अथ जनकः कन्यापितृत्वाज्जामातृवर्गे प्रभुताया अनौचित्येन स्ववंशं स्वयमेवाह एवमिति । ब्रुवाणम् वसिष्ठम् । अस्माभिः परिकीर्तितं नो ऽस्माकं कुलं श्रोतुमर्हसि ॥ १।७१।१ ॥
कुलजातेन सत्कुलप्रसूतेन प्रदाने कन्यादानविषये कुलं वक्तव्यमित्यन्वयः ॥ १।७१।२,३ ॥
तस्य निमेः । मिथिनाम्ना च मिथिलेति । प्रथमो जनकः सर्वेषामस्माकं जनकशब्दव्यवहारार्थत्वे मूलभूतः ॥ १।७१।४ ॥
नाम प्रसिद्धम् । नामतः सुकेतुरित्यर्थः ॥ १।७१।५१२ ॥
तस्य ह्रस्वरोम्णः । ज्येष्ठो ऽहम् । ममानुजः कुशध्वजः ॥ १।७१।१३ ॥
स मम पिता मां ज्येष्ठं तु राज्ये ऽभिषिच्य कुशध्वजं भारं भरणीयम्, यद्वा कुशध्वजं भारं राज्यभारं च मयि समावेश्य स्थापयित्वा वनं गत इत्यन्वयः ॥ १।७१।१४ ॥
धुरम् राज्यभारम् । स्नेहात्पश्यन्पालयन् ॥ १।७१।१५ ॥
साङ्काश्यमिति सुधन्वनगरनाम । अवरोधको ऽगमत् । अवरोद्धुमागतवानित्यर्थः ॥ १।७१।१६ ॥
शैवं धनुः सीता च कन्या मह्यं दीयतामिति दूतान्प्रेषयामास मे इत्यन्वयः ॥ १।७१।१७ ॥
तस्योक्तवस्तुद्वयस्य । विमुखो युद्धविमुखः ॥ १।७१।१८ ॥
साङ्काश्ये सुधन्वनगरे ॥ १।७१।१९,२० ॥
ऊर्मिलाम् योनिजाम् निजपुत्रीम् ॥ १।७१।२१ ॥
त्रिर्वदामि उक्तमपि दार्ढ्यायेत्याशयः ॥ १।७१।२२ ॥
गोदानम् समावर्तनम् । वैवाहिकम् विवाहादौ कर्तव्यम् । पितृकार्यम् नान्दीमुखश्राद्धम् ॥ १।७१।२३ ॥
अद्य तृतीयदिवसे तव मिथिलाप्रवेशात्तृतीयदिवसे यज्ञसमाप्तेस्तृतीयदिवसे वाद्य मघानक्षत्रम् । फल्युन्याम् पूर्वफल्गुनीनक्षत्रे । उत्तरे श्रेष्ठे । अत एव “भगो यत्र प्रजापतिः” इत्यनेनाविरोधः । भगो हि पूर्वफल्गुनीदेवः, उत्तरफल्गुन्यास्त्वर्यमेति बोध्यम् । वैवाहिकम् विवाहम् । विनयादित्वाट्ठक् । “मघानक्षत्रं पितरो देवताः, फल्गुनीनक्षत्रमर्यमा देवता, फल्गुनीनक्षत्रं भगो देवता” इति तैत्तिरीयसंहितायाम् । “अर्यम्णः पूर्वे फल्गुनी भगस्योत्तरे” इति तद्ब्राह्मणे चोक्तत्वेन यथाश्रुतमेव सम्यगिति तत्त्वम् । उत्तरे इति पुंस्त्वमार्षम् । यद्यप्युत्तराफल्गुनी सीताया जन्मर्क्षं तथापि तदृक्षे प्रथमचरणं विहाय तज्जन्मसत्त्वेन तस्याः कन्याराशित्वात्तृतीयैकादशरूपभकूटशुद्धेस्तस्य न दोषः । भकूटशुद्धौ तन्न दुष्टमिति ज्योतिःशास्त्रे प्रसिद्धम् । किञ्च पूर्वासु तस्या द्वादशश्चन्द्र इति तत्र विवाहो ऽनुचित एव । एकनाडीदोषेण च रामसीतयोर्वियोग इति ध्येयम् । रामलक्ष्मणयोरर्थे तदभ्युदयाय । सुखोदयम् सुखोदर्कम् । दानं गोभूतिलहिरण्यादेर्दानं कार्यम् त्वयेति शेषः ॥ १।७१।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्ड एकसप्ततितमः सर्गः ॥ ७१ ॥