०६८ दशरथागतिः

त्रिरात्रं रात्रित्रयमुषिता मार्गे कृतवासाः । तावद्वासकरणे निमित्तं क्लान्तवाहनत्वम् । ते दूतकर्मणि नियुक्ता मन्त्रिणः । तदनन्तरं ते ऽयोध्यायां प्राविशन् ॥ १।६८।१ ॥

राजवचनाज्जनको ऽस्मानिह प्रेषितवानिति स्वराजनामसङ्कीर्तनात् । राजवेश्म दशरथवेश्म । प्रवेशिताः । तदीयैर्द्वारपालैरिति शेषः ॥ १।६८।२ ॥

विगतसाध्वसाः महाराजदूतत्वेन तद्भृत्यवत्तत्सन्निधौ भयरहिताः ॥ १।६८।३ ॥

साग्निहोत्रपुरस्कृतः पुरस्कृताग्निहोत्रसहितः । आहिताग्न्यादिः । पुरस्कृता मन्त्र्यादयः । अग्निहोत्रपदेन तत्साधनऋत्विजस्तैः सहित इत्यर्थ इत्यन्ये ॥ १।६८।४ ॥

कुशलम् क्षेमम् । अव्ययमनपायम् । हे महाराज आपृच्छते । “आङि नु पृच्छ्योः” इत्यात्मनेपदम् । पुरःसरा भृत्यास्तत्सहितम् ॥ १।६८।५ ॥

अनुमते ऽनुमतकृत्यसाधननिमित्तम् ॥ १।६८।६ ॥

वीर्यशुल्केति प्रतिज्ञा पूर्वं युष्माकं विदितेत्यन्वयः । विमुखीकृता इत्यपि विदितम् ॥ १।६८।७ ॥

तव पुत्रकैरिति । तव पुत्रेण । रामेणेत्यर्थः । कप्रत्ययेनाल्पार्थकेन बाल्यद्योतनम् । जामातृबुद्ध्या महाबलत्वेनेश्वरबुद्ध्या च पूज्यत्वेन बहुवचनप्रयोगः ॥ १।६८।८ ॥

तच्च । पूर्वं दक्षाध्वरध्वंससमये रुद्रेण यद्बलाच्छक्रादिपुरःसरसकलसुरजयः कृतस्तच्चेत्यर्थः । रत्नं धनुरुत्तमं धनुः ॥ १।६८।९ ॥

प्रतिज्ञां वीर्यशुल्कतया सीतादानप्रतिज्ञाम् तर्तुम् पूरयितुम् ॥ १।६८।१०,११ ॥

उभयोरेवोभयोरपि पुत्रयोः । न केवलं रामस्यैवेत्यर्थः । प्रीतिम् विवाहजाम् । एतेन लक्ष्मणायोर्मिलाप्रदानं सूचितम् ॥ १।६८।१२ ॥

अभ्यनुज्ञातो ऽभ्यनुज्ञातकन्याप्रदानकृत्यः ॥ १।६८।१३ ॥

एवम् वक्ष्माणम् ॥ १।६८।१४ ॥

विदेहेषु विदेहानां निवासभूते जनपदे ॥ १।६८।१५,१६ ॥

यदि वो रोचते वृत्तम् । यौनसम्बन्धयोग्यमित्यर्थः । पर्ययो ऽतिक्रमः ॥ १।६८।१७ ॥

श्वो यात्रेति मन्त्रिणो ऽब्रवीदित्यन्वयः । तदर्थ उद्यमः क्रियतामिति शेषः ॥ १।६८।१८ ॥

मन्त्रिणो जनकमन्त्रिणः । गुणैः सत्कारातिशयैः । “नरेन्द्रश्च” इति पाठे स च मुदित उवासेति विपरिणामः । “नरेन्द्रस्य” इति पाठे जनकस्येत्यर्थः ॥ १।६८।१९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे ऽष्टषष्टितमः सर्गः ॥ ६८ ॥