०७० दशरथवंशकथनम्

अथ ब्राह्मसम्बन्धसदृशे यौनसम्बन्धे वध्वपेक्षितः परस्परकुलाचारः सर्गाभ्याम् तत इति । कृतकर्मा कृतनित्यक्रियः ॥ १।७०।१ ॥

पुरीमध्यवसत् “उपान्वध्याङ्” इति कर्मत्वम् ॥ १।७०।२ ॥

परबलवारयितुमर्हो वार्यः प्राकारस्तत्स्था आफलका यन्त्रफलकास्तद्युक्तः पर्यन्तः परिसरो यस्याः सा तथा । इक्षुमतीं पिबंस्तज्जलं पिबन् । साङ्काश्याम् तदाख्यां नगरीम् । “वार्यामलकपर्यन्ताम्” इति पाठे वार्यामलका आमलकविशेषाः पर्यन्तेषु यस्या इत्यर्थः । पुण्यसङ्काशां पुण्यशब्देन तत्फलं स्वर्गस्तत्सङ्काशाम् । तदुपमामित्यर्थः । पुष्पकं विमानं कौबेरं प्रसिद्धम् ॥ १।७०।३ ॥

तमुक्तपुरवासिनम् । यज्ञगोप्ता मिथिलायां क्रियमाणयज्ञस्य साङ्काश्यायामेव स्थित्वास्मद्यज्ञापेक्षितसामग्रीसम्पादकत्वेन रक्षिता । इमां प्रीतिम् जानकीपरिणयजाम् ॥ १।७०।४ ॥

अव्यग्राः समर्थाः । समादिशच्छतानन्देन गन्तुं प्रैरयत् ॥ १।७०।५ ॥

नरेन्द्रशासनाच्छतानन्दप्रेरिताः प्रययुः । दूता इति शेषः ॥ १।७०।६,७ ॥

नृपतिः कुशध्वजः ॥ १।७०।८ ॥

पूर्वं शतानन्दमभिवाद्य ततो जनकं चाभिवाद्येत्यर्थः ॥ १।७०।९ ॥

अध्यरोहत । पुरोहितजनकयोरनुमत्येति शेषः ॥ १।७०।१० ॥

सुदामनम् सुदामनाख्यम् ॥ १।७०।११ ॥

औपकार्याम् । उपकार्याशब्दात्स्वार्थे ऽण् । दशरथशिबिरसन्निवेशमित्यर्थः ॥ १।७०।१२१५ ॥

इदं वाक्यम् वक्ष्यमाणम् । वसिष्ठमुखेन कन्यां वरयितुम् । इक्ष्वाकुकुलदैवतम् भगवान्वसिष्ठः । इक्ष्वकूणां सर्वेषु कृत्येषु वक्तेति ते विदितमित्यन्वयः । अतो विश्वमित्राभ्यनुज्ञया ऋषिभिः सह कुलप्रभवधर्मक्रममनतिक्रम्य क्रमं ज्येष्ठानुक्रमं चानतिक्रम्य दशपूरुषविख्यातादिति न्यायेन यौनसम्बन्धापेक्षितवंशपारम्पर्यमेव वक्ष्यति ॥ १।७०।१६१८ ॥

अव्यक्तशब्देन मायाशबलं ब्रह्म । ब्रह्मा चतुर्मुखः । शाश्वतत्वनित्यत्वाव्ययत्वान्यस्यापेक्षिकाणि द्रष्टव्यानि ॥ १।७०।१९,२० ॥

मनोः प्रजापित्वं प्रजासर्गाधिकारित्वेन । पूर्वकमाद्यम् ॥ १।७०।२१२७ ॥

यस्यासितस्य । प्रतिराजानः शत्रुभूता राजानः ॥ १।७०।२८ ॥

सो ऽसितः प्रतियुध्यन्प्रतिपक्षतया युध्यन् । प्रवासितो राज्यान्निःसारितः ॥ १।७०।२९ ॥

इति श्रुतिः । पुरातनकथा इत्यर्थः ॥ १।७०।३० ॥

सगरम् गरसहितं भक्ष्यम् । शैलवरे हिमवत्यभिरतो बभूव ॥ १।७०।३१ ॥

तत्र हिमवति । एका प्राशितगरा ॥ १।७०।३२ ॥

कालिन्दी तस्या नाम । अभ्युपागम्य शरणं गत्वाभ्यवादयच्च । चेन शुश्रूषणमप्यकरोत् ॥ १।७०।३३ ॥

पुत्रजन्मनि तद्विषये ऽभ्यवददुक्तवान् ॥ १।७०।३४ ॥

गरेण सहितो जनिष्यतीत्यन्वयः । मा शुचः पतिमरणजं गरदानजं च शोकं त्यज । पुत्रेणैव सुखिनी भविष्यसीति भावः ॥ १।७०।३५ ॥

“पतिना रहिता” इति पाठे नाभाव आर्षः । तस्माच्च्यवनप्रसादात् । व्यजायतासूत ॥ १।७०।३६ ॥

यतो गरेण सह जातो ऽतः सगरो नाम्नाभवत् ॥ १।७०।३७,३८ ॥

प्रवृद्धस्तन्नामा पुरुषादकः वसिष्ठशापवशाद्राक्षसो ऽभवत् । वसिष्ठाय प्रतिशापं दातुमुद्धृतं जलं स्वपत्न्यानुनयेन स्वपादयोर्विसृष्टवान् । ततः कल्माषवर्णपादस्तदाख्यश्चाभवत् ॥ १।७०।३९४३ ॥

यद्यपि वंशपरम्परा पुराणादिष्वन्यथा दृश्यते, तथापि तत्र कल्पभेदेन विरोधपरिहारः । एकस्यानेकनामकत्वाद्वा । आदीति । आदितो ब्रह्माणमारभ्य वंशेन शुद्धानां वीराणां सत्यवादिनां सम्बन्धिनो रामलक्ष्मणयोरित्यर्थः ॥ १।७०।४४,४५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥ ७० ॥