०६९ जनक-दशरथ-संवादः

तत इति ॥ १।६९।१ ॥

धनाध्यक्षाः कोशरक्षाधिकारिणः । पुष्कलं बहु श्रेष्ठं च । सुविहिताः सुरक्षिताः सुसम्पादितकल्याणोचितकर्माणो वा ॥ १।६९।२ ॥

यानम् शिबिकादि । युग्यमश्वादि । अनुत्तमानि श्रेष्ठानि यानानि युग्यानि च यान्तु । वसिष्ठाद्यर्थमिति शेषः ॥ १।६९।३,४ ॥

अग्रे द्विजप्रयाणं प्रयाणे कल्याणाय । प्रयान्तु । उक्तयानयुग्यैरिति शेषः । दूता जनकदूताः ॥ १।६९।५ ॥

चद्वयं चिन्त्यफलं पादपूरणमात्रार्थम् ॥ १।६९।६ ॥

दूतानां त्रिदिनगम्यो ऽपि मार्गश्चतुरङ्गबलोपेतप्रयाणत्वाच्चतुर्दिनं वासो मध्ये । श्रुत्वा दशरथागमनम् ॥ १।६९।७ ॥

राजानमासाद्य मुदितो हर्षं ययौ । मोदस्यैवाधिकावस्था हर्ष इति भेदः ॥ १।६९।८,९ ॥

वीर्यम् शौर्यम् ॥ १।६९।१० ॥

वसिष्ठे इन्द्रसादृश्यं पूर्णधर्मत्वेन । विघ्नाः कन्यादानप्रतिबन्धः ॥ १।६९।११ ॥

राघवैः सह सम्बन्धं प्राप्य पूजितं मे कुलम् । नरेन्द्र सर्वराजश्रेष्ठ । संवर्तयितुम् निर्वर्तयितुम् । विवाहमित्यग्रिमेणान्वयः ॥ १।६९।१२ ॥

यज्ञान्ते ऽवभृथे ॥ १।६९।१३ ॥

प्रतिग्रहः कन्यागवादीनाम् । दातृवशो यदि दाता ददति तदा प्रतिग्राह्यं प्रतिग्रहीत्रेति स्थितः । एतद्वाक्यं मया श्रुतम् । क्षत्रियतया प्रतिग्रहधर्मस्याद्याप्यज्ञानमेव । साम्प्रतमेवानुभवो भविष्यतीति श्रुतमित्युक्तम् ॥ १।६९।१४ ॥

अतो यथा त्वं वक्ष्यसि तद्वयं करिष्यामहे ॥ १।६९।१५ ॥

विस्मयम् कन्याया वीर्येण शुल्केन जितत्वान्मदनुमत्यनपेक्षायामपि राज्ञो विनयेन तादृशवचनाद्विस्मयः ॥ १।६९।१६ ॥

निशाम्य दृष्ट्वा ॥ १।६९।१७ ॥

यज्ञस्यावशिष्टाः क्रियाः । सुताभ्यां दुहित्रोः कन्यादानशेषतया यत्कर्तव्यमङ्कुरारोपणादि लौकिकालौकिकं तत्सर्वं कृत्वोवास ॥ १।६९।१८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्ड एकोनसप्ततितमः सर्गः ॥ ६९ ॥