वीरम् जनकम् ॥ १।७२।१ ॥
एषां तुल्यः परस्परव्यतिरेकेणापरो नास्ति ॥ १।७२।२ ॥
धर्मसम्बन्धो युवयोर्विवाहसम्बन्धः सदृशो ऽनुरूपः । किं च ऊर्मिलया सह वर्तमाना या सीता तस्या यथायोग्ययो रामलक्ष्मणयोर्यः सम्बन्धः स्वरूपसम्पदा सदृशः । “सीतयोर्मिलया” इति पाठस्तु सुगम एव ॥ १।७२।३ ॥
किञ्चिदन्यद्वक्तव्यमस्ति तच्छ्रूयतामित्यन्वयः ॥ १।७२।४,५ ॥
कयोः पत्नीत्वार्थं तत्राह भरतस्येत्यादि । आद्यार्धं पूर्वान्वयि । तथा ते सुते सीतोर्मिले । तयोरर्थे रामलक्ष्मणयोरर्थे ॥ १।७२।६ ॥
दशरथपुत्रेषु न कस्मिन्नपि वरगुणन्यूनतेत्याह पुत्रा इति ॥ १।७२।७ ॥
उभयोर्भ्रात्रोः सम्बन्धेनेक्ष्वाकुकुलं सम्बध्यताम् । तत्र च सम्बन्धे पुण्यकर्मणो भवतो ऽव्यग्रं चित्तं भवत्विति शेषः । कथमीदृशेन महाराजेन युगपन्मया सम्बन्धचतुष्टयं कार्यमिति व्यग्रता मास्त्वित्यर्थः ॥ १।७२।८,९ ॥
स्वयम्, न तु शिष्यादिमुखतः, यद्यस्मादाज्ञापयतस्तस्मादिदं कुलं धन्यं मन्ये ॥ १।७२।१० ॥
सहितौ नित्यसहचरौ । अत्र क्रमे न तात्पर्यम् ॥ १।७२।११ ॥
एकाह्नेति टजभावो ऽनित्याः समासान्ता इति । सप्तम्यर्थे तृतीया । एकदिवसे इत्यर्थः । चतसृ़णामिति दीर्घत्वमार्षम् ॥ १।७२।१२ ॥
फल्गुनीभ्यामुत्तरफल्गुनीभ्यामुपलक्षिते उत्तरे दिवसे द्वितीये दिवसे । प्रजापतिर्देवता । प्राशस्त्यं च विवाह[प्रयोजन]प्रजोत्पत्तिसाधनयोनिलिङ्गाधिष्ठातृभगदैवत्यत्वेनेति कतकः ॥ १।७२।१३ ॥
प्रत्युत्थायासनादुत्थाय ॥ १।७२।१४ ॥
परो धर्मः कन्यादानरूपः । अहं भवतोः शिष्यो ऽस्मि । तथा यथा दशरथश्च युवयोः शिष्यः । स्वस्य शिष्यत्वे कनीयसः कुशध्वजस्य शिष्यत्वमर्थसिद्धम् । आसनमुख्यानि त्रयाणां त्रीणि सिंहासनानि । आस्यतामित्यार्षं परिपालयेतामित्यर्थकम् । राज्यत्रयमपि युष्मदीयमित्यर्थः ॥ १।७२।१५ ॥
ननु दशरथसिंहासनं कथं त्वया शक्यदानमत आह यथेति । यथेयं मिथिला दशरथस्य यथेष्टविनियोगार्हा, एवमयोध्यापुरी मम । अतो युष्माकं त्रिसिंहासनप्रभुत्वे नास्ति सन्देहः । अतो यथायोग्यं प्रभुत्वं कर्तुमर्हथ । पूजायां बहुवचनम् । वयं सर्वे भवदधीना इत्याशयः ॥ १।७२।१६ ॥
हृष्टः । एवमैक्यवादेनेति शेषः ॥ १।७२।१७ ॥
ऋषिरूपा भवद्वंश्या राजसङ्घास्ते भवद्भ्यामभिपूजिता अनेन विनयेन सर्वोत्कर्षं प्रापिताः । भवद्वंशे एवैवं विनीतो नायमपूर्वो ऽर्थस्त्वयीति भावः ॥ १।७२।१८ ॥
क्षत्रियत्वे ऽपि प्रतिग्रहीतृत्वाद्दातरि जनके आशीः स्वस्तीत्यादि ॥ १।७२।१९ ॥
आपृष्ट्वापृच्छ्य ॥ १।७२।२० ॥
प्रभात उत्थाय काल्यं प्रातःकालकर्तव्यं गोदानाख्यं कर्म चक्रे ॥ १।७२।२१ ॥
तदङ्गत्वेन प्रसिद्धगोदानमाह गवामित्यादि । एकैकश इत्यार्षम् ॥ १।७२।२२ ॥
सम्पन्ना बहुदुग्धाः । ईदृश्यो या गावस्तासां गवां चत्वारि लक्षाणि ददावित्युत्तरेणान्वयः ॥ १।७२।२३ ॥
गोदानम् तदाख्यं कर्मविशेषम् । “गोदानं चौलवत्कार्यं षोडशे ऽब्दे तदुच्यते । अङ्कोपवेशनं नास्ति श्मश्रूणां मुण्डनं भवेत् ॥ स्नात्वा च वाग्यतस्तिष्ठन्नहःशेषं नयेदथ । आदित्ये ऽस्तमिते वाचं विसृजेतान्तिके गुरोः ॥ अहं वरं ददामीति दद्याद्गोमिथुनं ततः ॥ " इत्याश्वलायनकारिकायाम्। इदं समावर्तनपूर्वाङ्गम्। “वेदव्रतानि वा पारं नीत्वा ह्युभयमेव वा। गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ॥
" इति याज्ञवल्क्यात् ॥ १।७२।२४ ॥
सौम्यः । सोम इव सोम्यः । सोम्य एव सौम्यः ॥ १।७२।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्विसप्ततिमः सर्गः ॥ ७२ ॥