किमभाषतेत्यत्राह रामेति । निखिलेन कार्त्स्न्येन । चेन ताटकावधादिसमुच्चयः ॥ १।७५।१ ॥
यत्त्वया तथानायासेन धनुषो भेदनं कृतं तदद्भुतमचिन्त्यं चान्येन मनसाप्यशक्यम् । अतस्तच्छ्रुत्वेत्यादि । गृह्य गृहीत्वा ॥ १।७५।२ ॥
जामदग्न्यम् जमदग्नेः स्वपितुरागतम् । अत्रार्थे ष्यञ् आर्षः । शरेण युक्तं पूरयस्वैवाकर्षयस्व ॥ १।७५।३ ॥
अस्यापि धनुषः पूरणे सति । वीर्यश्लाध्यं वीर्यवच्छ्लाध्यं च । वीर्येण तद्वत्तया श्लाध्यमित्यन्ये ॥ १।७५।४ ॥
तद्वचनम् द्वन्द्वयुद्धवचनम् ॥ १।७५।५ ॥
क्षत्ररोषात्तज्जक्षत्रवधात् ॥ १।७५।६ ॥
सहस्राक्षे तत्सन्निधौ । प्रतिज्ञायातः परं शस्त्रं न ग्रहीष्यामीत्येवम् । प्रक्षेपस्त्यागः ॥ १।७५।७ ॥
तपसे महेन्द्रकृतकेतनत्वम् ॥ १।७५।८ ॥
त्वं तथा त्यक्तशस्त्रादिर्मम सर्वविनाशाय कुतः सम्प्राप्त इत्यन्वयः । सर्वनाशमेवोपपादयति न चेत्यादि ॥ १।७५।९,१० ॥
इमे वक्ष्यमाणलक्षणे । यत्त्वया भग्नं यच्च मया धृतं ते इत्यर्थः । बलवती बलवन्नाम्ये । सुकृते यत्ननिर्मिते ॥ १।७५।११ ॥
युयुत्सवे । त्रिपुरवासिभिरिति शेषः । त्रिपुरघ्नम् तद्धननसाधनम् ॥ १।७५।१२ ॥
वैष्णवम् विष्णवे दत्तम् । तदिदं वैष्णवम् वैष्णवत्वेन प्रसिद्धम् ॥ १।७५।१३ ॥
रौद्रेण शैवेन । शैवस्येदानीमसारत्वमाह तदा त्विति ॥ १।७५।१४ ॥
विष्णोस्त्रिपुरसंहारे शरत्वेन रुद्रपरिकरान्तर्भावश्रवणात् । अयं रुद्राद्दुर्बल उत सम इत्येवं शितिकण्ठविष्ण्वोर्बलाबलज्ञानाय देवताः पितामहं पृच्छन्ति स्म । स च पितामहस्तेषां देवानामुक्तमभिप्रायं विज्ञाय ॥ १।७५।१५ ॥
सत्यवतां वरः सत्यसङ्कल्पः । स्वसङ्कल्पेन देवानां मोहं निरसितुमेकात्मनोरपि रुद्रविष्ण्वोर्विरोधं जनयामास । तावपि तत्सङ्कल्पसिद्ध्यर्थमेव विरोधं चक्रतुः । इदं युद्धं दक्षयज्ञवधे बोध्यम् । अतः पूर्वेण न विरोधः ॥ १।७५।१६ ॥
तदा हुङ्कारेण विष्णुना शैवं धनुर्विजृम्भितं शिथिलीकृतं महादेवश्च स्तम्भितः ॥ १।७५।१७,१८ ॥
याचिताविति । एतावत्यर्थे दृष्ट्वा प्राप्तनिश्चयैर्देवैर्युद्धादुपरतिं याचितौ । देवतानुग्रहाय प्रशमं जग्मतुः ॥ १।७५।१९ ॥
विष्णुमधिकं श्रेष्ठं सेव्यत्वेन मेनिरे ज्ञातवन्तः । वस्तुतस्तु प्रकृतयुद्धे विष्णोराधिक्यदर्शनात्ित्रपुरवधे शिवस्याधिक्यदर्शनात्तयोः साम्यग्रहणमिति तात्पर्यम् । अधिकमित्यस्य स्वीयपूर्वज्ञानविषयस्वरूपापेक्षयाधिकमित्यर्थः । धनू रुद्रस्त्विति । एवं युद्धदशायां क्रुद्धः पश्चाद्देवप्रार्थनया प्रसन्नः शिवो देवेभ्यो दत्त्वा ततः सर्वैर्देवैः सह युद्धार्थं धनुरिच्छतो देवरातस्य ददौ । अत एव वरुणेन दत्तमिति वक्ष्यमाणेन रुद्रेण देवानां दत्तमित्युक्तग्रन्थेन च न विरोध इत्याहुः ॥ १।७५।२० ॥
एवं च शैवस्य धनुषस्तदारभ्य शिथिलत्वेन तद्भङ्गकृतं न ते वीर्याधिक्यमिति भार्गवाभिप्रायः । अथ स्वधनुष आगममाह इदं चेत्यादि । परपुरञ्जयमित्यार्षमसञ्ज्ञायाम् ॥ १।७५।२१ ॥
भार्गवे भृगुपुत्रे । स उक्तरूपो विष्णुः । न्यासं प्रादात् । अप्रतिकर्मणः स्वहन्तर्यपि शापादिप्रतिक्रियारहितस्य ॥ १।७५।२२ ॥
न्यस्तशस्त्रे न्यस्तं त्यक्तं विष्णुधनूरूपं शस्त्रं येन तथाभूते । तपोबलयुते ऽपि पितरि प्राकृतां बुद्धिमास्थितो ऽर्जुनः कार्तवीर्यो मत्पितुर्मृत्युं विदधे ॥ १।७५।२३ ॥
तमयोग्यं पितुर्वधं श्रुत्वाहं रोषात्क्षत्रमुत्सादयमुत्सादितवान् । अडभाव आर्षः ॥ १।७५।२४ ॥
प्राप्य । स्वबलेनेति शेषः । पुण्यकर्मणे यज्ञरूपपुण्यसाद्गुण्यार्थम् ॥ १।७५।२५ ॥
दत्त्वा । भूमिमिति शेषः । महेन्द्रो महेन्द्रपर्वतः । धनुषः शैवस्य ॥ १।७५।२६ ॥
पितृपैतामहम् पितृपितामहक्रमादागतम् । उत्तरपदवृद्धिरार्षी । क्षत्रधर्मं मद्वर्तिनम् मया पूर्वमङ्गीकृतं क्षत्रधर्मम् । न तु ब्राह्मणधर्ममाश्रित्य त्यजेत्यर्थः । ब्राह्मणवच्छान्तिमास्थाय नाहं शक्त इति मा ब्रूहीत्यर्थ इति कतकः ॥ १।७५।२७ ॥
शक्तो ऽसि । शरयोजने इति शेषः । तावतापि न त्वां त्यक्ष्यामि, अपि तु द्वन्द्वं दास्यामीत्यर्थः, अन्यथा मां शरणं व्रजेति तात्पर्यम् ॥ १।७५।२८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥