००३ अभिषेकसम्भारसङ्ग्रहणम्

अञ्जलिपद्मान्यञ्जलिरूपाणि पद्मानि । पद्माकारानञ्जलीनिति यावत् । प्रगृहीतानि प्रकर्षेण शिरसि बद्धानि प्रतिगृह्य वीक्षणवचनप्रत्यञ्जलिभिर्यथायोगं तासां प्रतिग्रहः ॥ २।३।१,२ ॥

इति प्रत्यर्चितान्पौरजानपदान्कृत्वा ब्राह्मणानिदमब्रवीत् । तेषां पौरादीनां शृण्वताम् पुर इत्यर्थः । चकारसङ्ग्राह्यमवेक्ष्य ब्राह्मणानिति बहुवचनम् ॥ २।३।३,४ ॥

जनघोषो रामाभिषेकसंभारोपकल्पनाज्ञाश्रवणजः ॥ २।३।५ ॥

वसिष्ठमिति वामदेशोपलक्षणम् अग्र एवं व्यादिश्य विप्रौ त्वित्युक्तेः । परिच्छद उपकरणम् ॥ २।३।६,७ ॥

युक्तान्सावधानान् मन्त्रिण इति शेषः । बलीन्पूजाद्रव्याणि विध्नशामकबल्यर्थानि ॥ २।३।८ ॥

पृथक्पृथक्पात्रगृहीते अहतानि सदशानि तदानीमेव तन्तुवाययन्त्रादुद्धृतानि ॥ २।३।९ ॥

चामरव्यजने चमरपुच्छनिर्मिते व्यजने ॥ २।३।१० ॥

शातकुम्भानां सौवर्णानाम् अग्निवर्चसामित्यनेन सुवर्णस्यात्युत्तमत्वं ध्वनितम् । समग्रं नखादिसहितमखण्डम् ॥ २।३।११ ॥

अन्यदनुक्तमपि लोकप्रसिद्धं गन्धपुष्पादि एष्टव्यमवश्यापेक्षितं तदित्यर्थः ।

अग्न्यगारे ऽग्निहोत्रगृहे उपस्थापयत प्रापयत ॥ २।३।१२ ॥

अन्तःपुरं राजवेश्म घ्राणहारिभिरतिसुगन्धैः ॥ २।३।१३ ॥

प्रशस्तं दृश्यं गुणवद्युक्तसंस्कारं दघ्ना क्षीरेण चोपसेचनं संस्कारो यस्य तत् । द्विजानां शतसाहस्रं प्रति यत्प्रकाममभिमतमलं पर्याप्तं च भवेत्तत्संपाद्य द्विजमुख्यानां तेभ्यः सत्कृत्य प्रातर्दीयताम् ॥ २।३।१४१६ ॥

तालापचारास्तालजीविनः ॥ २।३।१७ ॥

कक्ष्यां द्वितीयामन्तःकक्ष्यायामभिषेकस्थाने ब्राह्मणानामेव वासादिति भावः । चैत्या रथ्यावृक्षाः अन्नमोदनं भक्ष्यं च तत्सहिताः दक्षिणा तत्सहिताः ॥ २।३।१८ ॥

माल्ययोग्या मालामर्हति माल्यमर्चनं तद्योग्या गन्धपुष्पादयः । देवायतनचैत्ययोः पृथक्पृथगुपस्थापयितव्याः तत्तद्देवतापूजापूर्वकं तत्र तत्र ब्राह्मणतर्पणं कार्यमिति तात्पर्यम् दीर्घा असयो येषां ते बद्धगोधाचर्माणश्चेति द्वन्द्वः । “दीर्घासिबद्धा योधाः” इति पाठे बद्धदीर्घासयो योधा इत्यर्थः । मृष्टवासस इत्युपलक्षणमलङ्काराणाम् ॥

२।३।१९ ॥

महोदयं महोत्सवविशिष्टमङ्गनम् विप्रौ वसिष्ठवामदेवौ व्यादिश्य अधिकारिण इति शेषः । तत्र नृपवेश्मनि स्थितौ क्रियाः पुरोहितकर्तव्याश्चक्रतुरित्युत्तरेणान्वयः ॥ २।३।२० ॥

यच्चैवं शेषं राजोक्तादन्यदवश्यकर्तव्यं तदपि पार्थिवाय निवेद्य चक्रतुः । ततो जगत्पतिमभिगम्य यथोक्तवचनमुक्तवचनमनतिक्रम्य सर्वं कृतं सिद्धं जातमित्यब्रूताम् । प्रीतिर्मानस आनन्दः तद्वन्नायको मुखविकासादिर्हर्षः ॥ २।३।२१,२२ ॥

कृतात्मा धर्मे कृतबुद्धिः प्रतिज्ञायोक्त्वा ॥ २।३।२३ ॥

तत्र प्रासादे प्रासादस्थो ददर्शेति वक्ष्यमाणत्वात् ॥ २।३।२४ ॥

आर्या मध्यदेशवासिनः ॥ २।३।२५,२६ ॥

गन्धर्वराजप्रतिमत्वं सौन्दर्यवत्त्वेन च विख्यातपौरुषत्वेन वीरत्वम् ॥ २।३।२७ ॥

वीरानुगुणं दीर्घबाहुत्वं महासत्त्वं महाबलवत्त्वं च तदनुमापकं मत्तेत्यादि तेन सगर्वसलीलगमनमुक्तम् । चन्द्रकान्ताननमिति वाचकमात्रलुप्तोपमा अत एवातीव प्रियदर्शनं रामं जनान्रमयन्तम् ॥ २।३।२८ ॥

रूपौदार्यगुणैः क्रमादृष्टिचित्तहरम् । ग्रीष्मतप्ताः प्रजा ह्लादयन्तं पर्जन्यमिव स्थितम् ॥ २।३।२९ ॥

पश्यमान इत्यार्षम् । न ततर्पेत्यनेनानुक्षणं नवनवप्रेमास्पदत्वम् ॥ २।३।३०।३१ ॥

सहसा वेगेन तेन सुमन्त्रेण सहेति शेषः । सप्राञ्जलिः साञ्जलिः अभिप्रेत्य प्राप्य प्रणतः कृतसाष्टाङ्गनमस्कारः ॥ २।३।३२ ॥

स्वं नाम श्रावयन्रामवर्माहमस्मीत्येवम् । प्रणम्य पार्श्वे ऽवस्थानं पुत्रधर्मः ॥ २।३।३३ ॥

अञ्जलावञ्जलिप्रदेशे रामं स्वयमेव गृह्य गृहीत्वा समाकृष्य स्वसंमुखमानीय । अभ्युद्यतमुपस्थापितम् ॥ २।३।३४ ॥

परमुत्कृष्टं व्यदीपयताशोभयत । अत्रासनं कर्म ॥ २।३।३५ ॥

स्वयैव प्रभयेति दीपने करणम् । उदयकाले रविर्मेरुमिव सा वसिष्ठदशरथादिभ्राजिता सभापि न केवलमासनमेवेत्यर्थः । व्यरोचत विशेषेण चकाशे ॥ २।३।३६ ॥

ग्रहनक्षत्रादियुक्तमप्याकाशमिन्दुनेव ॥ २।३।३७ ॥

आदर्शतलप्रतिबिम्बितमलङ्कृतमात्मानं पश्यन्निव तं पश्यंस्तुतोष । तेन पितृसदृशावयवत्वं सूचितं रामस्य । आभाष्य रामेति संबोध्य ॥ २।३।३८ ॥

तदाह यदुवाच ज्येष्ठायामिति ॥ २।३।३९ ॥

गुणैर्ज्येष्ठो ऽत एव मम प्रियः यतस्त्वयेत्यन्वयः ॥ २।३।४० ॥

पुष्पयोगेन चन्द्रस्य पुष्ययोगोपलक्षितकाले । अधिकरणस्य करणत्वविवक्षया तृतीया । प्रकृत्या स्वभावेन कामतः प्रकामम् अत्यर्थमिति यावत् ॥ २।३।४१ ॥

गुणवति सत्यपि । स्नेहात्तु स्नेहादेव । विनीत एव सन्भूयो ऽधिकं विनयमास्थाय ॥ २।३।४२ ॥

कामजानि स्त्रीद्यूतमृगयामधुसेवनादीनि । क्रोधजानि वाक्पारुष्योग्रदण्डत्वार्थदूषणानि व्यसनानित्यजेथाः । तत्रार्थदूषणं पित्रादिसञ्चितार्थस्य नाशनम् । परोक्षयाचारमुखतः परोक्षानुभवसिद्ध्या वृत्त्या स्वपरराष्ट्रवृत्तान्तविचारेण प्रत्यक्षया सदा सभायां स्थित्वा स्वप्रत्यक्षया वृत्त्या प्रजान्यायादिविचारेण युक्तो भव ॥ २।३।४३ ॥

तेनामात्यप्रभृतीरमात्यसेनापतिपुरराष्ट्रादिकपौरजानपदसर्वप्रजा अनुरञ्जय च । अयुतनियुतादिसंख्यखर्वादिपरिच्छिन्नधान्यग्राहीणि कोष्ठरूपाण्यगाराणि आयुधागाराणि शस्त्रगृहाणि तैः सह । सम्यङ्निचीयन्ते ऽस्मिन्निति संनिचया रत्नहेमाभरणरजतवस्त्रादिकोशगृहाणि बहूनि विपुलानि कृत्वा संपूर्य प्रजा अनुरञ्जयेति पूर्वेणान्वयः ॥ २।३।४४ ॥

इष्टाः स्वस्यानुरक्ताः स्वस्मिन्प्रकृतयः प्रजा यस्य तस्य मित्राण्यमृतं लब्ध्वामरा इव तं लब्ध्वा नन्दन्ति ॥ २।३।४५ ॥

तदभिषेकप्रयोजनं पित्रुपदेशम् ॥ २।३।४६,४७ ॥

प्रियाख्येभ्यो रामाभिषेकरूपप्रियवक्तृभ्यः ॥ २।३।४८ ॥

इष्टं लाभमिव स्वेष्टवस्तुप्राप्तिरूपमिव आनर्चू रामाभिषेकनिर्विघ्नतायै ॥ २।३।४९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे तृतीयः सर्गः ॥ २।३ ॥