अथ “चलं चित्तं मनुष्याणाम्” इति न्यायेन द्विस्त्रिर्मन्थरया हितवदुपदेशात्कल्याणमतेरपि कैकेय्याश्चित्तं चलितमित्याह मन्थरा त्विति । अभ्यसूय्यासूयाविषयां कृत्वा । हिताश्रवणात्कोपः एतदहितं जायते इति दुःखम् तत्समन्वितेव ॥ २।८।१ ॥
अस्थाने तदनुचितकाले बालिशे मुर्खे शोककाले हर्षोदयात् ॥ २।८।२ ॥
मनसेति । अत इत्यादिः । दुःखार्दिता सती तावकदुःखेन पीडिता सती प्रसहामीत्यन्वयः । व्यसनं विपदम् ॥ २।८।३ ॥
मतेर्दुष्टत्वमनर्थकरैः प्रियताविषयत्वम् । प्रहर्षयेत्प्रहृष्येत् । अरित्वे हेतुः सपत्नीपुत्रत्वम् । मृत्योर्वृद्धिमिव तस्य वृद्धिं दृष्ट्वेति शेषः ॥ २।८।४ ॥
मृत्योरिवेति व्युत्पादयति भरतादिति । रामस्य भरतादेव भयमस्ति । तत्र हेतुः राज्यसाधारणाद्राज्यरूपसाधारणभोग्याद्धेतोः तद्भरतहेतुकं रामभयं हि यतो भीताद्भयं जायते यो यस्माद्भीतस्तस्मात्पदस्थात्तस्य भयं भवत्येव । एवं च राज्यस्य निष्कण्टकत्वाय स्वभयहेतुं भरतं राज्यं प्राप्य रामः सर्वथा नाशयिष्यतीति भावः ॥ २।८।५ ॥
ननु भरतादेवेत्यवधारणमयुक्तमत आह लक्ष्मणो हीति । सर्वात्मना गतो मनोवाक्कायव्यापारै रामेणैक्यं गतो ऽतो न ततो भीप्रसङ्गः । शत्रुघ्नस्यापि भरतशेषतया न ततः पृथग्भीप्रसङ्गः तन्नाशेनैव तन्नाशादिति भावः ॥ २।८।६ ॥
भरतादेवेत्यवधारणे हेत्वन्तरमाह प्रत्यासन्नेति । प्रत्यासन्नो यः क्रम उत्पत्तिक्रमस्तेनापि हेतुना भरतस्यैव
राज्यक्रमस्तदाक्रमणं प्रसक्तम् । तयोस्तु यवीयस्त्वात्स विसृष्ठो दूरत्यक्त इत्यर्थः ॥ २।८।७ ॥
पुना रामाद्भयमुपसंहरति विदुष इति । विदुषः सर्वशास्त्रज्ञस्य विशिष्य क्षत्रचारित्रे बलसंपाद्ये संधिविग्रहादिप्रयोगे च प्राज्ञस्य प्राप्तकारिणः अविलम्बेन कालोचितकर्तव्यार्थकारिणो रामस्य त्वदात्मजं प्रति भाव्यनर्थं चिन्तयन्ती तन्निमित्ताद्भयात्प्रवेपे कम्पे ॥ २।८।८ ॥
एवं पुत्रानर्थं प्रदर्श्य तस्या अप्यनर्थं दर्शयितुं कौसल्यार्थमाह सुभगेति । यौवराज्येनेति हेतौ तृतीया । पुष्येण पुष्ये ॥ २।८।९ ॥
वसुमतीं प्राप्तां तत्प्राप्तिनिमित्तां प्रीतिं च प्राप्ताम् । हता युष्मदादिसपत्नीरूपा विद्विषो यया तामत एव प्रतीतां प्रसिद्धाम् उपस्थास्यसि गत्वा सेविष्यसे ॥ २।८।१० ॥
अयमनार्थो ममापीत्याह एवं चेति ॥ २।८।११ ॥
परमाः स्त्रिय इति बहुवचनेन सीतासख्यः । भरतक्षये भरतप्रभावनाशे ॥ २।८।१२ ॥
एवं द्विःकृतोपतापापि कैकेयी निसर्गपुण्यस्वभावान्न चचालेत्याह तामित्यादि । परमप्रीतां परं रामे ऽप्रीतामित्यर्थः । देवी पुण्यस्वभावा ॥ २।८।१३ ॥
मन्थरोक्तयुक्तीः प्रतिक्षिपति धर्मज्ञ इति । दान्तः शिक्षितः कृतज्ञ इत्यनेन बाल्ये स्वकृतपालनाद्युपकारस्मरणेन स्वानिष्टशङ्कानिरासः ज्येष्ठ इत्यनेन तस्य राज्ययोग्यतेति साधारण्यं परिहृतम् ॥ २।८।१४ ॥
भरतानर्थो ऽपि नेत्याह भ्रातृ़निति । कथम् व्यर्थमेवेत्यर्थः ॥ २।८।१५ ॥
पितृवद्भातृ़नविभागेन पालयतो रामस्य वर्षशतात्परमपि यदा विभागेच्छा तदा भरतो राज्यमवाप्स्यति । ध्रुवापिशब्दाभ्यां लक्ष्मणशत्रुघ्नयोरपि राज्यप्राप्तिर्ध्रुवेति सूचितम् ॥ २।८।१६ ॥
अभ्युदये रामाभिषेकरूप उत्सवे । कल्याणे भरताभिषेकरूपे कियता कालेन भविष्यति ॥ २।८।१७ ॥
मान्यः प्रार्थनीयश्रेयस्कः तथा तद्वत् । यता भूयो ऽप्यभ्यधिकमपि । तत्र हेतुः कौसल्यात इति । अतिरिक्तमधिकम् ॥ २।८।१८ ॥
संप्रत्यपि भरतस्य राज्यमस्त्येवेत्याह राज्यमिति ॥ २।८।१९ ॥
एवं राज्यापहारं परिह़ृतवतीं कैकेयीं मन्थरा तृतीयपर्यायेण पुनर्भेदयति कैयेय्या इति ॥ २।८।२० ॥
अनर्थदर्शिनी अर्थस्यैवानर्थत्वेन दर्शनशीला । शोक इष्टवियोगजः अनिष्टाप्तिजं दुःखं व्यसनं ताभ्यां विस्तीर्णे व्याप्ते । सकलदुःखसमष्टिर्दुःखसागरस्तत्र मज्जन्ती त्वमात्मानं नावबुद्ध्यस इत्यर्थः ॥ २।८।२१ ॥
कुत एवं वारंवारं कथयसीत्यत्राह भवितेति । परिहास्यते हीनो भविष्यति भरततत्सुतादे राज्यहान्यैवं दुःखं कथयामीति भावः ॥ २।८।२२ ॥
तत्र हेतुमाह नहीति । सर्वेषां राज्यस्थितौ बाधकमाह स्थाप्यमानेष्विति । अनयो ऽन्यायईर्ष्यया परस्परप्रजापीडनरूपः ॥ २।८।२३ ॥
राज्यतन्त्राणि राज्यनिर्वहणक्षमाधिकारप्राधान्यानि सर्वनिरूपितप्राधान्याश्रयत्वमेकस्यैवेति भावः । ज्येष्ठस्यागुणवत्त्वे तु गुणवत्कनीयःस्वपि ॥ २।८।२४ ॥
यदेवमतो असाविति । निर्भग्नो हीनसुखेभ्यो राजवंशाच्च निर्भग्नो भविष्यतीत्यन्वयः । वत्सले सर्वत्र दयाशीले ॥ २।८।२५ ॥
त्वदर्थे त्वत्पुत्रराज्यभ्रंशे प्राप्ते तत्परिहारकथनार्थम् । सपत्निवृद्धावित्यार्षो हृस्वः । प्रदेयं पारितोषिकमतो मां त्वमलुब्धा स्वहिते इति न बुद्ध्यसे इत्यर्थः ॥ २।८।२६ ॥
नाययिता लुट् । लोकान्तरामिति हनिष्यतीति यावत् ॥ २।८।२७ ॥
यस्तु रामे राज्ञः पक्षपातः स भरतासंनिधानतः । तच्च त्वयैव कृतमित्याह बाल एवेति । मातुल्यं मातुलगृहम् । ननु किं तावतात आह संनिकर्षादिति । स्थावरेषु तृणगुल्मलतावृक्षादिषु तत्र
सौहार्दमन्योन्याश्लेषरूपम् । एवं च भरतस्थितौ विभज्य समं राज्यलाभः स्यादिति भावः ॥ २।८।२८ ॥
शत्रुघ्नस्थितौ वा भरतकार्यस्य न नाशः स्यात् । सो ऽपि दैववशाद्गत इत्याह भरतानुवशादिति । “शत्रुघ्नो ऽपि समं गतः” इति पाठे ऽनुवशादनुरोधवशादित्यर्थः । आद्यो ऽपिरत्रैव योज्यः । अनुवशादपि अपिना दैववशाच्चेत्यर्थः । गतः एकहृदयतयेति शेषः ॥ २।८।२९ ॥
कस्यचित्संनिकर्षात्कस्यचिदनर्थनिवृत्तिर्लोकदृष्टेत्यत आह श्रूयते हीति । छेत्तव्यः प्राप्तच्छेदनकालः । इषीकाभिः कण्टकबहुलगुल्मैः संनिकर्षात्परितः परिवारणरूपात् भयाच्छेदनरूपात् । स्वस्य सदान्तःपुरवर्तित्वेन श्रूयते हीत्युक्तिः ॥ २।८।३० ॥
नन्वेष दोषो लक्ष्मणस्यापि समानो़ ऽत आह गोप्ताहीति ॥ २।८।३१ ॥
पापं वधम् ॥ २।८।३२ ॥
तस्माद्वधसंभावनासत्त्वात् राजगृहाद्राजगृहाख्यान्मातुलनगरात् । एतदेव मह्यं रोचते । त्वदिष्टत्वात् एकपुत्रायाः पुत्रमरणापेक्षया वने पुत्रजीवनं सम्यक् । तदेवाह
भृशं तव हितमेतत् “जीवन्भद्राणि पश्यति” इति न्यायात् ॥ २।८।३३ ॥
एवमेवं सति मातुलगृहादेव वनगमने सति ते ज्ञातिपक्षस्यास्मदादेः श्रेयश्च भविष्यत्येव श्रेयो जीवनरूपं कल्याणम्, चात्सुखम् । भरताद्वनस्थादपि भयशङ्कयास्मदादिपीडायाः कर्तुमशक्यत्वादिति भावः । यदि चेदिति यदि वेत्यर्थः । धर्मात्पितृदीयमानत्वरूपात् तदा वा ज्ञातिपक्षस्य श्रेय इत्यर्थः । यद्वा एवमेव ते पक्षस्य श्रेयो भविष्यति । एवमेवेत्येतदुपपादयति यदि चेति ॥ २।८।३४ ॥
अन्यथा दुःखमेवेत्याह स ते इति । समृद्धार्थस्य रामस्य वशे स्थितो नष्टार्थः कथं जीविष्यतीत्यर्थः ॥ २।८।३५ ॥
तस्मादरण्ये सिंहेनाभिद्रुतं गजयूथपमिव राज्याप्राप्त्या प्रबलेन रामेण प्रच्छाद्यमानमभिभूयमानं भरतं तदभिषेकनिरोधेन त्रातुमर्हसि ॥ २।८।३६ ॥
अन्यथा तवाप्यनर्थ इत्याह दर्पादिति । सौभाग्यवत्ता पतिवात्सल्यम् । वैरयापनं वैरशुद्धिं, त्वयि दास्यसंपादनेन कथं न कुर्यादित्यर्थः । “पातयेत्” इति पाठे ऽप्ययमेवार्थः ॥ २।८।३७ ॥
अशुभं पराभवं दास्यम् ॥ २।८।३८ ॥
एवं यतः सपुत्रायास्ते ऽनर्थः अत एवात्मजे राज्यं राज्यप्राप्तिकारणं चिन्तय “शत्रुशेषो न स्थाप्यः” इति न्यायेन परस्यास्य रामस्य चाल्लक्ष्मणसीतयोर्विवासकारणं च चिन्तय ॥ २।८।३९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टमः सर्गः ॥ २।८ ॥