०७६ जामदग्न्यपराजयः

पितुर्गौरवात्पितृसन्निधिवशात् । यन्त्रिता नियमिता कथोच्चैःकथनं येन सः ॥ १।७६।१ ॥

पितुरानृण्यं पितृहन्तृक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन्, यत्कर्म त्रिःसप्तकृत्वः क्षत्रियवधरूपं कृतवानसि तदनुरुध्यामहे ऽङ्गीकुर्मः । शूरेणावश्यं वैरशुद्धेः कर्तव्यत्वात् ॥ १।७६।२ ॥

यन्मां क्षत्रधर्मेण युक्तं वीर्यहीनमशक्तमिव मन्यमानो ऽवजानासि तन्नानुरुध्यामहे । अतो ऽद्य मे तेजः पराभिभवासहनं तन्मूलं मे पराक्रमं च पश्य ॥ १।७६।३ ॥

क्रुद्धः प्रागुक्तरूपावमानवचनेन । क्रोधादेव तद्धस्तात्स्वयमेव धनुः, चाद्भार्गवनिष्ठां वैष्णवीं शक्तिम्, जग्राह । तदुक्तं पाद्मे “इत्युक्त्वा देवि वैष्णव्या शक्त्या तद्गतया सह । जग्राह वैष्णवं चापं विनयेन च लीलया ॥ " इति। अत्राप्यग्रे वक्ष्यति “निर्वीर्यो जामदग्न्योऽसौ” इति। लघुः शीघ्रः पराक्रमो यस्य सः ॥

१।७६।४ ॥

आरोप्य ज्यारोपं कृत्वा । शरं सज्यं ज्यायुक्तं चकार ॥ १।७६।५ ॥

जमदग्निपुत्रत्वेन ब्राह्मणो ऽसीति विश्वामित्रभगिन्याः पौत्रो ऽसीति पूज्यस्त्वं मे ऽसि वधानर्हो ऽसि । अतस्ते प्राणहरं शरं मोक्तुं न शक्तः । अस्मीति शेषः ॥ १।७६।६ ॥

इमां प्रत्यक्षसिद्धां गतिं गतिसाधनं पादौ तच्छक्तिं चाकाशगमनादिरूपाम् । लोकांल्लोकप्राप्तिसाधनं धर्मम् । “त्वत्पादकमले हन्मि ब्रूहि ते ऽद्याथवा वृषम्” इति पाद्मोक्तेः । वृषो धर्मः । उभयोर्मध्ये यदिच्छसि यत्तवेष्टं तद्वदेत्यर्थः ॥ १।७६।७ ॥

कुत एवमत आह नहीति । वीर्येण स्वशक्त्या शत्रूणां बलदर्पविनाशनो मोघो व्यर्थः ॥ १।७६।८ ॥

वरायुधम् वैष्णवं धनुः । समेता मिलिताः ॥ १।७६।९ ॥

तद्द्रष्टुम् । आगता इति शेषः ॥ १।७६।१० ॥

वरधनुर्धरे रामे ऽधिकरणे तस्य भार्गवस्यालोके तेजसि सङ्क्रान्ते । सतीति शेषः । “ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपागमत् ॥ " इति नृसिंहपुराणात्, पूर्वोक्तपाद्माच्च। अत एव भार्गवे जडीकृते सति निर्वीर्यः स रामो राममुदैक्षत। उद्भूतविष्णुतेजस्कमपश्यदित्यर्थः ॥

१।७६।११ ॥

तदेव विवृणोति तेजोभिरित्यादि । रामसङ्क्रान्तैस्तेजोभिर्हेतुभिर्गतवीर्यतया जडीकृतः परशुराम उवाच । शरवध्यप्रश्नोत्तरमिति शेषः ॥ १।७६।१२ ॥

विषये देशे । एवमुक्तिश्च क्षत्रभीत्यादिनिवृत्तये ॥ १।७६।१३ ॥

गुरुवचः काश्यपवचः । निशां रात्रिं न वसे । तङार्षः । तदा यदा दत्ता यदा च न वस्तव्यमित्युक्तम् । तदाप्रभृतीति शेषः । पृथिव्यां न वसे इत्यर्थः । यतो ह प्रसिद्धं काश्यपस्याग्रे प्रतिज्ञा कृता इति शेषः । पृथिव्यां रात्रौ न वसामीत्येवंरूपा प्रतिज्ञा कृता ॥ १।७६।१४ ॥

यदेवमतः तामिमामित्यादि । तां मद्गतिमाकाशगमनसाधनौ पादौ चेन्न हनिष्यसि, तदा मनोजवं पादमास्थाय काश्यपेन समुद्रेण च दत्तं महेन्द्रं गमिष्यामि । अन्यथा प्रतिज्ञाहान्या महत्सङ्कटं स्यादिति भावः ॥ १।७६।१५ ॥

तपसा यज्ञादिरूपेण । निर्जिता अर्जिताः । अत्र पुण्यार्जितलोकहननाभ्यनुज्ञया स्वस्य तत्त्वज्ञत्वं व्यङ्ग्यम् । रामस्य लोकदानप्रतिबन्धयोः स्वातन्त्र्यदर्शनेन परेशत्वबोधनं च । पाद्मे ऽपि “शतयज्ञकृतं पुण्यं तदस्त्राय न्यवेदयत्” इति ॥ १।७६।१६ ॥

यतः “उतामृतत्वस्येशानः” इति श्रुतिप्रसिद्धं ब्रह्मैव त्वमित्याह अक्षय्यमिति । अक्षय्यमनाद्यन्तं केनापि पराजयं नेतुमशक्यं च । एवं निश्चये हेतुर्धनुष इत्यादि । अस्य वैष्णवस्येतरदुरारोपस्य । परामर्शो ग्रहणाकर्षणादि ॥ १।७६।१७ ॥

अप्रतिद्वन्द्वम् प्रतिभटरहितम् ॥ १।७६।१८ ॥

इयं त्वद्विषये ऽशक्तिर्वीडा व्रीडार्हा । तत्र हेतुस्त्वयेत्यादि । विमुखीकृतः स्वशक्तेः स्वस्मिन्योजनेनाशक्तः कृतः । एतेन स्वस्य भगवदंशत्वं रामस्य च पूर्णभगवदवतारत्वं सूचितम् । स्वातिरिक्तेन विमुखीकरणे हि व्रीडा न तु स्वात्मना मायया तथाकरणे इति भावः । एतद्व्यवहारप्रयोजनं च दयया दशरथादीन्प्रति स्वरूपबोधनं रामस्य पूर्णतेजोवत्त्वसम्पादनं चेति भाति । वैष्णवतेजसों ऽशेनान्यत्र सत्त्वे रावणवधस्य दुष्करत्वात् । एतदर्थमेव रावणवधेच्छुदेवगन्धर्वादीनां द्रष्टुमागमनं पूर्वमुक्तम् ॥ १।७६।१९ ॥

शरमोक्षे गमिष्यामि । पापस्य तपसा दग्धत्वात्पुण्यस्य च शरमोक्षेण फलप्रतिबन्धे जीवन्मुक्तो भूत्वा गमिष्यामीत्यर्थः । अनेन लोकावरोधः स्वेष्ट एवेति दर्शितम् ॥ १।७६।२०,२१ ॥

दृश्य दृष्ट्वा ॥ १।७६।२२,२३ ॥

रामो दाशरथिना ब्राह्मणत्वात्पूजितो नमस्कृतश्च । “प्रशस्य ह” इति पाठान्तरम् । दाशरथिं प्रदक्षिणीकृत्य । अन्तर्यामित्वेन ज्ञानात्प्रदक्षिणकरणं च क्षत्रियत्वाच्च तस्य प्रणत्यकरणं कायेनेति बोध्यम् । आत्मगतिम् तत्त्वज्ञानम् । स्वस्थानं जगामेत्यर्थः । प्रभुरिति । ब्रह्मत्वेन सर्वलोकप्रभुत्वम् ॥ १।७६।२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥