निश्चयज्ञस्तत्तत्कार्यार्हदेशकालनियमज्ञः निश्चयं रामाभिषेककालविषयम् ॥ २।४।१ ॥
तदाह श्व एवेति । युवराज इति प्रभुरिति निश्चयमिति पूर्वेणान्वयः । उभाभ्यां प्रजान्यायदर्शनदण्डादिष्वयमेवाधिकारीति सूचितम् ॥ २।४।२ ॥
आमन्त्रयामासानयेत्याज्ञापयामास ॥ २।४।३ ॥
पूर्वागमनापेक्षया पूर्वानयनापेक्षया पुनस्त्वम् ॥ २।४।४ ॥
आवेदितं विज्ञापितम् प्राप्तं पुनरागतम् शङ्कान्वितो राज्ञ आपच्छङ्कान्वितः ॥ २।४।५,६ ॥
ततो रामोक्तिश्रवणान्तरम् । श्रुत्वा राजोक्तार्थानुवादिनीं मदुक्तिम् । तत्र राजसंनिधौ । इतरायागमनाय असर्वनामत्वमार्षम् । प्रमाणं निर्णेता ॥ २।४।७,८ ॥
प्रियं स्वप्रियम् ॥ २।४।९ ॥
दूरात्प्रणिपातः किं वदिष्यतीति भीत्या ॥ २।४।१० ॥
प्रणमन्तं समुत्थाप्य तं परिष्वज्येत्यन्वयः । प्रदिश्य हस्तेन दर्शयित्वा चाद्वचसाप्युक्त्वा अस्मै रामाय चात्सुमन्त्राय रामं च रामं तु ॥ २।४।११ ॥
यथेप्सितास्तथा भुक्ताः । “विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते” ॥ इत्युक्तेरन्नवदादिविशेषणम् । यथा यथावत् । इष्टं देवानां पूजनं कृतम् ॥ २।४।१२ ॥
इष्टं वस्तु दत्तम् ॥ २।४।१३ ॥
यागाध्ययनपुत्रदानोपभोगैः पञ्चभिर्देवर्षिपितृविप्राणामात्मनश्चेत्येव पञ्चानामनृणो ऽस्मि । आत्मा सेन्द्रियग्रामो जीवस्तस्य तत्तत्सुखाधिकारिणस्तददाने ऋणित्वमर्थसिद्धम् तेन सर्वऋणाद्विनिर्मुक्तो ऽस्मीति भावः । ऋष्यृणे विप्रर्णस्य देवर्णे जीवर्णस्यान्तर्भावं कृत्वा ऋणानि त्रीण्यपाकृत्येति स्मृतिवादः ॥ २।४।१४ ॥
यद्ब्रूयां तन्मे वचः कर्तुमर्हसि अविलम्बेनेति शेषः ॥ २।४।१५,१६ ॥
अविलम्बकरणे हेत्वन्तरमाह अपि चेति । अशुभानशुभसूचकान् । सनिर्घाता अशनिपातसहिताः दिवोल्का दिव उल्काः संधिरार्षः दिवा दिवसे इत्यन्ये उल्का ज्वालाः पतन्ति ॥ २।४।१७ ॥
नक्षत्रं जन्मर्क्षम् अवष्टब्धमाक्रान्तम् ॥ २।४।१८ ॥
घोरामापदमृच्छति पूर्वम् ततो मृत्युं चाप्नोतीत्यर्थः ॥ २।४।१९ ॥
तत्तस्माद्यावन्मे चेतो न विमुह्यति त्वदभिषेकविमुखं न भवति तावत्ततः पूर्वमेवाभिषिञ्चस्व कृताभिषेकमात्मानं कुरु । ननु ते चेतसः का मदभिषेकवैमुख्यचिन्ता तत्राह चला हीति । त्वद्विमातृतत्पुत्रोपजापस्य संभावितत्वात्तदेव वक्ष्यति विप्रोषितश्च भरत इत्यादिना ॥ २।४।२० ॥
पुष्ययोगं चन्द्रस्य नियतं शुद्धगणितनिश्चितम् अभिषेके प्रशस्तं वा, दैवचिन्तका ज्येतिर्विदो वक्ष्यन्ते वदन्तीत्यर्थ आर्षम् ॥ २।४।२१ ॥
अभिषिञ्चस्वाभिषिक्तो भव । मे मनश्चित्तं मां त्वरयतीव त्वदभिषेकार्थमिति शेषः ॥ २।४।२२ ॥
अद्यप्रभृति प्रदोषमारभ्य अनेनाद्विर्भोजनरूपः प्राग्दिननियमो दर्शितः ॥ २।४।२३ ॥
रक्षणे हेतुर्भवतीत्यादि । एवंविधानि शुभोदर्काणि । बहुविध्नानीति बहुव्रीहिः ॥ २।४।२४ ॥
इतः पुरादस्मात्पुराद्यावद्विप्रोषित एव तिष्ठति तावदेव विप्रोषितस्य तस्यागमनात्पूर्वमेव प्राप्तकालोयोग्यः अन्यथा भरतः प्रतिबध्नीयादिति भावः ॥
२।४।२५ ॥
ननु भरते एषा शङ्का न युक्तेत्यत आह– काममिति । काममिति यद्यपीत्यर्थे ॥ २।४।२६ ॥
किं न्विति तथापीत्यर्थे । मनुष्याणां चित्तं स्नेहादिमदप्यनित्यं विकारनिमित्ते सति विक्रियतैवेत्यर्थः । यतः सतां धर्मनित्यानामपि चित्तं तत्तन्निमित्तकृतेन रागद्वेषादिना शोभते युज्यते तथा । न तु सर्वथा स्वतो नियतकिंचित्स्वभावमित्यर्थः ॥ २।४।२७ ॥
अभिषेचने ऽभिषेचनविषये । इत्युक्तो व्रजेत्यभ्यनुज्ञात इति संबन्धः । अभिबाष्यामन्त्र्य ॥ २।४।२८ ॥
राज्ञादिष्टे आज्ञप्ते ऽभिषेचने सीतायै तदपेक्षितराजोपदिष्टसभार्योपवासानुष्ठाननिवेदनाय स्वगृहं प्रविश्य तत्र सीतामदृष्ट्वा तत्क्षणादेव मातुरन्तःपुरं ययौ ॥ २।४।२९ ॥
प्रवणां देवताराधनतत्पराम् । आयाचतीमिति च्छेदः । श्रियं रामाय राज्यलक्ष्मीम् ॥ २।४।३० ॥
आनायिता कौसल्ययेति शेषः ॥ २।४।३१ ॥
तस्मिन्काले ऽपि रामागमनविशिष्टे काले ऽप्यामीलितेक्षणा ध्यानवशाद् अन्वास्यमानोपास्यमाना ॥ २।४।३२ ॥
“पुष्येण” इति पाठे तद्युक्तकालस्याधिकरणस्यापि करणत्वविवक्षा बोध्या ॥ २।४।३३ ॥
वरं श्रेष्ठम्, अत एव हर्षयन् ॥ २।४।३४ ॥
यथा मे पितुः स्वसंबन्धेन रात्रो दशरथस्यात्युत्कृष्टत्वध्वनम्, शासनमाज्ञा तथा श्वो मे मे ऽभिषेको भवितेति संबन्धः ॥ २।४।३५ ॥
स हीति हिरप्यर्थे । स पितापि मामेवमुक्तवानित्यर्थः ॥ २।४।३६ ॥
मङ्गलानि महार्हगन्धमाल्याभरणादिरूपाणि मङ्गलस्नानादीनि च ॥ २।४।३७ ॥
चिरकालाभिकाङ्क्षितमेतदभिषेकरूपम् । हर्षजबाष्पेणाकुलमव्यक्तमधुरम् ॥ २।४।३८ ॥
हताः भवन्त्विति शेषः । मे मम सुमित्रायाश्च ज्ञातीन्बन्धूनभिनन्दय ॥ २।४।३९ ॥
कल्याणे नक्षत्रे शुभयुक्ते काले जातो जनितः । येन शुभकालजननेन ॥ २।४।४० ॥
पुष्करनेत्रे पुरुषे विष्णौ यन्मे क्षान्तं कामं परित्यज्य तत्प्रीतिमात्रफलकं
व्रतोपवासादि कृतं तदमोघं सफलं जायते । बतेति हर्षे । साफल्ये हेतुर्येयमित्यादि । इदमभाषतेत्यन्वयः ॥ २।४।४१ ॥
स्मयन्निव ईषद्धसन्निवेत्यर्थः ॥ २।४।४२ ॥
स्वनिविष्टं राज्यं सौभ्रात्रेण साधारणं करोति लक्ष्मणेति ॥ २।४।४३ ॥
राज्यफलरूपानिष्ठान्मनोनुकूलान्भोगान्विषयान् यद्वा राज्यफलानि धर्मार्थौ तौ च प्राप्नुहे । त्वदर्थं न स्वप्रयोजनाय ॥ २।४।४४ ॥
सीतां च स्वं चाभ्यनुज्ञाप्य सीतायै स्वस्मै च मातृभ्यामनुज्ञां दापयित्वा निवेशनं स्वगृहं ययौ । चस्त्वर्थे ॥ २।४।४५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुर्थः सर्गः ॥ २।४ ॥