वं कर्तुमिच्छसि मदभिप्रेतं तदा तद्विषयावश्यकर्तव्यतारूपां प्रतिज्ञां प्रतिजानीष्व कुरु । अथानन्तरं मयाभिप्रेतं स्वप्रार्थितं यथा यत्प्रकारवत्तथा वक्ष्यामीत्यर्थः ॥ २।११।३ ॥

आज्ञाकारिणि मयि शपथाकाङ्क्षा वृथेत्युत्स्मयः । मूर्धजेषु संगृह्य शिरो ऽङ्के कृत्वेति यावत् ॥ २।११।४ ॥

स्त्रीणां मध्ये त्वत्तः पुंसां मध्ये रामादन्य इति योज्यम्, यद्वा रामादन्यस्त्वत्तो ऽधिकः प्रियतरो नेत्यर्थः । रामे ऽस्या द्वेषमजानत एवमुक्तिः राम एव त्वत्तो ऽधिकः प्रिय इत्याशयः ॥ २।११।५ ॥

तदाह तेनेति । त्वत्तो ऽपि प्रियतरेणेत्यर्थः । अत एव मुख्येन अजय्येनारीणामशक्यजयेन जीवनार्हेण मज्जीवनसाधनीभूतेन अनेन परमप्रियत्वं दर्शयति शपे शपथेन त्वदभिप्रेतकर्तव्यताविषयं स्वाभिप्रायं ज्ञापये ते तुभ्याम् ॥ २।११।६ ॥

भाव्यर्थं सूचयन्परमप्रियत्वमेव दर्शयति यमिति । अनेन तद्विषयकदुष्टप्रार्थना न कार्येति सूचयति । वचनक्रियां त्वद्वचनकरणं प्रति ॥ २।११।७ ॥

आत्मना स्वेनान्यैरात्मजैः पुत्रैरपि यं वृणे ऽसमं जाने सर्वतो ऽधिकं प्रियं जाने इति यावत् ॥ २।११।८ ॥

“यन्मनसा ध्यायति तद्वाचा वदति” इत्युक्तेर्वागिव हृदयमपि त्वद्वचनानुष्ठानप्रवणमनुमृश्य विचार्य स्वाभीष्टकथनेन मामस्माद्दुःखादुद्धर । एतद्रामस्य प्रियतमत्वं समीक्ष्य यत्साधु मन्यसे तद्ब्रूहि त्वमेव युक्तं विचार्य वद मम तु त्वद्वचनमात्रं कर्तव्यमेवेत्याशयः ॥ २।११।९ ॥

अत्र शङ्का न कार्येत्याह बलमिति । बलं मत्प्रेमरूपं तथा त्वयि मे प्रेमास्ति येन त्वदुक्तं न कुर्यामित्यसंभावितम् सर्वथा तव प्रीतिं प्रीतिविषयं करिष्यामि यद्यन्यथेदं तदा मे धर्मो न फलदो भवेदिति भावः ॥ २।११।१० ॥

तदर्थमनास्तस्मिन्निजाभिमते ऽर्थे मनो यस्याः सा तदभिप्रायं स्वाभिमतार्थसंपादनाभिप्रायमागतं प्राप्तविषयं ज्ञात्वा

निर्माध्यस्थ्यान्माध्यस्थ्याभावमवलम्ब्य ल्यब्लोपे ऽव्ययीभावात्पञ्चमी स्वपुत्रक्षपातेनेति यावत् । हर्षाद्राज्ञः स्ववशत्वदर्शनजात् । दुर्वचं शत्रुभिरपि वक्तुमशक्यम् ॥ २।११।११ ॥

तेन वाक्येन त्रिवाचा रामशपथपूर्वकस्ववचनक्रियावाक्येन । अभ्यागतमन्तकमिव घोरं राज्ञः प्राणहरं तमात्मनो ऽभिप्रायं व्याजहार व्याहर्तुं निश्चितवती ॥ २।११।१२ ॥

राजप्रतिज्ञाया दुष्करार्थविषयत्वेन वैपरीत्यमाशङ्य तां प्रतिज्ञामशेषसाक्षीकरणेन स्थिरयति यथाक्रमेणेति । अतिप्रियपुत्रसुकृतादिक्रमेण शपसि शपथं करोषि तत्पूर्वकं वरं च मम ददासि दातुं निश्चितवानसि तत्तव वाक्यम् ॥ २।११।१३ ॥

जगत्परोक्षस्वर्गादिभुवनदेवता । पृथिवी प्रत्यक्षभुवनदेवता ॥ २।११।१४,१५ ॥

सर्वे दैवता देवाः “दैवतानि वा पुंसि” इति कोशः ॥ २।११।१६ ॥

परिगृह्य परिवर्तनान्निवर्त्य अभिशस्य सत्यसंध इत्यादिना स्वकार्यस्थैर्याय स्तुत्वा च ॥ २।११।१७ ॥

तद्वाक्यमाह स्मरेत्यादि । तत्र रात्रियुद्धे शत्रुः शम्बरस्तव जीवितमन्तरा प्राणं विना त्वां च्यावयत्प्रच्युतवीर्यमकरोत् । अडभाव आर्षः ॥ २।११।१८ ॥

जाग्रत्या मया मद्यतस्त्वं समभिरक्षितस्ततः स्वजीवनाय यतमानाया मम भवान्वरौ प्रददौ ॥ २।११।१९ ॥

तौ वरौ तवैव सकाशे निक्षेपभूतौ त्वय्येव स्थापिताविदानीं त्वया दत्तौ स्वीकर्तुं मृगयाम्यन्वेषयामि ॥ २।११।२० ॥

धर्मेण प्रतिश्रुत्य धर्मशपथपूर्वकं दानप्रतिज्ञां कृत्वा ॥ २।११।२१ ॥

कैकेय्या स्वसौन्दर्यनिमित्तकाममोहेन स्ववशे कृतो राजा वाङ्मात्रेण

पूर्वकालिकवरदानप्रतिवचनमात्रेण स्वविनाशाय मृग इव तत्प्रतिवचनदानरूपं पाशं प्रचस्कन्द प्रगतवान् । प्रकृत्यादित्वात्प्रातिपदिकार्थे ऽपि तृतीया वाङ्मात्रेणेति ॥ २।११।२२,२३ ॥

वक्ष्यामि मम दातव्यौ वराविमाविति विभज्य वक्ष्यामि । तद्वच आह अभिषेकेति ॥ २।११।२४ ॥

यः कल्पितो ऽनेनेति योजना ॥ २।११।२५२७ ॥

दत्तमेव वृणे न त्वपूर्वम् न द्युत्तमर्णेनाधमर्णात्स्वार्थग्रहणे तस्य पीडा भवतीति न कश्चिद्दोषः । अद्य चैवेत्यनेन कालविलम्बो निराकृतः ॥ २।११।२८ ॥

सत्यसङ्गरः सत्यवचाः संपूर्वाद्गिरतेः कथनार्थात्कर्मण्यप् । तेनैव हेतुना कुलादिकं रक्ष जन्मात्र भावि । तदेवाह परत्रेति ॥ २।११।२९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकादशः सर्गः ॥ २।११ ॥