००६ अभिषेकार्थं जनोल्लासः

आदरात्पुनरभिषेकसामग्रीवर्णनम् । उपागमदुपासाञ्चक्रे । नारं जीवसमूहो ऽयनमन्तर्यामितया स्थानं यस्य तेनान्तर्यामिणमित्यर्थः ॥ २।६।१ ॥

शिरसा पात्रीं प्रगृह्य नमस्कारपूर्वमित्यर्थः । महते दैवताय नारायणाय ॥ २।६।२ ॥

आशास्य प्रार्थ्य आत्मनः प्रियं राज्याभिषेकाविध्नरूपं वस्तुतो रावणवधफलकवनगमनरूपमाशास्य सङ्कल्प्येत्यर्थः । वैदेह्या सहेत्यत्राप्यपकष्टव्यम् । नहि चतुर्दशभुवनाधिपतेरेतद्यौवराज्यं प्रियं भवति । सकलतद्देशमनुष्यप्रियत्वादात्मन इत्यस्य वैफल्यं चाद्य व्याख्याने प्राप्नोतीति दिक् । कुशसंस्तरे कुशमये शयनीये ॥ २।६।३ ॥

नियतमीश्वरमात्रविषयम् । विष्णोरायतने निजभवनवर्तिनि देवपूजालये ॥ २।६।४,५ ॥

सूताः पौराणिकाः मागधा वंशावलीकीर्तकाः बन्दिनः स्तुतिपाठकाः । पूर्वां सन्ध्यामुपासीनस्तदुपासनं कुर्वञ्जजाप । गायत्रीजपस्यैव तदुपासनरूपत्वात् ॥ २।६।६ ॥

वाचयामास स्वस्तिवाचनं पुण्याहं च ॥ २।६।७ ॥

तूर्यघोषानुनादितस्तूर्यघोषेण सञ्जातानुनादः ॥ २।६।८,९ ॥

शोभयितुमलङ्कर्तुं चक्रे बुद्धिमिति शेषः ॥ २।६।१० ॥

अट्टालकाः प्राकारोपरितनयुद्धस्थानानीति केचित् ॥ २।६।११,१२ ॥

आलक्षितेषु सर्वतो लक्षितेषु अत्युच्चेष्विति यावत् । ध्वजाः सचिह्नाः पताकाश्चिह्नरहिता इत्याहुः ॥ २।६।१३ ॥

नटाः सूत्रधाराः जनता जनसमूहः । ततस्तत्रायोध्यायाम् ॥ २।६।१४,१५ ॥

रामाभिषवो रामाभिषेकः ॥ २।६।१६,१७ ॥

अभिषेकानन्तरं गजस्कन्धाधिरूढस्य नगरालङ्कारदर्शनार्थनिर्गमनात्पूर्वं यदि निशा न याति तदा तदलङ्कारप्रदर्शनार्थं स्वयं रामं द्रष्टुं च दीपवृक्षान्वृक्षवन्नानाशाखान्दीपस्तम्भान् । अनुरथ्यासु रथ्यापार्श्वयोः ॥ २।६।१८,२१ ॥

अनुगृहीता ईश्वरेण । दृष्टलोकपरावरः भावप्रधानो निर्देशः ।

यथावदवगततज्जनप्राशस्त्याप्राशस्त्यः ॥ २।६।२२२४ ॥

शुश्रुवुः कथा इति शेषः । विश्रुतवृत्तान्ताः श्रुतरामाभिषेकवृत्तान्ताः ॥ २।६।२५ ॥

ते जानपदाः । रामस्य पुरीमित्यन्वयः ॥ २।६।२६ ॥

विसर्पद्भिः प्रवेशार्थम् ॥ २।६।२७ ॥

इन्द्रक्षय इन्द्रनिवासो ऽमरावती । आहितैः आगतैरित्यर्थः । “हि गतौ” इत्यस्य रूपम् । समुद्रयदोभिः सभुद्रतुल्यैर्महद्भिर्यादोभिरित्यर्थः ॥ २।६।२८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षष्ठः सर्गः ॥ २।६ ॥