०१० दशरथकृतप्रसादनम्

अथोक्तानुवादपूर्वं राज्ञः कैकेयीदर्शनाद्याह विदर्शिता विपरीतं बोधिता । दिग्धविद्धेव विषदिग्धबाणविद्धेव किंनरी कामरूपप्रधानो जातिविशेषः ॥ २।१०।१ ॥

मन्थरोपदिष्टं निश्चित्य युक्तमेतदिति निर्धार्य यत्त्वयोक्तं तत्सर्वं सम्यगिति मन्थरायै आविष्टदुःखत्वाच्छनैराचचक्षे ॥ २।१०।२ ॥

तदेव प्रपञ्चयति सा दीनेत्यादि ॥ २।१०।३ ॥

मार्गं मन्थरोक्तमात्मसुखावहमिति चिन्तयामास सा मन्थरा सुहृत्कैकेय्याः तस्या एवार्थकामा च कैकेय्यास्तं निश्चयं निशम्य ज्ञात्वा ॥ २।१०।४ ॥

सिद्धिं रसरसायनादिसिद्धिम् । “निधिम्” इति पाठे धनं प्राप्येव परमप्रीता बभूव वस्तु यद्देवकार्यार्थं स्वयं भूलोकमागता दासी च जाता तद्विषयां सिद्धिं प्राप्येवेत्यर्थः ।

रामागमनस्य संभावनामात्रविषयत्वादिवेति ॥ २।१०।५ ॥

मुखे भ्रुकुटिनिवेशः क्रोधातिशयेन ॥ २।१०।६ ॥

यानि कैकेय्यापविद्धान्युत्सृष्टानि तानि भूमिमित्यन्वयः । यान्यपविद्धानि तानीत्यन्वयः ॥ २।१०।७,८ ॥

एकवेणीं पुरोभागीयवेणीद्वयमुन्मुच्य पृष्ठैकवेणीम् । गतसत्त्वा क्षीणबला । कैकेयीवृत्तान्तं प्रदोषकालिकमुपवर्ण्य राजवृत्तान्तमाह आज्ञाप्येति ॥ २।१०।९ ॥

उपस्थानं कृताज्ञापनाविषयस्य मन्त्रिपुरोहितादेः स्वस्वगृहं प्रति गमनमनुज्ञाप्य स्वनिवेशनं प्रविवेश, यद्वोपस्थानं सदः सभा तामनुज्ञाप्य स्वगृहगमने तदनुज्ञां गृहीत्वा अद्यैव रामाभिषेकः प्रसिद्धो निश्चित इति इतः पूर्वं कैकेय्या न श्रुतिगोचर इति जज्ञिवाञ्ज्ञातवान् ॥ २।१०।१० ॥

अतस्तत्प्रियमाख्यातुं तामन्तःपुरं प्रविवेश । वशी स्वस्त्रीव्यतिरिक्तविषये इति बोध्यम् ॥ २।१०।११ ॥

अत्र गृहस्य रुष्टकैकेयीयुक्ततया सुधाधवलतया च राहुयुक्तपाण्डुराभ्राकाशसादृश्यम् । रुतायुतं रुतयुक्तम् ॥ २।१०।१२ ॥

हस्वा वामनिकाः । कुब्जाभिर्वामनिकाभिश्च ताभिर्युतम् । सुरूपदासीनां सापत्न्यसंभावनयान्तःपुरे ऽवासात् । चित्रगृहैश्चित्रयुक्तगृहैः ॥ २।१०।१३ ॥

गजदन्तरजतस्वर्णनिर्मितवेदिकाभिः । वृक्षाणां नित्यपुष्पफलत्वं च देवराजसाहाय्यकरणेन तत्प्रसादात् ॥ २।१०।१४१६ ॥

कामबलसंयुक्तः कामबलं तदुद्रेकस्तत्संयुक्तः अत एव रत्यर्थी ॥ २।१०।१७ ॥

अपश्यन्रत्यर्थमन्विष्यापश्यन् । विषादहेतुमाह नहीति । तां वेलां कामवशात्स्वशयनागमवेलां नात्यवर्तत नातिक्रान्तवती अद्य च तामतिक्रान्तेति विषादः ॥ २।१०।१८ ॥

शून्यं कैकेयीरहितम् ॥ २।१०।१९ ॥

अपण्डितां कार्याकार्यविवेकरहितां स्वार्थलिप्सुं भरताभिषेकेच्छावतीमविज्ञाय यथापुरं यथापूर्वं पूर्वमदर्शनकाले यथापृच्छत तथापृच्छतेत्यन्वयः । प्रतिहारी दौवारिकी ॥ २।१०।२० ॥

अभिद्रुता । इत्युवाचेति संबन्धः ॥ २।१०।२१ ॥

अदर्शनमात्रेण विषण्णस्य क्रोधादिश्रवणाद्भूयो ऽधिको विषादः, इष्टादर्शनजविषादेन चक्षुरादेर्ल्ललितत्वमतिचञ्चलत्वम्, चित्तस्य किंनिमित्तः क्रोध इति शङ्कया व्याकुलत्वम् । तत्र क्रोधागारे अतथोचितां तथाशयनानुचिताम् ॥ २।१०।२२ ॥

इवशब्द एवार्थे ॥ २।१०।२३ ॥

पापसङ्कल्पां रामाभिषेकविधातादिमनोरथाम् । विनिष्कृतां छिन्नाम् ॥ २।१०।२४ ॥

निर्धूतां पुण्यक्षये स्वलोकात्पतितां च्युतां स्वर्गात् परिभ्रष्टां परमोहनाय प्रयुक्तां मध्य एव स्थितां मायामिव स्थितां संयतां वागुराबद्धाम् ॥ २।१०।२५ ॥

मृगयुना व्याधेन दिग्धेन विषलिप्तेन बाणेन विद्धां करेणुमिव स्थितां ददर्शेति पुर्वेणान्वयः । अरण्ये महागजः पूर्वोक्तां करेणुमिव स्थिताम् ॥ २।१०।२६ ॥

पाणिभ्यां परिमृज्य पृष्ट्वा किं वक्ष्यति किं करिष्यतीति शङ्कया त्रस्तबुद्धिरुवाच ॥ २।१०।२७ ॥

आत्मनि मयि संश्रितं ते क्रोधं क्रोधकारणं नाभिजानामि । अभियुक्ता कृतपराभवा । विमानो निन्दा ॥ २।१०।२८ ॥

यद्यत इदमेवंप्रकारेण कल्याणि मम दुःखाय पांसुषु शेषे । किं च कल्याणचेतसि अनपकारिणि मयि जीवति सति किमर्थं भूमौ शेषे ॥ २।१०।२९ ॥

भूतोपहतचित्तेव ग्रहाविष्टेव । कुशलाः सर्वव्याधिनिवारणकुशलाः अभितुष्टाः मत्कृतसत्कारैरिति शेषः ॥ २।१०।३० ॥

व्याधिमाचक्ष्व व्याधिकृतं चेच्छयनमिति शेषः । प्रियं कार्यं कर्तव्यमिति मनसि वर्तते इति शेषः । विप्रियं कृतं तव कस्याप्रियं कर्तव्यत्वेन तव मनसि वर्तत इति भावः ॥ २।१०।३१ ॥

पक्षद्वयनिमित्तो ऽपि क्रोधो मास्त्वित्याह कः प्रियमिति । त्वत्प्रियः दरिद्र इति शेषः । अप्रियं लभताम्, त्वद्विप्रियकारीति शेषः । मा रौत्सीः आत्मनो ऽभिप्रायं रुद्धं गुप्तं मा कार्षीरित्यर्थः । संपरिशोषणम् कायस्येति शेषः ॥ २।१०।३२ ॥

तदेव प्रपञ्चयति अवध्य इत्यादि ॥ २।१०।३३ ॥

आत्मनो जीवितेन हेतुनापि ते कंचिदभिप्रायं तद्विषयं व्याहन्तुं नोत्सहे अतो मनसि यत्स्थितं यद्विषयेच्छास्ति तद्ब्रूहि । आत्मनि स्वस्मिन्बलं मत्प्रेमरूपं जानन्त्ययं मदुक्तं करिष्यति न वेति मां शङ्कितुं नार्हसि ॥ २।१०।३४,३५ ॥

सुकृतेनापि स्वपुण्येनापि ते तव शपे शपथं ददामि । यदि त्वदुक्तं न कुर्यां तर्हि सर्वं सुकृतं मे वृथेति शपथं ददामीत्यर्थः । अथात्मनि दुष्करसंपादनसामर्थ्यं दर्शयति यावदिति । चक्रं सूर्यमण्डलमावर्तते प्रकाशयति तावती सर्वापि वसुन्धरा मे मदधीना ॥ २।१०।३६ ॥

द्राविडसिन्ध्वादयो देशाः सर्वे मदधीना एव ॥ २।१०।३७ ॥

अतः तत्रेत्यादि । तत्र जातं द्रव्यमपि मदधीनमेव । रश्मिवान्सूर्यः ॥ २।१०।३८,३९ ॥

भूयः परिपीडयितुं निजभूशयनादिना पूर्वं पीडितमेवाप्रियवचनादिना पुनः

पीडयितुमित्यर्थः ॥ २।१०।४० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे दशमः सर्गः ॥ २।१० ॥