लोभनम् प्रतारणम् । काममोहेन कामज्वलितचित्तवैवश्येन समन्वितम् युक्तम् ॥ १।६४।१ ॥
व्रीडिता असामर्थ्यवचननिमित्ता व्रीडा ॥ १।६४।२ ॥
“उत्सृज्यते” इति पाठे ऽप्युत्स्रक्ष्यत इत्येवार्थः ॥ १।६४।३ ॥
हि यतो ऽतः प्रसादमेवंनियोगाभावरूपम् ॥ १।६४।४,५ ॥
माधवे वसन्ते कोकिलो भूत्वाहमित्यन्वयः ॥ १।६४।६ ॥
बहुगुणम् हावभावादिगुणोपेतम् । रूपम् रूपपरिष्कारम् । भेदयस्व कामोत्पादनेन तपसश्चालय ॥ १।६४।७ ॥
ललिता ललिताख्यभावयुक्ता ॥ १।६४।८ ॥
वल्गु मनोहरम् । कमनीयविषयलाभाच्चेतसो हर्षः ॥ १।६४।९ ॥
तस्य कोकिलस्य । गीतेन । रम्यया इति शेषः । सन्देहं स्वत एवास्या यदृच्छयागमनम्, उतेन्द्रप्रेरिताया मत्तपोभङ्गार्थमित्येवंरूपम् ॥ १।६४।१० ॥
तत्सर्वं रम्भागमनं तत्कृतप्रलोभनं च सहस्राक्षप्रेरणामूलमिति युक्त्या ध्यानेन च विज्ञाय निश्चित्य रम्भां शशापेत्यन्वयः ॥ १।६४।११ ॥
शैली शिलाप्रतिमारूपा ॥ १।६४।१२ ॥
यद्यपि स्वामिनियोगतः प्रवृत्ताया रम्भायाः शापदानमनुचितम्, इन्द्र एव तद्दानमुचितम्, तथापि क्रोधावेशेन युक्तायुक्तविवेकाभावः । अत एव पश्चाद्विवेकं लब्ध्वा तामनुगृण्हाति ब्राह्मण इति । वसिष्ठ इत्यर्थ इति कतकः । एतेन कामादपि क्रोधो दुर्जय इति सूचितम् ॥ १।६४।१३ ॥
आत्मनः कोपं धारयितुमशक्नुवंस्तां शप्त्वा तपोव्ययजन्यदुःखेन सन्तापं पश्चात्तापमुपागत इति शेषः ॥ १।६४।१४ ॥
महर्षेर्वचः श्रुत्वा कन्दर्पः स च इन्द्रश्च निर्गत इत्वन्वयः ॥ १।६४।१५ ॥
कोपेन चात्कामेन च तपोपहरणे कृते सति कामक्रोधहतत्वादेवाजितैरिन्द्रियैरित्यन्वयः । आपाततो रम्भादर्शनप्रवृत्त्या कामेनातितपःक्षयः । आत्मनो मनसः शान्तिम् दुःखोपशमम् ॥ १।६४।१६ ॥
न च वक्ष्ये । शापादिवचनमिति शेषः ॥ १।६४।१७ ॥
आत्मानम् शरीरम् ॥ १।६४।१८ ॥
यावद्यावता कालेन ब्राह्मण्यं प्राप्तं भवेत्तावच्छाश्वतीः समा बहून्वत्सरान् ॥ १।६४।१९ ॥
मूर्तयः शरीरावयवाः । तपोर्थत्वादनुच्छ्वासाभोजनयोस्तद्बलेन स्थास्यन्त्येवेति भावः । दीक्षामनुच्छ्वासाभोजने उद्दिश्य । अप्रतिमां प्रतिज्ञां सर्वथैवं करिष्य इत्यध्यवसायम् ॥ १।६४।२० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥