०६५ विश्वामित्र-ब्रह्मर्षित्व-प्राप्तिः

अथ प्रतिज्ञोत्तरम् । हैमवतीमुत्तराम् ॥ १।६५।१ ॥

मौनरूपं व्रतं वर्षसहस्रसम्बन्धि । मौनं चात्र काष्ठमौनम् ॥ १।६५।२ ॥

आधूतमाकुलीकृतमप्यान्तरमन्तः करणम् ॥ १।६५।३ ॥

निश्चयम् क्रोधाकरणविषयकम् । वर्षसहस्रसम्बन्धिनि व्रते पूर्णे सति ॥ १।६५।४ ॥

तस्मिन्काले व्रतपारणाकाले ॥ १।६५।५ ॥

सिद्धम् पक्वम् । निःशेषिते निरवशेषतो दत्ते । अभुक्त्वैव पुनः पाकाकरणादभुक्त्वैव ॥ १।६५।६ ॥

मौनं कृत्वासीदित्यन्वयः ॥ १।६५।७ ॥

नोच्छ्वसञ्श्वासोच्छ्वासरहितः । धूम इति । धूमकेतुरित्यर्थः । अग्निरिति यावत् । अत एवाग्ने “आतापितमिव” इति वक्ष्यति । अयं शुद्धसत्त्वगुणप्रभावो ऽग्निरितरेषां रजस्तमःप्रधानानां तन्मिश्रसत्त्वप्रधानानां च देवादीनां तापजनक इति बोध्यम् ॥ १।६५।८ ॥

येन वह्निना । यथा तापितः पुमान्सम्भ्रान्तो व्याकुलो भवति, तद्वत्त्रैलोक्यं सम्भ्रान्तमभूदित्यर्थः ॥ १।६५।९ ॥

तपसा तेजसा तपोरूपेण तेजसा । मोहिता विषयाग्रहितचित्ताः कृताः । मन्दरश्मयः क्षीणतेजसः । कश्मलम् दुःखम् ॥ १।६५।१० ॥

तत्तद्विषयैर्लोभितः क्रोधितो ऽपि निर्विघ्नमेव तौ त्यक्त्वा तपसाभिवर्धत इत्यन्वयः ॥ १।६५।११ ॥

सूक्ष्ममपि वृजिनमल्पमपि कामक्रोधरूपम् । यदभीप्सितम् ब्रह्मर्षित्वम् ॥ १।६५।१२ ॥

अन्यथा लोकनाश इत्याह विनाशयतीति । तेर्लघुतरपाठान्नच्छन्दोभङ्गः । नाशप्रकारमाह व्याकुला इति ॥ १।६५।१३,१४ ॥

न प्रतिजानीमः प्रतिक्रियां न जानीम इत्यर्थः । नास्तिको जायते । जगत्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्य इत्यर्थः । तदाह सम्मूढमिवेति । सम्प्रक्षुभितमानसम् व्याकुलचित्तम् ॥ १।६५।१५ ॥

नाशे जगन्नाशे ॥ १।६५।१६ ॥

पूर्वम् युगान्तकाले ॥ १।६५।१७ ॥

यद्यसौ देवराज्यमपि चिकीर्षेत तदा तदप्यस्य दीयतामित्यर्थ इति केचित् । यद्यस्याभीष्टं न दीयते तदासौ देवराज्यं चिकीर्षेत, अतो ऽस्य यन्मनस्तत्स्थं ब्रह्मर्षित्वं तद्दीयतामित्यर्थः इत्यन्ये ॥ १।६५।१८ ॥

स्वागतम् भद्रम् । स्मेति विसर्गलोप आर्षः ॥ १।६५।१९ ॥

दीर्घायुर्दानम् स्वदर्शनफलम् ॥ १।६५।२० ॥

स्वस्ति सुखम् । यथासुखम् । तपस उपरत इति शेषः ॥ १।६५।२१ ॥

यदि इत्यसन्दिग्धवचनम्, वेदाः प्रमाणं चेदितिवत् ॥ १।६५।२२ ॥

ओमिति ब्रह्मज्ञानसाधनम् । वषडिति यज्ञसाधनम् । वेदाश्च तदपेक्षिताङ्गोपाङ्गादिप्रतिपादकाः । वरयन्तु । यथा वसिष्ठादीन्सहजब्राह्मणान्वरयन्ति तथा वरणं चाध्यापनयाजनयोरनुमतिः । ब्रह्माद्यनुग्रहे ऽपि जातिब्राह्मण्याभावाद्वसिष्ठेनानङ्गीकारे व्यर्थमेव सर्वम्, अत आह क्षत्रेत्यादि । सूर्यवंशानादिपुरोहितत्वात्तदध्यापकत्वाच्च तेषां युद्धजयादिप्रयोजनसम्पत्तये क्षत्रवेदविदामुक्तप्रयोजनधनुर्वेदविदां श्रेष्ठः । ब्रह्मवेदा वेदचतुष्ठयी । ब्रह्मप्रतिपादकोपनिषद्भागवत्त्वात् ॥ १।६५।२३ ॥

अन्यदपि श्रैष्ठ्यबीजम् । ब्रह्मपुत्र इति । एवं ब्रह्मर्षे इति । एवं वसिष्ठमुखेन ब्रह्मर्षित्ववादरूपे मम परमः कामो मनोरथो मदि कृतस्तदा मद्विषये कृतकृत्याः सुरर्षभा यान्तु नान्यथेति भावः । अन्यथा पुनस्तपश्चरिष्यामीति तात्पर्यम् ॥ १।६५।२४ ॥

ततो विश्वामित्रोक्त्यनन्तरम् । प्रसादितो विश्वामित्रस्य ब्रह्मर्षित्वानुमतये । एवम् ब्रह्मर्षित्वम् । सख्यम् विश्वामित्रेण ॥ १।६५।२५ ॥

सर्वं ब्राह्मण्यप्रयोजकं ब्राह्मणाज्जन्म तत्संकारादि सम्पद्यते सम्पन्नम् । अनेन त्रिपुरुषपर्यन्तं विश्वामित्रस्य ब्राह्मण्यलाभः सूचितः । एतच्च “अनृष्यानन्तर्ये” इति सूत्रे महाभाष्ये स्पष्टम् । इति वसिष्ठोक्तं देवता अप्युक्त्वा जग्मुरित्यन्वयः ॥ १।६५।२६ ॥

पूजयामास । सपरिवारस्य मम सत्कारकरणेन ब्रह्मर्षिताप्रापकसाधनौन्मुख्यसम्पादनेन कृतार्थीकृतो ऽस्मि भगवतेति पूजयामासेत्यर्थः ॥ १।६५।२७ ॥

चचारेति । विश्वामित्र इति शेषः । अथ प्रकृतशतानन्दवचनम् एवं त्वित्यादि ॥ १।६५।२८ ॥

नित्यमिदानीमपि । वीर्यस्य तपोवीर्यस्य ॥ १।६५।२९३१ ॥

पावितः पवित्रः कृतः ॥ १।६५।३२ ॥

गुणाः कर्मश्रैष्ठ्यज्ञातिश्रैष्ठ्यलक्षणाः ॥ १।६५।३३ ॥

महातेज इति सम्बुद्धिः । मया जनकेन रामेण च सदः प्राप्य स्थितैः सदस्यैश्च ते गुणाः श्रुताः ॥ १।६५।३४ ॥

तुभ्यमिति तवेत्यर्थे । अप्रमेयमियत्ताज्ञानाविषयम् ॥ १।६५।३५ ॥

कथानामिति । शृण्वत इति शेषः । कर्मकाल इति । अतिवर्तत इति शेषः । तदेवाह लम्बत इति ॥ १।६५।३६ ॥

स्वागतम् भद्रम् । अनुज्ञातुम् । कर्मण इति शेषः ॥ १।६५।३७३९ ॥

स्ववासम् स्वनिवेशम् । “स्ववाटम्” इति पाठे ऽप्ययमेवार्थः ॥ १।६५।४० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥