समुपेयिवान् । दशरथमिति शेषः ॥ १।७३।१,२ ॥
केकयाधिपतिर्युधाजित्पिता कुशलमब्रवीदिति । युष्मान्प्रतीति शेषः । येषामस्माकं त्वं कुशलकामो ऽसि तेषामस्माकं सम्प्रत्यनामयमिति चाब्रवीत् ॥ १।७३।३ ॥
आगमनप्रयोजनमाह स्वस्रीयमिति । स्वस्रीयम् भरतम् ॥ १।७३।४,५ ॥
अयोध्यायामदृष्ट्वा भरतं द्रष्टुकाम इहाभ्युपयात इत्यन्वयः ॥ १।७३।६,७ ॥
यज्ञवाटम् यज्ञशालाद्वारम् ॥ १।७३।८ ॥
युक्ते इत्यादि सार्धश्लोकस्योपागमदिति पूर्वेणान्वयः । युक्ते शुभलग्नादियुक्ते । विजये तदाख्ये ॥ १।७३।९ ॥
एत्य यज्ञवाटान्तर्वर्तिनं वैदेहम् ॥ १।७३।१० ॥
दातारं दातुस्तवाज्ञां प्रवेष्टुमाकाङ्क्षते ॥ १।७३।११ ॥
दातृप्रतिग्रहीतृभ्याम् । योगे इति शेषः । सर्वार्था दानधर्माः । हि यतो ऽतः । उत्तमं वैवाह्यम् । आर्षः ष्यञ् । विवाहोपयोगिलौकिकालौकिकं कर्म कृत्वा ततः स्वधर्मं प्रवेशाज्ञादानरूपं प्रतिपद्यस्व । तावद्द्वार्येव तिष्ठाम इति भावः ॥ १।७३।१२ ॥
परमोदारः परमदाता ॥ १।७३।१३ ॥
प्रतिहारो द्वारपालः । येन राजागमनं प्रतिबध्यते इति शेषः । यथेदं मम राज्यं तथा तव । तत्र स्वगृहे प्रवेशे को विचार इत्यर्थः ॥ १।७३।१४ ॥
अपि च कृतस्वकर्तव्येन मयैव युष्मत्प्रतीक्षा क्रियत इत्याह कृतेति । कृतं कौतुकसर्वस्वं वैवाहिककृत्स्नमङ्गलानुष्ठानं यासां ताः । वेदिमूलम् वेदिसमीपम् ॥ १।७३।१५ ॥
सद्यो ऽस्मिन्काले । त्वां प्रतीक्षत इति त्वत्प्रतीक्षः । अविघ्नमविलम्बं यथा तथा सर्वं विवाहकर्म भवता क्रियताम् । किमर्थं द्वार्यवस्थानेन विलम्ब्यते । भवतेति शेषः ॥ १।७३।१६ ॥
श्रुत्वा वसिष्ठमुखात् ॥ १।७३।१७ ॥
सर्वां वैवाहिकीमित्युत्तरेणान्वयः ॥ १।७३।१८ ॥
लोकरामस्य । लोकप्रियस्येति यावत् ॥ १।७३।१९ ॥
प्रपामध्ये यज्ञशालामध्ये इति कतकः । प्रपा मण्डप इत्यन्ये । तृष्णाशामकत्वेन प्रपात्वारोपः । वेदिम् विवाहवेदिम् । इयं वेदिरग्न्यर्था ॥ १।७३।२० ॥
सुवर्णपालिकाभिः । साङ्कुराभिरित्यनुकर्षः । चित्रकुम्भैर्नानावर्णादियुतकुम्भैः “अच्छिद्रकुम्भैः” इति पाठे स्फुटनादिदोषरहितैः स्वर्णकुम्भैरित्यर्थ इति कतकः । अच्छिद्रकुम्भैः करकैरिति तीर्थः ॥ १।७३।२१ ॥
अर्घ्यादिपूजितैस्तद्युक्तैः ॥ १।७३।२२ ॥
लाजपूर्णैश्च पात्रीभिरित्यार्षम् । संस्कृतैर्हरिद्रालेपादिसंस्कारवद्भिः । समैः समप्रमाणैः । समास्तीर्य । वेदिमिति शेषः ॥ १।७३।२३ ॥
विधिना कल्पोक्ततन्त्रकलापेन मन्त्रैश्च पुरस्कृतम् । हविरिति शेषः । विवाहहोमादीनां वरकृत्यत्वात्तत्पुरोहितो वसिष्ठो जुहाव ॥ १।७३।२४ ॥
अग्नेः समक्षं राघवाभिमुखदेशे संस्थाप्येत्यन्वयः ॥ १।७३।२५ ॥
इयं त्वद्भुजवीर्यनिर्जिता मम सुतेत्याभिजात्यसूचनम् । सहधर्मचरी । अनेन यत्कर्तव्यं तदनया सहेति स्मारितम् ॥ १।७३।२६ ॥
प्रतीच्छ प्रतिगृहाण । तदुपयोगित्वेन पाणिना पाणिं गृह्णीष्व । पाणिगृहीती हि सर्वथानतिक्रमणीयेत्येवमुक्तम् । छायेवानुगता भविष्यतीत्यन्वयः ॥ १।७३।२७ ॥
मन्त्रपूतं कन्यादानमन्त्रेण पूतं जलं प्राक्षिपत् । रामहस्ते इति शेषः । वदताम् । शब्द आसीदिति शेषः ॥ १।७३।२८ ॥
दानीयमन्त्रोदकाभ्यां पुरस्कृताम् ॥ १।७३।२९ ॥
उद्यताम् दातुं कृतनिश्चयाम् ॥ १।७३।३० ॥
प्रतीच्छेत्यादि प्राग्व्याख्यातम् । ज्येष्ठाद्भरतात्पूर्वं लक्ष्मणपाणिग्रहस्तु भिन्नोदरत्वान्न दोषाय ॥ १।७३।३१,३२ ॥
सुचरितं व्रतं ब्रह्मचर्यादि यैः ॥ १।७३।३३ ॥
पत्नीभिः सहिताः सन्तु । भवन्तु इत्यप्थर्यः ॥ १।७३।३४ ॥
वेदिम् विवाहवेदिम् । राजानम् जनकम् ॥ १।७३।३५ ॥
ऋषींश्चापि । प्रदक्षिणं कृत्वेति शेषः । यथोक्तेन शास्त्रोक्तेन प्रकारेण । विवाहं तत्कृत्यशेषः होमादि ॥ १।७३।३६,३७ ॥
तदद्भुतं दुन्दुभिनिर्घोषादिसहितपुष्पवृष्ट्यादि ॥ १।७३।३८ ॥
तूर्याणां यदुद्घुष्टं घोषस्तन्निनादिते काले । त्रिरग्निमित्युपसंहारेण पुनर्वादः ॥ १।७३।३९ ॥
उपकार्यम् शिबिरम् । पश्यन्वधूवरसम्बन्धकल्याणम् ॥ १।७३।४० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥