०७४ परशुरामागमनम्

आपृष्ट्वापृच्छ्य । तौ दशरथजनकौ । उत्तरपर्वतम् कौशिकीतटावच्छिन्नम् ॥ १।७४।१ ॥

जगाम गन्तुमुद्यतो ऽभूत् ॥ १।७४।२ ॥

कन्याधनम् विवाहकाले कन्यायै देयं धनं यौतकाख्यम् । तस्यैव प्रपञ्चो गवामित्यादि ॥ १।७४।३ ॥

मुख्यानां कम्बलानां नेपालादिभवानां कम्बलानां बहूनीति सम्बन्धः । क्षौमान्बहूनिति विपरिणामः । कोट्यम्बराणि कोटिसङ्ख्यानि सामान्यवासांसि ॥ १।७४।४ ॥

कन्याशतम् सस्वीत्वेन । तासाम् राजकुमारीणाम् । प्रत्येकमिति शेषः । दासीदासमिति गवाश्वादित्वादेकत्वम् । हिरण्यम् रजतम् । सुवर्णम् हेम । षष्ठ्यन्तानां कोटिपदाध्याहारेणान्वयः ॥ १।७४।५ ॥

पार्थिवम् दशरथम् ॥ १।७४।६,७ ॥

बलैश्चतुरङ्गैरनुगैः किङ्करैश्च सहितस्तथा गच्छन्तम् । दशरथमिति शेषः ॥ १।७४।८ ॥

पक्षिणः करटादयः । तत्र पक्षिणां घोरव्याहरणमादौ दुर्निमित्तं ततो मृगप्रदक्षिणगमनं सुनिमित्तम् ॥ १।७४।९ ॥

तान् शुभाशुभसूचकोत्पातान् । असौम्याः पक्षिणो घोराः । घोरशब्दा इत्यर्थः ॥ १।७४।१० ॥

इदं हृदयकम्पजनकम् । किमिदम् दुःखोदर्कं सुखोदर्कं वेति प्रश्नः । अनिश्चयान्मे मनो विषीदति ॥ १।७४।११ ॥

दिवि खे भवम् दिव्यम् । पक्षिमुखाच्च्युतं वचनम् । घोरं भयमुपस्थितम् प्राप्तम् । आशु वेदयतीति शेषः ॥ १।७४।१२ ॥

प्रशमयन्ति । प्रशमं सूचयन्तीत्यर्थः । तेषां संवदतामित्यस्य पुर इति शेषः ॥ १।७४।१३ ॥

तमो भस्म चोभयमप्युत्पातजम् ॥ १।७४।१४,१५ ॥

ससञ्ज्ञा इव । ईषत्सञ्ज्ञा इत्यर्थः । अन्यत्तु बलं निःसञ्ज्ञमेव । भस्मच्छन्नेव । अभूदिति शेषः ॥ १।७४।१६ ॥

भीमसङ्काशम् भयङ्करदर्शनम् ॥ १।७४।१७ ॥

कैलासमिवेत्यनेन महाकारत्वम् । दुर्धर्षमशक्यातिक्रमम् । पृथग्जनः पामरजनः ॥ १।७४।१८ ॥

प्रभातिशयेन विद्युद्गणोपमम् । धनुरुग्रं शरं च प्रगृह्य त्रिपुरघ्नं शिवमिव स्थितमित्यर्थः ॥ १।७४।१९ ॥

जपहोमपरायणाः । आसन्निति शेषः । यद्यपि होमो ऽग्न्यधिकरणस्तदा पथि चलनसमये बाधितस्तथाप्यपाने जुह्वति प्राणमित्यादिर्बोध्य इति केचित् । परे तु जपहोमपरायणत्वमुपलक्षणम् । अत एवाग्रे सञ्जजल्पुरिति सङ्गच्छते अन्यथा तादृशहोमादिपरायणानां जल्पासम्भवादित्याहुः ॥ १।७४।२० ॥

ऋषीणां परस्परं जल्पमाह कच्चिदित्यादि । श्लोकद्वये ऽपि नशब्दो ननु शब्दैकदेशो नन्वित्यर्थको वितर्के ॥ १।७४।२१२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥