कृतकर्मा कृतनित्यक्रियः ॥ १।६६।१ ॥
कर्मणा अर्घ्यपाद्यादिलक्षणेन राघवौ च सम्पूज्य वाक्यमुवाच । विश्वामित्रं प्रतीति शेषः ॥ १।६६।२ ॥
आज्ञाप्य आज्ञापयितुं योग्यः । भवतेति कृत्यानां कर्तरि षष्ठीविकल्पात्तृतीया । आगमनप्रयोजनं बोधनीय इति तात्पर्यम् ॥ १।६६।३,४ ॥
द्रष्टुकामौ । आगतावित शेषः ॥ १।६६।५ ॥
कृतकामौ प्राप्तकामौ ॥ १।६६।६ ॥
ततो धनुर्वृत्तान्तमाह जनकः एवमिति । अस्य दिदृक्षितस्य धनुषः श्रूयताम् । आगमनादिवृत्तान्त इति शेषः । यदर्थं यत्प्रयोजनाय तिष्ठति तच्च श्रूयताम् ॥ १।६६।७ ॥
निमिः कूटस्थः । तस्य ज्येष्ठः पुत्रो देवरातः । न्यासो निक्षेपः । अयम् धनूरूपः । अपरे तु नितरामास्ते देवता यत्रेति व्युत्पत्त्या न्यासो देवपूजास्थानम् । तत्पूजार्थं शत्रुवधार्थं च दत्त इत्यर्थः । निक्षेपपरतया व्याख्याने तु निक्षेपस्य शुल्कीकरणमनुचितम् । भगवता तद्भङ्गे च निक्षेपारक्षणप्रयुक्तदोषभागिता जनकस्य स्यादिति प्राहुः ॥ १।६६।८ ॥
कैर्दत्तस्तत्राह दक्षेत्यादि । दक्षयज्ञवध इति निमित्तसप्तमी । आयम्य नमनसज्जीकरणपूर्वमाकृष्य । सलीलमिति वधविषयाप्रयासो द्योत्यते ॥ १।६६।९ ॥
भागार्थिनः स्विष्टकृदादियज्ञभागार्थिनो मम भागं यतो नाकल्पयन्त सुराः । अतो वराङ्गानि शिरांसि । अकल्पयतेत्येकवचनमार्षम् । महार्हाणि महापूजायोग्यानि ॥ १।६६।१० ॥
विमनसो दीनाः । भवो रुद्रः ॥ १।६६।११ ॥
ददौ । संहारार्थं गृहीतं धनुरिति शेषः । देवदेवस्य रुद्रस्य । देवैर्लब्धं धनूरत्नम् ॥ १।६६।१२ ॥
अस्मत्पूर्वजे देवराते । तैः शिवसहितैर्देवैर्न्यासभूतं देवपूजास्थानभूतं न्यस्तम् दत्तम् । तदुक्तं कौर्म एकविंशे ऽध्याये “प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः । प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः ॥ " इति। पाद्मेऽपि च “चापं शम्भोर्दयादत्तं कन्याशुल्कीकृतं मया।” इति। यदर्थमिह तिष्ठतीत्यस्याप्युत्तरं न्यासभूतमित्यन्तेन जातं पूजास्थानत्वेन पूजार्थमित्यर्थलाभात्। अथेति। कृषत इति। अग्निचयनार्थमिति शेषः। “षड्गवेन कृषति” इत्यादिशास्त्रात्। लाङ्गलाल्लाङ्गलपद्धतेरुत्थिता कन्येति शेषः ॥
१।६६।१३ ॥
यतः क्षेत्रं शोधयता सीताया लाङ्गलपद्धतेर्मया लब्धातो नाम्ना सीतेति प्रसिद्धा । भूतलाद्यज्ञियात् । व्यवर्धत वृद्धिं प्राप्ता । पाद्मे ऽपि “अथ लोकेश्वरी लक्ष्मीर्जनकस्य पुरे स्वतः । शुभक्षेत्रे हलोत्खाते तारे चोत्तरफाल्गुने ॥ अयोनिजा पद्मकरा बालार्कशतसन्निभा । सीतामुखे समुत्पन्ना बालभावेन सुन्दरी ॥ सीतामुखोद्भवात्सीता इत्यस्यै नाम चाकरोत् । ततो ऽभूदौरसी तस्य उर्मिला नाम कन्यका ॥ " इति ॥
१।६६।१४ ॥
वीर्यशुल्का धनुःसज्जीकरणादिक्षमं वीर्यमेव शुल्कं मूल्यं यस्याः ॥ १।६६।१५,१६ ॥
न ददामि न प्रादाम् ॥ १।६६।१७ ॥
वीर्यम् धनुषः सारम् । जिज्ञासव इत्यस्याभूवन्निति शेषः । उपाहृतम् । दर्शितमानीयेत्यर्थः ॥ १।६६।१८ ॥
ग्रहणम् धारणम् । तोलनम् भारपरीक्षणार्थं हस्तेन चालनम् ॥ १।६६।१९ ॥
प्रत्याख्याताः । कन्या न दत्तेति यावत् । तदित्यव्ययम् । ततो ऽनन्तरं यद्वृत्तं तन्निबोध जानीहि । तत इत्युत्तरान्वयि ॥ १।६६।२० ॥
अरुन्धन्नपरुद्धवन्तः । वीर्यसन्देहं धनुरारोपणलक्षणवीर्यविषये ऽन्येषां संदेहविषयत्वं गताः । अतो बलेनैव कन्यां ग्रहीष्याम इत्यरुन्धन्नित्यर्थः । ते च सर्वे नृपा आत्मानं स्वं स्वमात्मानं मे मयावधूतं वीर्यशुल्ककरणेन तिरस्कृतं विज्ञाय ॥ १।६६।२१ ॥
रोषेणाविष्टा मिथिलामपीडयन् । अडभाव आर्षः । क्षयं यातानि । दुर्गस्थित्या युद्धवशादिति शेषः ॥ १।६६।२२ ॥
साधनानि दुर्गरक्षणसाधनानि । प्रसादयम् प्रसादितवान् । लङ्यडभाव आर्षः ॥ १।६६।२३ ॥
सुरा ददुः । जगन्मातू रक्षणार्थं स्वकार्यसिद्ध्यर्थं चेदं बलदानम् । दिशो ययुः । समूहं विसृज्येति शेषः ॥ १।६६।२४ ॥
अवीर्या अल्पवीर्याः । वीर्यसन्दिग्धाः सन्दिग्धस्ववीर्याः । आहिताग्न्यादित्वान्निष्ठायाः परनिपातः । तदेतदुक्तवृत्तान्तकम् ॥ १।६६।२५,२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥