सन्दिश्य राममुपवासादि कुर्वित्युक्त्वा ॥ २।५।१ ॥
गच्छेति । उपवाससङ्कल्पादेः पुरोहितसाध्यत्वादिति भावः । श्रेयसे विघ्ननिवृत्तिरूपश्रेयोर्थम् ॥ २।५।२,३ ॥
ब्राह्मं ब्राह्मणारोहणयोग्यम् । युक्तमश्वैः ययाविति पूर्वेणान्वयः ॥ २।५।४ ॥
पाण्डुराभ्रवन्निबिडप्रभम् । कक्ष्या द्वाराणि ॥ २।५।५ ॥
त्वरन्निव त्वरन्नेव । ससंभ्रमं सादरम् ॥ २।५।६ ॥
परिगृह्य हस्तेन हस्ते धृत्वा ॥ २।५।७ ॥
संभाष्य वत्सेत्यादि संबोध्य । अभिप्रसाद्य स्तुतिभिरिति शेषः । प्रियार्हं प्रियोक्त्यर्हम् ॥ २।५।८,९ ॥
अभिषेक्ता लुट् ॥ २।५।१० ॥
राममुपवासं तत्संकल्पं कारयामासेति । “दृकोः” इति द्विकर्मकत्वम् ॥ २।५।११ ॥
राज्ञो दशरथस्य ॥ २।५।१२ ॥
प्रियंवदैः सुहृद्भिः सभाजितः पूजितः विवेश स्ववेश्म । तान्सुहृदः ॥ २।५।१३,१४ ॥
राजभवनं मूलराजभवनम् । प्रख्यं सदृशम् ॥ २।५।१५ ॥
वृन्दानां वृन्दैः । अभिसंबाधाः संमर्दयुक्ताः । कुतूहलजनै रामाभिषेकदर्शनजकौतुकसंपन्नैर्जनैः ॥ २।५।१६ ॥
जनवृन्दान्येवोर्मयस्तेषां संघर्षो ऽन्योन्यसंघर्षणं तेन हर्षेण जातो यः स्वनस्तद्वृतः ॥ २।५।१७ ॥
सिक्ताः सुगन्धिजलसिक्ताः संमृष्टाः शोधिता रथ्या यस्याम् । तदहस्तस्मिन्नहनि । तथा च तथैव
। वनमालिनी तोरणमालावती । समुच्छ्रिता गृहेषु
ध्वजा यस्यां सा ॥ २।५।१८ ॥
स्त्रीबालैः सहितश्चासावाकुलः सन्तोषात्संभ्रान्तचित्तः । “सस्त्रीबालाबलः” इति पाठे ऽबला वृद्धाः स्त्रीबालवृद्धसहितो जन इत्यर्थः । रामाभिषेकमाकाङ्क्षन्द्रष्टुमिच्छन् रवेरुदयमाकाङ्क्षन् अभूदिति शेषः ॥ २।५।१९ ॥
महोत्सवं रामाभिषेकसंभूतम् ॥ २।५।२० ॥
व्यूहन्निव राजमार्गं व्याप्य स्थितानेकतः कुर्वन्निव ॥ २।५।२१ ॥
सिताभ्रसदृशहिमगिरिशिखरसदृशम् ॥ २।५।२२ ॥
राजासनं हित्वा प्रत्युत्थायेत्यर्थः । स्वमतं स्वानुमतं कृत्यं पप्रच्छ । स च यदाज्ञप्तं तत्कृतमिति न्यवेदयत् ॥ २।५।२३ ॥
तुल्यं तुल्यकालम् ॥ २।५।२४ ॥
अभ्यनुज्ञातः सर्वस्य कर्तव्यस्य कृतत्वाद्विश्रम्यतामित्युक्तः ॥ २।५।२५ ॥
अग्र्य उत्तमः ॥ २।५।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चमः सर्गः ॥ २।५ ॥