अथ राज्याभिषेकस्य सर्वप्रजार्थत्वात्तदनुमतय आह राजेत्याह तत इति । आमन्त्र्याभिमुखीवत्यहितं श्रेयस्करम् अत एवोद्धर्षणमुत्कृष्टहर्षजनकम् प्रथितं सर्वजनश्राव्यं यथा भवति तथोवाच ॥ २।२।१ ॥
तदेवाह दुन्दुभीति । अनुनादः प्रतिध्वनिः नादयन् दिश इति शेषः ॥ २।२।२ ॥
स्वरे राजलक्षणयुक्तत्वं स्निग्धगम्भीरत्वादियुक्तत्वम् । कान्तत्वं मृदुमधुरत्वादिना रसयुक्तेनाद्भुतरसयुक्तेन ॥ २।२।३ ॥
मे राज्यं मया संप्रति पाल्यमानम् मम पूर्वैर्मन्वादिभिः पालितमिति विदितमित्यन्वयः ॥ २।२।४ ॥
ततः किं तत्राह सो ऽहमिति । श्रेयसा रामराज्याभिषेकद्वारा विशिष्टेन सुखेन यत इक्ष्वाकुभिः प्रतिपालितमत एव सुखार्हम् ॥ २।२।५ ॥
पूर्वैर्मन्वादिभिः पन्थानं प्रजापालनमार्गम् अनिद्रेण स्वसुखनिरपेक्षेण । यथाशक्तीति विनयप्रदर्शनम् ॥ २।२।६ ॥
जरितं प्रापितजरं कृतम् । न कदापि प्रजापालनविरोधेन विषयासक्तिः कृतेति भावः ॥ २।२।७ ॥
वर्षसहस्राणि षष्टिवर्षसहस्राणि बहून्यायूंषि वत्सरशथरूपानेकपुरुषायूंषि विश्रान्तिं प्रजाचिन्ताराहित्यरूपिणीम् ॥ २।२।८ ॥
राजप्रभावाः शौर्यादयस्तद्युक्तैर्जुष्टाम् । वहन्निति हेतौ शता ॥ २।२।९ ॥
प्रजाहिते पुत्रं कृत्वा तं निपुज्य । अनुमान्य कृतानुमतिकान्कृत्वा ॥ २।२।१० ॥
राज्यार्हत्वं पुत्रस्य दर्शयति अनुजात इति । मत्सम्बन्धि सर्वगुणविशिष्टो जात इत्यर्थः । इत्थंभूताख्यानविषये ऽनुः “कर्मप्रवचनीय” इति मामिति द्वितीया । स्ववृत्तिगुणाधिकगुणवत्तामप्याह पुरदरेति ॥ २।२।११ ॥
पुष्येण युक्तं चन्द्रमिव सर्वकार्यसिद्धिदक्षम् यौवराज्ये तत्पदे प्रतिर्नियोक्तास्मीति लुट् । पुङ्गवं श्रेष्ठम् ॥ २।२।१२ ॥
स वो युष्माकं राजानुरूपो योग्यः । येन राज्ञा न केवलं यूयमेव नाथवन्तः, अपि तु त्रैलोक्यमपि नाथवत्तरम् एवंप्रभावो राम इति भावः ॥ २।२।१३ ॥
श्रेयसा प्रशस्ततरेण रामेण महीं संयोक्ष्ये, राज्याभिषेकद्वारेणेत्यर्थः । एवं सति तस्मिन्सुते तत्पालनभारं निवेश्य गतक्लेशो भविष्यामि ॥ २।२।१४ ॥
म इदमभिषेकरूपं कार्यं यद्यदि मया साधु सुमन्त्रितं भवतामनुरूपार्थमनुकूलप्रयोजनावहं च तदा भवन्तो मे ममानुमन्यन्तामनुमतिं प्रयच्छन्तु । हर्षयुक्तत्वाद्वक्तुरस्मच्छब्दपौनरुक्त्यमदोषाय । इतो ऽतिरिक्तं वा कथं केन
प्रकारेण किं करवाणि तद्वदन्त्विति शेषः ॥ २।२।१५ ॥
ननु त्वदधिकः को हिताहितविचारसमर्थो ऽत आह यद्यपीति । एषा चिन्ता यद्यपि मम प्रीतिस्तद्विषया तथाप्यन्यद्धितं यद्यस्ति तदा विचिन्त्यताम् । यतो मध्यस्थानां रागद्वेषहीनानां चिन्ता तु
विचारस्तु तद्वतां चिन्तापेक्षयान्या विलक्षणा । तदेवाह– विमर्देन पूर्वापरपक्षसंघर्षेणाभ्यधिकोदयाधिकार्थप्रादुर्भाववती ॥ २।२।१६ ॥
वृष्टिमन्तं महामेघं दृष्ट्वा नर्दन्तो बर्हिण इव मुदिता नृपा नृपं प्रत्यनन्दन्प्रशंसापूर्वकमङ्गीचक्रुः ॥ २।२।१७ ॥
अनुनादः सामन्तकृतहर्षजवाक्यप्रतिध्वनिः सञ्जज्ञे सभायामिति शेषः । जनौघानामुद्घुष्टेन शब्देन सन्सम्भवन्नादः प्रतिध्वनिः पृथिवीं कम्पयन्निव सञ्जज्ञे बहिरिति शेषः । “विमानम्” इति पाठे राजस्थानमित्यर्थः ॥ २।२।१८ ॥
भावं धर्मविषयमभिप्रायम् बलं सेना तपोबलं वा चान्नृपाः ॥ २।२।१९ ॥
समतामेकरूपतां गताः प्राप्ता बुद्धयो येषां ते मन्त्रयितुं प्रवृत्ता इति शेषः । मन्त्रिणोत्तरं ज्ञात्वा पुनः पुनः पर्यालोचनेन निश्चित्य ॥ २।२।२० ॥
अनेकत्यादिपदं बहुव्रीहिः । साहस्रो स्वार्थिको ऽण् । युवराजानमिति समासान्तविधेरनित्यत्वाट्टजभावः ॥ २।२।२१ ॥
इच्छामः कृताभिषेकं द्रष्टुमिति शेषः ॥ २।२।२२ ॥
अजानन्निव तदभिषेकस्य सर्वमनःप्रियत्वं जामन्नप्यजानन्निव प्रजामुखात्स्पष्टं जिज्ञासुः ॥ २।२।२३ ॥
हे राजानः मे वचनं श्रुत्वा तन्निर्बन्धादेव केवलं रामं पतिमिच्छथ, न वस्तुत इति संशयः ॥ २।२।२४ ॥
संशयबीजमाह कथं न्विति । युवराजम् तेन युवत्वात्तत्र नानाविधाधर्माणामभिसंभव इति भावः ॥ २।२।२५ ॥
अस्मिन्नाधर्मलेशसंभावनापीत्याशयेनोत्तरयन्ति त इति । ते नृपाः कल्याणगुणाः प्रजाकल्याणजनका गुणाः ॥ २।२।२६ ॥
देवकल्पस्य देवतुल्यस्य रामस्य प्रियाञ्छत्रूणामप्यानन्दनाननिष्टनिवारणपूर्वकेष्टप्रापकत्वेनानन्दजनकान् ॥ २।२।२७ ॥
दिव्यैरमानुषैः इक्ष्वाकुभ्यस्तद्वंश्येभ्यः अतिरिक्तो ऽधिकः ॥ २।२।२८ ॥
साक्षाद्रामाद्विनिर्वृत्तः रामेणैव प्रतिष्ठापित इत्यर्थः श्रियार्थेन ॥ २।२।२९ ॥
सुखत्व इत्यादेस्तुल्य इत्यनेनान्वयः । प्रत्येकगुणेष्वेकैकस्योपमानत्वदर्शनेन रामनिष्ठगुणानामन्यत्रैकत्रवासासंभवो दर्शितः ॥ २।२।३० ॥
सन्धा प्रतिज्ञा अनसूयको ऽन्यविषयासूयारहितः सान्त्वयित्वा दुःखितानां दुःखशमयिता श्लक्ष्णः प्रियवचनः ॥ २।२।३१ ॥
मृदुः सुकरोपासनः स्थिरचित्तत्वमतिसङ्कटे ऽप्यङ्गीकृतापरित्यागः भव्यो दृश्यः अनसूयको ऽन्यनिष्ठासूयाया अविषयः । भूतानां प्राणिनाम् ॥ २।२।३२ ॥
तेनोक्तगुणसमूहेन कीर्तिः शौर्यादिजा, यशो दानादिजा प्रसिद्धिः, तेजः शौर्यम् ॥ २।२।३३ ॥
देवासुरेत्यादि निर्धारणे षष्ठी ॥ २।२।३४ ॥
गान्धर्वे संगीतशास्त्रे कल्याणानामभिजनो वासस्थानम् । अदीनः क्षोभहेतावप्यक्षुभित आत्मा चित्तं यस्य ॥ २।२।३५ ॥
अभिविनीतः शिक्षितः धर्मे ऽर्थे च नैपुणं नैपुण्यं येषां तैः । ग्रामेति लुप्तषष्ठीकं पृथक्पदम् । ग्रामस्य नगरस्य वा रक्षार्थे संग्रामं यदा व्रजतीत्यर्थः ॥ २।२।३६३८ ॥
पिता औरसान्पुत्रानिव पौरान्कुशलं पृच्छतीत्यन्वयः । शुश्रूषन्ते च वः शिष्या इति ब्राह्मणान्प्रतिप्रश्नः । वर्मसु दंशिता अवहिता भृत्या वः सेवन्त इति क्षत्रियान्प्रति प्रश्नः । कच्चिदिति प्रश्ने । क्कचित् “धर्मेषु दंशिताः” इति पाठः ॥ २।२।३९ ॥
व्यसनं दुःखम् ॥ २।२।४० ॥
यथा पुत्रसुखेन पितानन्दवान्भवति तथा प्रजासुखेन राम इति भावः ॥ २।२।४१ ॥
न विगृह्यकथारिचिर्विग्रहो वृथाकलहस्तं कृत्वा जल्पवितण्डादिकथारुचिर्यथा प्राकृतस्तथा नेत्यर्थः । “न विगर्ह्यकथारुचिः” इतिपाठे निन्द्यकथारुचिर्नेत्यर्थः ॥ २।२।४२,४३ ॥
शौर्यं युद्धे निर्भयप्रवेशसामर्थ्यम् वीर्यं स्वस्याविकार एव परस्य विकारापादनम् पराक्रमो युद्धे लघुसंचारः रागो विषयेच्छा ॥ २।२।४४,४५ ॥
कोधप्रसादसार्थक्यमेवोपपादयति हन्तीत्यादि । यत्र यस्मिन्विषये सन्तोषस्तमर्थैः पूरयतीत्यर्थः ॥ २।२।४६ ॥
दान्तौः स्वमनोदमनैः ॥ २।२।४७ ॥
मेदिनी तत्स्थो जनः ॥ २।२।४८ ॥
असौ ते वत्सो दिष्ट्यास्मद्भाग्येन श्रेयसि प्रजारक्षणरूपे समर्थो जातः । किं चासौ राघवस्तव दिष्ट्या भाग्येन मरीचिप्रजापतेः पुत्रः कश्यप इव पुत्रगुणैर्युक्तो जात इत्यर्थः ॥ २।२।४९ ॥
देवासुरादिषु राष्ट्रे पुरवरे च वर्तमानः सर्वो ऽपि जनो रामस्य बलाद्याशंसते । आभ्यन्तरः सेवकः ॥ २।२।५०।५१ ॥
रामस्यार्थे रामस्य बलादिप्रयोजनार्थे याचितमभिप्रार्थितं रामाभिषेकरूपं समृद्ध्यतां सम्पद्यताम् ॥ २।२।५२ ॥
राजोत्तमेति संबोधनम् ॥ २।२।५३ ॥
देवदेवो विष्णुस्तत्सदृशमत एव सर्वलोकहिते निविष्टमुदारैर्गुणैर्जुष्टं युक्तमुदारैर्महद्भिश्च परिगृहीतम् ॥ २।२।५४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥ २।२ ॥