००१ रामगुणवर्णनम्

तिलकटीका ।

अयोध्याख्ये तु गुर्वर्थे त्यक्त्वा राज्यं गिरौ वसन् ।

पादुके भरतायादात्स रामः शरणं मम ॥

अथ रामस्य राज्याभिषेकार्हगुणान्प्रतिपादयितुं राज्याभिषेकादि च प्रतिपादयितुमेतदारम्भः । मातुलकुलं मातुलगृहम् अनघः सोदरस्य लक्ष्मणस्य बलवद्रामाश्रयप्रयुक्तेर्ष्यारहितः नित्यशत्रवः कामादयस्तद्धन्ता नीतः अनेन विना मातुलगृहभुज्यमानसुखमसत्कल्पमिति धिया नीत इत्यर्थः । प्रीत्या भरतविषयश्नेहेन पुरस्कृतो युक्तः तेन भरतनिर्बन्धेन गमनशङ्कावारिता । किं च भरतेन प्रीत्या पुरस्कृतो ऽग्रेसरः कृतः तेन परस्परानुरागसूचनम् ॥ २।१।१ ॥

भरतस्तत्र मातुलकुले विशिष्टवस्त्राभरणभोजनादिरूपसत्कारेण सत्कृतः पुत्रस्नेहेन पुत्रादप्यधिकस्नेहेनेत्यर्थ इत्येके ॥ २।१।२ ॥

तत्रापि तादृशसत्कारवत्यपि मातुलगृहे कामतः कामैरभिमतविषयैः सार्वविभक्तिकस्तसिः । तर्प्यमाणौ अनेन सार्वदिकी विषयसुखानिवृत्तिर्बोधिता । वृद्धम् । अनेन शुश्रूषाकालात्ययेन धर्मलोपभयात्पितृस्मरणमिति सूचितम् । स्मरतामस्मरताम् । अडभाव आर्षः ॥ २।१।३ ॥

प्रोषितौ विदेशगतौ ॥ २।१।४ ॥

विनिर्वृत्ता विनिर्गताः अनेन राज्ञो विष्णुरूपकध्वनिः ॥ २।१।५ ॥

तत्रापि रामस्यात्यन्ताभिमतत्वमुत्कर्षं चाह तेषामिति । तेषामपि मध्ये पितू रामो रतिकरो बभूव । भूतानां प्राणिनां मध्ये स्वयंभूश्चतुर्मुख इव गुणवत्तरश्च बभूव ॥ २।१।६ ॥

गुणवत्तरत्वे हेतुः स हीति । उदीर्णस्य दृप्तस्य । अर्थितः प्रार्थितः जज्ञे आविर्भूतः ॥ २।१।७ ॥

देवानां वरेणेति वज्रपाणिविशेषणम् । वज्रपाणिना प्रार्थितेन देवानां वरेण वामनेनादितिरिवेत्यर्थ इत्यन्ये ॥ २।१।८ ॥

गुणवत्तर इत्युक्तगुणानेवाह स हीति । रूपं लावण्यं सौन्दर्यं च असूया गुणेषु दोषत्वाविष्करणं तद्रहितः । भूमावनुपमः उक्तगुणविषये सूनुः कौसल्याया इति शेषः । दशरथोपमत्वं वक्ष्यमाणगुणैर्बोध्यम् ॥ २।१।९ ॥

मृदुपूर्वं मृदूक्तिपूर्वम् स्वजनेन परुषमुच्यमानो ऽपि परुषमुत्तरं न प्रतिपद्यते न प्रयच्छति ॥ २।१।१० ॥

शतमनन्तम् । आत्मवत्तया स्वाधीनान्तःकरणतया ॥ २।१।११ ॥

शीलं सुचरितम् । ज्ञानमात्मानात्मविवेकज्ञानं वेदतदर्थज्ञानं च । अस्त्रयोग्यान्तरेष्वप्यस्त्रशस्त्रपरिश्रमयोग्यकालस्य यदन्तरं मध्यं तेष्वपि सज्जनैरेव

शास्त्ररहस्यं कथयन्नास्त अन्यदा तु कैमुतिकन्यायसिद्धं सज्जनैकसम्भाषणम् ॥ २।१।१२ ॥

मधुराभाषी मधुरमाभाषितुं शीलमस्य पूर्वभाषी आगतान्प्रति प्रथमभाषणेन स्वाभिमुख्यप्रदर्शकः । मधुरं शब्दतः प्रियमर्थतः । न च विस्मितो ऽप्राप्तगर्वः ॥ २।१।१३ ॥

न चानृतकथः तेन सदा सत्यवचनायोगव्यवच्छेदो बोध्यते । अनुरक्तो ऽनुरञ्जितः अन्तर्भावितण्यर्थः । अनुरज्यते ऽनुरञ्जयति तेन परस्परानुरागः ॥ २।१।१४ ॥

अनुक्रोशो दया दुःखिषु तद्वान् । दीनानुकम्पी दीनानुकम्पया तदभिलषितप्रापकः अतो न पौनरुक्त्यम् । प्रग्रहो दुष्टनिग्रह इन्द्रियनिग्रहश्च ॥ २।१।१५ ॥

कुलोचितमतिः स्वकुलेचितदयादाक्षिण्यशरणागतसंरक्षणादिधर्मैकप्रवणबुद्धिः अत एव क्षात्रं धर्मं

प्रजापालनादि बहु मन्यते । ततः क्षात्रधर्मात्प्रजापालनजन्यया शत्रुसंहारजन्यया च कीर्त्या महत्स्वर्गरूपं फलं साध्यं मन्यते यतो ऽतः क्षात्रं धर्मं बहु मन्यत इवेत्यर्थः ॥ २।१।१६ ॥

अश्रेयस्यश्रेयस्करे निषिद्धकर्मणीत्यर्थः । धर्मविरुद्धकथारुचिर्न । वादादिषु बृहस्पतिरिव स्वोक्तनिर्वाहकयुक्तिवक्ता ॥ २।१।१७ ॥

अरोग इत्यनेन सत्कर्मानुष्ठानसामर्थ्यं च वपुष्मान्विपुलांसत्वादिलक्षणवपुर्विशेषवान् देशकालविदिति तत्तत्कर्मयोग्यदेशकालज्ञाता । निग्रहानुग्रहाय पुरुषाणां धर्मिष्ठत्वाधर्मिष्ठत्वरूपसारज्ञाता स एक एव रामो लोके

साधुः सर्वगुणयुक्तो ब्रह्मणा कृतः ॥ २।१।१८ ॥

एवं श्रेष्ठगुणैर्युक्तत्वोपदेशे ऽपि दार्ढ्याय सत्यत्वप्रत्यापनाय च पुनरुपदिशति– स त्विति । श्रेष्ठगुणैरुक्तैर्वक्ष्यमाणैश्च प्राणसादृश्यकथनात्प्रजानां रामाधिकमिष्टं नास्तीति सूचितम् । गुणतो गुणैः ॥ २।१।१९ ॥

सर्वविद्येति । तत्तद्विद्यापेक्षितब्रह्मचर्यव्रतानन्तरमेव स्नातः कृतसमावर्तनः अत एव यथावदित्यादि । इषवो मन्त्रहीनाः समन्त्रास्ते ऽस्त्राणि । समाहारे द्वन्द्वः । पितुः श्रेष्ठस्तदपेक्षया श्रेष्ठः ॥ २।१।२० ॥

कल्याणानामभिजनो जन्मभूमिः अदीनः क्षोभहेतावप्यक्षुब्धान्तःकरणः सन्यवाक्कृच्छ्रे ऽपि सत्यवक्ता अभिविनीतः शिक्षितः ॥ २।१।२१ ॥

स्मृतिप्रतिभानयोर्भेदः संक्षेपे व्याकृतः । लौकिके कृतकल्पः संपादितसामर्थ्यः समयाचारे धर्मे विशारदः कुशलः ॥ २।१।२२ ॥

निभृतो विनीतः संवृताकारो गूढाभिप्रायः । “गुप्तमन्त्रः” इति पाठे फलपर्यन्तमन्याविदितमन्त्रः । “गुप्तैर्मित्रैः” इति पाठः प्रचुरः गुप्तैर्मित्रत्वेन सर्वाशतैः ।

तादृशा हि परराष्ट्रभेदादौ मुख्यसहायाः । त्यागो वित्तादेः सत्पात्रे दानम् संयमो न्यायेनार्जनं तत्समयज्ञः ॥ २।१।२३ ॥

दृढभक्तिर्गुर्वादिषु स्थिरप्रज्ञो विस्मृतिहीनः नासद्भाह्यसद्वस्तुग्रहणशीलो न, न दुर्वचः परोद्वेजकवचनहीनः निस्तन्द्रीर्नरालस्यः स्वीयानां दोषः स्वदोषः ॥ २।१।२४ ॥

कृतज्ञः परेणाल्पमपि कृतमुपकारं जानाति तथा पुरुषाणामन्तरं तारतम्यं तद्विवेचने कोविदः । यद्वा पुरुषाणामन्तरमभिप्रायस्तज्ज्ञः प्रग्रहो निग्रहः यथान्यायं यथोचित्तं कर्तुं विचक्षणः ॥ २।१।२५ ॥

उक्तमर्थमेव विवृणोति सत्संग्रहानुग्रहणे इति । संग्रहः स्वीकारस्ततो ऽनुग्रहणं सपरिवारस्य पालनम् । “प्रग्रहणे” इति पाठे ऽप्ययमेवार्थः । तत्र निग्रहस्य दुष्टनिग्रहस्य च करणे स्थानविद्देशकालज्ञः आयकर्मण्युपायज्ञः पुष्पेभ्यो मधुकर इव प्रजाभ्यः करेण धनग्रहणकर्मणि चतुर इत्यर्थः । कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः । पादभागैस्त्रिभिर्वापि व्ययः कार्यो नृपैरिह ॥ इति शास्त्रसंदृष्टव्ययकर्मज्ञः ॥ २।१।२६ ॥

व्यामिश्रकेषु प्राकृतादिभाषामिश्रितनाटकादिषु श्रैष्ठ्यं निपुणताम् । अर्थधर्मौ संगृह्य तदविरोधेन सुखतन्त्रः कामसेवीत्यर्थः । कर्तव्येष्वालस्यरहितः ॥ २।१।२७ ॥

वैहारिकाणां क्रीडाप्रयोजनानां शिल्पानां गीतवाद्यचित्रकर्मादीनां विज्ञाता अर्थविभागवित् “धर्माय यशसे ऽर्थाय आत्मने स्वजनाय च । पञ्चधा विभजन्वित्तमिहामुत्र च शोभते ॥ " इत्युक्तरीत्या तद्विभजनज्ञः । विनयो विविधगत्यानयनं शिक्षणं वा ॥

२।१।२८ ॥

अभियाता परसेनाभिमुखं याता प्रहर्ता शत्रूणाम् सेनानयश्चक्रादिव्यूहेन सेनान्यासस्तत्र

विशारदो निपुणः ॥ २।१।२९ ॥

मत्सरः परसंपद्द्वेषः ॥ २।१।३० ॥

भूतानां प्राणिनाम् । “सिद्धानाम्” इति पाठे सिद्धा देवभेदा इति कतककृत् । कालवशः कालपारतन्त्र्यं प्राकृतवत्तदनुसारी न स्वायत्तसर्वपरिकर इति यावत् ॥ २।१।३१ ॥

एवं द्विवारं गुणश्रैष्ठ्यमुपपाद्य पुनरतिदार्ढ्याय तदुपपादयति संमत इत्यादि । क्षमाप्रधानैर्गुणैर्वसुधायास्तुत्य इति परेणान्वयः ॥ २।१।३२ ॥

तथेति । कान्तैरिष्टैस्तथा पितुः प्रीतिसंजननैर्गुणैः करणैर्विरुरुच इत्यन्वयः ॥ २।१।३३ ॥

एवमभिषेकोपयोगिगुणश्रैष्ठ्यमुक्त्वा राज्ञोभिषेकेच्छां दर्शयति तमेवमिति । मेदिनी तद्देवता तद्वर्तिप्रजाश्च ॥ २।१।३४,३५ ॥

चिन्ताप्रकारमाह अथेति । मयिजीवति रामो कथं भवेत् । तादृशस्य तस्य

दर्शनजायैषात्युत्कटानिर्वचनीया प्रीतिर्मे कथं स्यादिति चिन्ता बभूवेत्यन्वयः ॥ २।१।३६ ॥

प्रीतिरभिलाषः, अभिलाषाकारमाह कदा नामेति । पूर्वपद्ये प्रीतिरानन्दः ॥ २।१।३७ ॥

पर्जन्यो मेघः ॥ २।१।३८,३९ ॥

अनेन वयसा वार्धकेन तथाभूतमात्मजं दृष्ट्वा यथा स्वर्गं यथाकालं यथायोग्यं वा स्वर्गमवाप्नुयामिति चिन्तां चक्रे इत्यनुकर्षेणान्वयः ॥ २।१।४० ॥

तैस्तैरुक्तैः । “एतैः” इति पाठे ऽप्येवमेव । शिष्टैरुक्तादन्यैश्चापरिच्छिन्नैर्लोके लोकोत्तमत्वेन प्रसिद्धैर्गुणैरुपलक्षितम् ॥ २।१।४१ ॥

तमुक्तानुक्तैः समुदितैर्गुणैर्युक्तं पुत्रं समीक्ष्य दृष्ट्वा सचिवैः सार्धं निश्चित्य तादृशगुणवत्त्वेन पुत्रस्य यौवराज्यममन्यत विचारितवान् ॥ २।१।४२ ॥

दिव्युत्पाता ग्रहनक्षत्रादिवैकृतम् अन्तरिक्षे महावातदिग्दाहादयः भूम्युत्पाता भूकम्पादयः तज्जं तत्सूचितं भयमात्मनिष्ठं मन्त्रिभ्यः सञ्चचक्ष उक्तवान् । तथा रामाभिषेककारणान्तरमात्मनः शरीरे जरां चावोचत् । अनेनोत्पातसूचितानिष्ठयोग्यताध्वननम् ॥ २।१।४३ ॥

अथात्मनः शोकापनुदं शोकहर्तृपूर्णचन्द्रमुख्यस्य महात्मनो रामस्य संप्रियत्वं राज्याभिषेकेण सर्वानन्दकरत्वं बुबुधे ज्ञातवान् ॥ २।१।४४ ॥

अत आत्मनश्च श्रेयसे प्रजानां च श्रेयसे प्रियेण च प्रजानिष्ठरामविषयप्रीतिरूपहेतुना च भक्त्या च रामपालनेन प्रजा धन्या भवन्त्विति प्रजाविषयस्नेहेन च स नृपो मन्त्रिणो रामाभिषेकाय त्वरितवान् ॥ २।१।४५ ॥

त्वरयित्वा च नानानगरवासिनस्तत्राधिकृतन्भिन्नभिन्नजनपदस्वामिनश्च मन्त्रिद्वारा समानिनाय ॥ २।१।४६ ॥

वेश्म नानाभरणैस्तद्दानैः प्रजापतिर्ब्रह्मा ॥ २।१।४७ ॥

केकयाद्यनानयने हेतुः त्वरया चेति । चस्त्वर्थे अभिषेकविषयत्वस्या त्वित्यर्थः । प्रियं रामाभिषेकम् अस्येति विचार्येति शेषः । अत्र भरतजनकयोरागमने विध्नभिया देवास्तथा बुद्धिं राज्ञे दत्तवन्त इति तात्पर्यम् ॥ २।१।४८ ॥

शेषाः केकयजनकव्यतिरिक्ता आसन्नाः ॥ २।१।४९ ॥

राजवितीर्णेषु राजदर्शितेषु नियता नियतदेशाधिपत्याः, यद्वा राजमुखमात्रनिरीक्षकाः ॥ २।१।५० ॥

मानः सत्कारः पुरालयैः राजसेवार्थं सदायोध्यास्थितैः जानपदैः स्वस्वदेशस्थैः उपोपविष्टैः

सभायां स्वसमीपोपविष्टैः । सहस्रचक्षुरिन्द्रः राज्ञो ऽपि चारैस्तथा तैरेव च सर्वप्रजाराजचित्तस्थज्ञानम् ॥ २।१।५१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे प्रथमः सर्गः ॥ २।१ ॥