रामे पशुरामे । प्रशान्तो गतक्रोध आत्मा चित्तं यस्य । हस्ते स्वहस्ते स्थितं धनुर्वरुणाय देवैः सह कौतुकदर्शनार्थमन्तरिक्षे स्थिताय ददौ । न्यासात्मनेति शेषः । वरुणस्याप्रमेयत्वं भृगवे साक्षाद्ब्रह्मविद्याप्रदत्वात् । इदं च तैत्तिरीयोपनिषदि स्पष्टम् ॥ १।७७।१ ॥
विकलम् परशुरामभयेन । धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान्प्रति ॥ १।७७।२४ ॥
हर्ष एवाधिकावस्थः प्रमोदः ॥ १।७७।५ ॥
ताम् सेनाम् । प्रथमं क्षुभितां पश्चात्प्राप्ताश्वासां चेत्यर्थः । जगाम । सेनेति शेषः । पताका ध्वजपटः । ध्वजो दण्डः । पताकायुक्तध्वजवतीम् । पताकाः क्षुद्रध्वजाः । ध्वजा महान्त इत्यन्ये । रम्याम् स्वभावतः । उद्घुष्टम् घोषः ॥ १।७७।६ ॥
सिक्तेन राजपथेन समन्ताद्रम्याम् ॥ १।७७।७,८ ॥
श्रीमद्भिर्दारपरिग्रहादधिकलक्ष्मीवद्भिः पुत्रैः । सुधालेपजधावल्यादौन्नत्याच्च हिमवत्सादृश्यं गृहे ॥ १।७७।९ ॥
कामैर्विषयभोगपरिकरस्रक्चन्दनादिभिः । सुपूजितः प्राप्तपूजो ननन्द ॥ १।७७।१० ॥
वधूनां स्नुषाणां प्रतिग्रहे मङ्गलाचरणपूर्वकं दर्शनस्पर्शने ॥ १।७७।११ ॥
मङ्गलालापनैर्मङ्गलार्थमालापनैराशीर्वादैः । उपलक्षिता इति शेषः । होमैर्गृहप्रवेशनीयहोमैः । प्राप्तशोभनाः ॥ १।७७।१२ ॥
देवतायतनानि पुरगृहदेवतायतनानि ताः सर्वा राजसुताः स्नुषाः सर्वा राजपत्न्यः प्रत्यपूजयन्प्रणामयन्ति स्म । अभिवाद्यानभिवादनार्हानभिवाद्य नमस्कार्य ॥ १।७७।१३ ॥
कृतास्राः लब्धास्त्राः । “कृताज्ञा” इति पाठे ऽनुष्ठितपित्रभियोगाः ॥ १।७७।१४ ॥
वर्तयन्ति पित्रुक्तं कुर्वन्ति । नरर्षभा रामादयः । कस्यचित्कालस्य । अत्यये इति शेषः ॥ १।७७।१५,१६ ॥
मातुलस्तवेति । अतस्तन्नगरं गत्वागच्छेति शेषः । एतद्वाक्यम् ॥ १।७७।१७ ॥
अक्लिष्टं कस्यापि दुःखं यथा न भवति तथा कर्तुं शीलमस्य तं रामम् ॥ १।७७।१८२१ ॥
प्रियाणि इहितानि । हितानि पर्यस्ते इहजनकानि पौराणाम् । परममत्यन्तं यन्त्रितः श्रुतिस्मृतिमर्यादा ऽलङ्घी ॥ १।७७।२२ ॥
गुरूणां तद्विषये परमयन्त्रितः । गुरुकार्याणि गुरुसम्बन्धिशुश्रूषादीनि । नैगमा वणिजः ॥ १।७७।२३ ॥
विषयवासिनः । प्रीता इति शेषः । तेषां चतुर्णां पुत्राणां मध्ये सत्यपराक्रमो राम एवातियशाः । भूतानां मध्ये स्वयम्भूरिव गुणवत्तरो बभूवेत्युत्तरेणान्वयः ॥ १।७७।२४ ॥
बहूनृतून् । द्वादशवर्षाणीत्यर्थ इति बहवः ॥ १।७७।२५ ॥
मनस्व्यनुकूलमनस्कः । अत एव तद्गतमना नित्यं सीतागतमनाः । तस्या हृदि समर्पितः । सम्बन्धसामान्ये षष्ठी । तयेत्यर्थः । एतेन परस्परानुरागो दर्शितः । पितृकृता ब्राह्मविवाहसदृशविवाहेन पितृदत्ताः । स विवाह एव सर्वथा श्लाघ्य इति भावः ॥ १।७७।२६ ॥
नैतावदेव, किन्तु गुणाद्धितकारित्वपातिव्रत्यादिरूपात्, रूपं सौन्दर्यं तद्रूपाद्गुणाच्च, भूयो ऽधिकं रामस्य प्रीतिर्वर्धते स्म । तस्याश्च हृदये गुणाद्रूपगुणाच्च भर्ता द्विगुणं परिवर्तते स्म ॥ १।७७।२७ ॥
तस्य रामस्यान्तर्गतं हृदयं हृदयाभिप्रायं मैथिली हृदा स्वहृदयेन भूयो ऽधिकं विशेषेण मैथिली जनकात्मजा रूपिणी श्रीरिव रूपे देवताभिः समा सीताख्याति जानाति । अतो ज्ञायते भर्ता तद्धृदयस्थ इति ॥ १।७७।२८ ॥
अभिकामया स्वविषयेच्छावत्या स्वेच्छाविषयया च समेयिवान्संयुक्तः विभुर्विभुत्वशक्तिमान् अमरेश्वरो विष्णुः श्रियेव । “तत्र द्वादशवर्षाणि राघवः सह सीतया । रमयामास धर्मात्मा नारायण इव श्रिया ॥ " इति पादम उक्तम्। एकोनषोडशवर्षस्य विश्वामित्रेण नयनात्पञ्चदशवर्षसमाप्तौ विवाह इति बोध्यम् ॥
१।७७।२९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥
॥ इति श्रीरामायणे बालकाण्डः समाप्तः ॥