रामाय इति हेत्यसन्धिरैच्छिकः । आरोपयिष्यति सीतां ग्रहीष्यति चेति भावः ॥ १।६७।१ ॥
सचिवान्समीपे विद्यमानान् । अनुलेपितम् युक्तम् ॥ १।६७।२ ॥
प्राविशन्पुरम् । यज्ञवाटादित्यर्थः ॥ १।६७।३ ॥
शतानि पञ्चाशत् पञ्च सहस्राणीत्यर्थः । अनेन धनुषो दुर्ग्रहत्वादि दर्शितम् । आयता दीर्घाः । महात्मानो हृष्टपुष्टशरीराः । अष्टचक्राम् रथाङ्गाष्टयुक्ताम् । ताम् दृढत्वेन प्रसिद्धाम् । कथञ्चन । तत्सङ्ख्या अपि महता प्रयत्नेनेत्यर्थः ॥ १।६७।४ ॥
आयसीमष्टलोहनिर्मिताम् । सुरोपममिति जनकविशेषणम् ॥ १।६७।५ ॥
यदि दर्शनीयमितीच्छसि । तदा दर्शयेत्यर्थः ॥ १।६७।६ ॥
उभौ रामलक्ष्मणौ तदाश्रयं धनुःप्रदर्शनमुद्दिश्य विश्वामित्रमभाषतेति योजना ॥ १।६७।७ ॥
पूरितमशक्तैस्तोलनादिवक्ष्यमाणव्यापाराशक्तै राजभिस्तु जनकैर्देवरातातिरिक्तैः पूजितम् । ऐश्वरत्वादीश्वरवदेव केवलं पूजितमित्यर्थः ॥ १।६७।८ ॥
नैतदिति । एतद्धनुः सुरादयो न सज्यीकर्तुं शक्ता इति शेषः ॥ १।६७।९ ॥
गतिः शक्तिः सामर्थ्यम् । चस्त्वर्थे । प्रपूरणमाकर्णाकर्षणम् । आरोपणम् सज्यीकरणम् । समायोगः शरेण योजनम् । वेपनम् ज्यास्फालनम् । तोलनमुक्तम् ॥ १।६७।१० ॥
आनीतमथापि त्वदाज्ञयेत्यादिः ॥ १।६७।११,१२ ॥
यत्र धनुस्तिष्ठति तां मञ्जूषामपावृत्यापगतावरणां कृत्वा ॥ १।६७।१३ ॥
स्पृशामीति दर्शनौत्सुक्यस्य निवृत्तेः । वा चार्थे । यत्नवान्भविष्यामि किमित्यब्रवीत् । अपृच्छदित्यर्थः ॥ १।६७।१४ ॥
तं राजा मुनिश्च बाढमित्येव चाब्रवीत् । समभाषतेति प्रत्येकमन्वयः । मध्ये मध्यप्रदेशे लीलयानायासेन । जग्राह पादाङ्गुलेनोन्नतं कृत्वा करेण जग्राह । तदुक्तं पाद्मे “रामो ऽपि तद्धनुःकोटिं स्पृष्ट्वा पादाङ्गुलात्ततः । उन्नतं चापमारोप्य बभञ्जे मोहिता जनाः ॥ " इति। अतिभारवद्वस्तुनः पादाङ्गुल्या मध्यभागपर्यन्तमुन्नमनं मध्ये गृहीत्वोद्धारश्च महाबलसाध्य इति महाबलवत्त्वमनेन सूचितम् ॥
१।६७।१५ ॥
पश्यताम् । अनादरे षष्ठी ॥ १।६७।१६ ॥
पूरणमाकर्षणम् ॥ १।६७।१७ ॥
निर्घातो ऽशनिध्वनिस्तन्निःस्वनसमः शब्द आसीत् । दीर्यतः पर्वतस्य समीपदेशे यथा भूमिकम्पस्तथा भूकम्प आसीत् ॥ १।६७।१८ ॥
मुनिवरो विश्वामित्रः । राजा जनकः ॥ १।६७।१९ ॥
विगतसाध्वसः । रामेण धनुरनारोपणे कन्या ऽविवाहितैव स्थास्यतीति या भीः स्थिता सा गतेत्यर्थः ॥ १।६७।२० ॥
अतर्कितमिदं मया । एतदारोपणमित्यर्थः ॥ १।६७।२१ ॥
आहरिष्यति । सम्पादयिष्यति ॥ १।६७।२२ ॥
मम प्रतिज्ञा सत्या । जातेति शेषः । प्राणैः प्राणेभ्यः ॥ १।६७।२३ ॥
मम मन्त्रिण इत्यन्वयः । अनुमते । अनुमतकृत्यसाधननिमित्तमित्यर्थः । भवतो ऽनुमत्येति वार्थः ॥ १।६७।२४ ॥
प्रश्रितैर्विनयसहितैः । सर्वशश्च । सर्वमप्यत्रत्यं वृत्तान्तमित्यर्थः ॥ १।६७।२५ ॥
गुप्तौ रक्षितौ । प्रीतियुक्तमिति क्रियाविशेषणम् ॥ १।६७।२६ ॥
आभाष्याहूय । कृतशासनान्दत्तकल्याणसन्देशपत्रान् ॥ १।६७।२७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥