००९ कैकेय्याः क्रोधागारप्रवेशः

एवं त्रिवारोपदेशेन दुष्टे ऽसत्य एवार्थे उपादेयत्वसत्यत्वनिश्चयात्स्वकार्याय देवैश्च क्षुभितचित्तायास्तदुपायप्रभमाह एवमिति ॥ २।९।१ ॥

प्रस्थापयामि प्रस्थापनोद्यमं करोमि । एवमभिषेचये इत्यपि ॥ २।९।२ ॥

अथ तदुपायं पृच्छति इदं त्विति । उत्तरार्धार्थं केनोपायेन साधये इदमिदानीं संपश्य विचारय उत्साहमात्रेण नेदं साध्यमिति भावः ॥ २।९।३ ॥

रामार्थं लोकदृष्ट्या रामहितमभिषेकरूपमर्थम् ॥ २।९।४ ॥

त्वं प्रपश्य मत्सामर्थ्यमिति शेषः । “प्रवक्ष्यामि” इति पाठान्तरम् । श्रूयताम् मद्वच इति शेषः । चस्त्वर्थे । केवलं भरतो न तु राम इत्यर्थः । यद्वाहं वक्ष्याम्येवोपायं त्वमपि प्रपश्य विचारय ॥ २।९।५ ॥

ननु मम न प्रतिभाति तदुपाय इति तत्राह किं नेति । स्मृत्वा वा संमतये मन्मुखाच्छ्रवणाय निगूहसे । यद्यत आत्मार्थमात्मप्रयोजनोपायमुच्यमानम् । वर्तमानसामीप्ये लट् । त्वयानेकश उक्तमपि मत्तः श्रोतुमिच्छसि ॥ २।९।६ ॥

छन्द इच्छा । विधीयतां क्रियताम् । विमृश्योक्तं चेत्क्रियताम् ॥ २।९।७ ॥

श्रवणे ऽनुष्ठाने चोत्साहं दर्शयति उत्थायेत्यादि ॥ २।९।८१० ॥

देवासुरे देवासुरसंबन्धिनि उपादाय गृहीत्वा । साह्यं सहायत्वम् ॥ २।९।११ ॥

दक्षिणां दिशमास्थाय स्थितान्दण्डकाञ्जनपदान्प्रति तत्संबन्दि वैजयन्तमिति पुरं ख्यातं यत्र तिमिध्वजो नाम राजाभवत् ॥ २।९।१२ ॥

स एव लोके शम्बर इति ख्यातः । देवसंघैः सहितस्य शक्रस्य ॥ २।९।१३ ॥

क्षतैरस्त्रशस्त्रवेधैर्विक्षतान्विशेषेण विद्धान् रात्रौ प्रसुप्तान्दिनकृतयुद्धश्रान्त्या । अपास्यास्तरणादाकृष्य ॥ २।९।१४ ॥

तत्र तद्रात्र्यां शकलीकृतः सर्वाङ्गेषु विक्षतः ॥ २।९।१५ ॥

त्वया सारथ्यं कुर्वाणयापवाह्य संग्रामादन्यत्र नीत्वा तत्रापि तादृशापत्काले ऽपि शस्त्रैर्विक्षतो ऽत एव नष्टचेतनो मूर्च्छितस्ते पतिस्त्वया रक्षित इत्यन्वयः । केचित्तु संग्रामादपवाह्य मूर्च्छितस्ते पतिस्त्वया रक्षितः, तत्रापि दूरपातिभिरसुरीयैः शस्त्रैर्विक्षतस्ततो ऽप्यन्यत्रापावह्य रक्षितः एवं द्विःप्राणरक्षणतोषेण वरद्वयदानमित्याहुः ॥ २।९।१६ ॥

तेन राज्ञा । यद्यदेच्छेयं भर्तस्तदा वरं गृह्णीयां तु इत्यन्वयः ॥ २।९।१७ ॥

तदा महात्मना राज्ञा तथेत्युक्तम् । अनभिज्ञा अस्याः कथाया इति शेषः ॥ २।९।१८ ॥

निगृह्य भर्तारं वरबलेन निगृह्याभिषेकसंभारान्निवर्तय अभिषेकरूपफलादिति शेषः ॥ २।९।१९ ॥

निवृत्तिप्रकारमाह ताविति । तेन च दाने ऽनुमते ताभ्यां क्रमेण भरताभिषेचनरामप्रव्राजने वृण्विति शेषः ॥ २।९।२० ॥

चतुर्दशसंख्याफलमाह चतुर्दशेति । प्रजानां भावे ऽन्तःकरणे गतः प्राप्तः स्नेहो यस्य तादृशस्ते पुत्र स्थिरो राज्ये भविष्यति ॥ २।९।२१ ॥

वरदानप्रवर्तनोपायमाह क्रोधागारमिति । क्रोधवतीनां शयनस्थानं क्रोधागारम् । क्रुद्धेव इवशब्द एवार्थे । क्रुद्धैव सत्युक्तं क्रोधहेतुं शतशो ऽन्यथा तत्सान्त्वने ऽप्यविस्मरन्ती । तदेव विवृणोति शेष्वेति । अनास्तृतायां भूमौ शेष्वेत्यर्थः । मलिनवासिनी मलिनवस्त्रधरा सती ॥ २।९।२२ ॥

रुदन्तीत्यस्य भवेति शेषः । तं दुष्ट्वेति पूर्वार्धान्वयि ॥ २।९।२३ ॥

एवं सति सर्वथा कार्यसिद्धिर्भवत्येवेत्याह दयितेति । त्वत्कृते त्वत्प्रीणननिमित्तम् ॥ २।९।२४,२५ ॥

ननूक्तमपि वाक्यं राजा चेन्न शृणुयात्तदा महती हानिः स्यात्तत्राह नहीति । स्वसौभाग्यवैभवविस्मरणमूलिका ते एषा मदाशङ्केति भावः ॥ २।९।२६ ॥

वरदानातिरिक्तमनुनयं मा स्वीकुर्वित्याह मणीत्यादि ॥ २।९।२७ ॥

सर्वानुनयानङ्गीकारे तर्हि दासेन मया किं कर्तव्यमिति राजप्रभ उत्तरमुपदिशति याविति । सो ऽर्थो रामविवासनभरताभिषेकरूपो ऽर्थः । त्वा त्वामित्यर्थः । “मात्वा” इति पाठे मातिक्रमेत् तमर्थं मा विस्मरेत्यर्थः । “नातिक्रामेदति” इति पाठे सर्वथा सिद्ध्यत्येव राज्ञः सत्यप्रतिज्ञत्वादित्याशय इति कतकः ॥ २।९।२८ ॥

राघवो दशरथः उत्थाप्य त्वामिति शेषः । ते तुभ्यम् । तदा त्वं महाराजं व्यवस्थाप्य शपथैः सत्ये स्थापयित्वा ॥ २।९।२९ ॥

वरमभिनयति– रामेति ॥ २।९।३० ॥

सर्वथा प्रव्राजनस्यातिघोरतया लोकविरुद्धत्वं मत्वाह चतुर्दशेति । यथा चतुर्दशवर्षं पालितः प्ररूढशाखः कृतमूलो दृढमूलो वृक्षो दुरुन्मूलो भवति, एवं भरतस्तावता कालेन रूढो दुढराज्यः कृतमूलो वशीकृतमूलबलश्चतुर्दशोत्तरशेषायुःकालं स्थास्यत्येव न तु पुनरागतेनापि रामेण शक्योन्मूलनो भविष्यति । न च रामस्य राज्यप्रत्याशेति तात्पर्यम् ॥ २।९।३१ ॥

तं राजानम् ॥ २।९।३२ ॥

रामः अराम इति च्छेदः । अप्रियः प्रजानां भविष्यतीत्यर्थः ॥ २।९।३३ ॥

अन्तर्बहिश्च प्रकृतीनामिति शेषः । चिरसंयोगाद्भरते स्नेहानां वृद्धिश्चिरविप्रयोगतश्च रामे स्नेहनाश इति भावः ॥ २।९।३४ ॥

कृतमूलत्वमेव विवृणोति सङ्गृहीतेति । सम्यक्पालनेनानुरञ्जितमनुष्य इत्यर्थः । सुहृद्भिः साकं कृतमूलो भविष्यतीति पूर्वेणान्वयः । अभिषेकतो निवर्तनं प्राप्तकालं मन्य इत्यर्थः । अभिषेकनिवर्तनस्यायमेव काल इति भावः । तस्माद्राजानं तदभिषेकान्निवर्तयेत्यन्वयः ॥ २।९।३५,३६ ॥

प्रतीताङ्गीकृततदर्था कैकेयी केकयराजकन्या किशोरी बालवत्सा वडवा सा यथा स्वकिशोरार्थं उत्पथं गच्छसि कशाहस्तेनारूढापि तथेयं राजाधीनापि भरतार्थं उन्मार्गं गतेत्यर्थः ॥ २।९।३७ ॥

परं विस्मयं प्राप्ता परमदर्शनात्यन्तविशेषदर्शनवती, यद्वा परमत्यर्थमदर्शनाविरुद्धदर्शना मन्थरामिदमब्रवीदित्यन्वयः । अत्र कैकेयी तन्नामिका । हे श्रेष्ठाभिधायिनि हितोपदेशकुशले इति यावत् । अत एव ते प्रज्ञां नावजानामीत्यर्थः । “कुब्जे त्वां नाभिजानामि” इति पाठे श्रेष्ठाभिधायिनीत्वादिविशिष्टां नाज्ञासिषमित्यर्थः ॥ २।९।३८ ॥

कुब्जानां कुब्जत्वविशिष्टराजदासीनां मध्ये बुद्धिनिश्चये बुद्धिविषयकार्याकार्यनिश्चय उत्तमा ईदृश्य एव दास्यो राजपत्नीनामिष्टाः सुरूपासु सापत्न्यस्फूर्तेः । श्रेष्ठत्वमभिधाय श्रेष्ठाभिधायिनीत्वमुपपादयति– त्वमेवेति ।

हितैषिणीच्छापूर्वं हितवक्री ॥ २।९।३९ ॥

समवबुद्ध्येयम् त्वत्कृतबोधनाभावे इति शेषः । चिकीर्षितं रामाभिषेकाय भरतस्य विवासनादि कैकेय्या एवं मतिकारणं क्कचित्पठ्यते " न हि तद्बुबुधे पापं शापदोषेण मोहिता । केकयेषु हि सा बाल्ये ब्राह्मणं रूक्षरूपिणम् ॥ असूयितवती बाला तेन शप्ता महात्मना । यस्मादसूयसे विप्रं त्वं रूपमददर्पिता ॥ तस्मादसूयां त्वमपि लोके प्राप्स्यसि कुत्सिताम् । इति शापसमाच्छन्ना मन्थरावशमागता ॥ इति । असूयामसूयाविषयताम् । अथ कुब्जां कुब्जान्तरवैलक्षण्येन स्तौति– सन्तीत्यादि । त्वद्व्यतिरिक्ता इति शेषः । दुःसंस्थिता दुःसंस्थावयवसंनिवेशाः अत एव परमपापिका परमपापदर्शनाः ॥ २।९।४० ॥

नैवं त्वमित्याह– त्वमिति । वातेन संनतं पद्ममिव त्वं संनतापि प्रियदर्शना ते उरो वक्षो ऽभिनिविष्टं स्थगुना व्याप्तमत एव यावत्स्कन्धात्स्कन्धपर्यन्तमुन्नतमुरः । “यावत्संस्थानमुन्नतम्” इति पाठे स्तनावधि समस्थानरूपसर्वसाधारणसंस्थानं यावत्समुन्नतम् । एतेन स्थगुमत्कुब्जत्वं प्रतिपादितम् ॥ २।९।४१ ॥

अधस्ताद्वक्षसो ऽधस्ताच्छोभननाभिमदुदरं लज्जितमिव शान्तम्, उरस उन्नितं दृष्ट्वा लज्जितमिव कृशमित्यर्थः । प्रतिपूर्णं विस्तीर्णम् ॥ २।९।४२ ॥

हर्षातिशयाद्वर्णितमपि जघनं पुनर्वर्णयति– जघनमिति । निर्मृष्टं रोमादिकश्मलहीनम् । “निर्घुष्टम्” इति पाठे रशनास्थक्षुद्रघण्टाभिः शब्दायमानम् ॥ २।९।४३ ॥

उपन्यस्ते जान्वोरिति शेषः । यद्वा लोकैः स्तुते सुन्दरत्वेन । सक्थिनी पृष्ठफलके इति कतकः ॥ २।९।४४ ॥

“राजहंसीव राजसे” इति क्वचित्पाठः । स्थगुं स्तोतुमुत्प्रेक्षते आसन्निति ॥ २।९।४५ ॥

यास्तास्तव हृदये निविष्टा मायास्तदेवेदं यद्दीर्घं स्थग्वित्यन्वयः । रथघोणं रथचक्रपिण्डिका तद्वदायतं विस्तीर्णम् ॥ २।९।४६ ॥

अतो ऽत्र मत्यादिकं वसति यत एवमतो ऽत्र मालां प्रमोक्ष्यामि । मतयो मतिस्मृतिबुद्धयः “स्मृतिर्व्यतीतविषया मतिरागामिगोचरा । बुद्धिस्तात्कालिकी ज्ञेया” इति क्षत्रविद्या राजनीतिः मायाः प्रसिद्धाः अत्र स्थगुनि हृदिस्थविकृतोन्नतमांसास्थिपिण्डे ॥ २।९।४७ ॥

जात्येनोत्तमेन सुनिष्टप्तेन संद्रुतेन सुवर्णेन निर्मितां हिरण्मयीं मालामिति संबन्धः ॥ २।९।४८ ॥

लब्धार्था लब्धोक्तार्था अत एव प्रतीता संतुष्टा लेपयिष्यामि उत्तमचन्दनेनेति शेषः । यद्वा जात्याद्भुतस्वस्वर्णकृतभूषणेन ते स्थगु लेपयिष्यामि गुप्तं करिष्यामीत्यर्थः ॥ २।९।४९।५० ॥

आह्वयमानेन स्पर्धमानेन द्विषज्जने गर्वयन्ती गर्वं कुर्वन्ती मुख्यां गतिं श्रैष्ठ्यम् ॥ २।९।५१५३ ॥

एवं वृथावार्ताभिः कालात्ययो न कार्यं इत्याह गतेत्यादि । रामाभिषेके वृत्ते वरग्रहणादि व्यर्थमिति भावः । राजानमनुदर्शय क्रोधागारे आत्मानमिति शेषः ॥ २।९।५४,५५ ॥

अनेकशतसाहस्रं तावत्स्वर्णमूल्यम् वरार्हाणि बहुमूल्यानि ॥ २।९।५६ ॥

हेमोपमा स्वर्णवर्णा कैकेयी ॥ २।९।५७ ॥

इह क्रोधागारे । मदभीष्टासिद्धौ मदुपेक्षकाय राज्ञे दशरथाय मां मृतामावेदयिष्यसि । तुर्वार्थे । राघवे वनं प्राप्ते भरतः क्षितिं प्राप्स्यते वा न तु पक्षान्तरमस्तीति भावः ॥ २।९।५८,५९ ॥

महापराक्रमैरतिक्रूरैः । भरतस्येत्यावृत्त्या ऽहितान्वय्यपि । राममुपेत्य तं प्राप्य । अहितम् रामविषये लोकदृष्ट्या ऽहितमिति यावत् ॥ २।९।६०,६१ ॥

कुब्जया मुहुर्मुहुरिति वागिषुभिः पूर्वोक्तैर्वचनरूपैर्बाणैः समाहता ताडितातिविद्धा चातिविस्मिता । राजा मामेवं प्रतारितवानितीति शेषः । शशंसोवाच ॥ २।९।६२ ॥

निशम्य दृष्ट्वा प्रतिवेदयिष्यसि दशरथायेति शेषः ॥ २।९।६३ ॥

नाञ्जनपानभोजनमिति समाहारद्वन्द्वः ॥ २।९।६४ ॥

अथ क्रोधागारप्रवेशान्तरम् निधाय त्यक्त्वा पुण्यक्षयाद्भूमौ पतिता ॥ २।९।६५ ॥

उदीर्ण उत्कटः संरम्भः कोप एव तमस्तेन वृतं व्याप्तमाननं यस्याः । अवमुक्तानि त्यक्तान्युत्तममाल्यभूषणानि यया सा विमना दुर्मनाः मग्नतारका अस्तमिततारका द्यौराकाशम् ॥ २।९।६६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे नवमः सर्गः ॥ २।९ ॥