०६३ विश्वामित्रतपोनाशः

व्रतस्नातम् समाप्तव्रतम् । तपःफलचिकीर्षवस्तपःफलं दातुकामाः ॥ १।६३।१ ॥

ऋषिस्त्वमसि । अत्र राजशब्दानुपादानेन क्षत्रजातिविश्लेषः सूचितः ॥ १।६३।२,३ ॥

परमा रूपादिभिः सर्वोत्तमा । अप्सरा इत्यार्षम् ॥ १।६३।४ ॥

तत्र सरसि । जलदे विद्युतमिव ॥ १।६३।५ ॥

कन्दर्पकृतो दर्पो मदः ॥ १।६३।६ ॥

अनुगृह्णीष्व । भोगदानेनेति शेषः । वरारोहा श्रेष्ठजघना ॥ १।६३।७ ॥

पञ्च पञ्च दशवर्षाणि ॥ १।६३।८,९ ॥

सामर्षा । देवेषु, विघ्नस्य तत्कृतत्वज्ञानात् ॥ १।६३।१० ॥

तदाह सर्वमिति । अहोरात्रापदेशेनैकाहोरात्रतुल्यतया ॥ १।६३।११,१२ ॥

वेपन्तीम् वेपमानाम् । मधुरैर्मत्प्रार्थनया स्थितासीति तव न कश्चन दोष इत्यादिवाक्यैः । क्रोधस्य सङ्कल्पपूर्वं त्यक्तत्वादत्र शापादानं तेनास्य क्रोधजयो जात इत्युक्तम् ॥ १।६३।१३ ॥

ततस्तत्र बहुविघ्नदर्शनादुत्तरगमनम् । नैष्ठीकीं कामस्याप्यकरणं सङ्कल्प्यात्युत्कटब्रह्मचर्यविषयां बुद्धिम् दृढनिश्चयम् । जेतुकामः । काममिति शेषः ॥ १।६३।१४ ॥

कौशिकी विश्वामित्रभगिनी नदी ॥ १।६३।१५ ॥

उत्तरे पर्वते इत्येतत्पूर्वान्वयि । समागम्य । ब्रह्मणेति शेषः ॥ १।६३।१६ ॥

लभताम् । भगवन्निति शेषः ॥ १।६३।१७ ॥

देवप्रार्थनया महर्षिशब्देनैव सम्बोधयति महर्षे इति ॥ १।६३।१८ ॥

महत्त्वस्य विवरणमृषिमुख्यत्वमिति ॥ १।६३।१९ ॥

प्रत्युवाचेति । पितामहमिति शेषः । अतुलं सर्वोत्तमं ब्रह्मर्षिशब्दं मदभीष्टं स्वार्जितैः कर्मभिः प्राप्यं यदि यतो भगवान्नाह न वदति, ततो मन्ये ऽहं विजितेन्द्रियः । अत्र काकुः । न विजितेन्द्रिय इत्यर्थः । न तावदिति । विकारहेतुसन्निधाने विकाराभावे हि तत्त्वमिति भावः । न तावदिति लोकोक्तौ ॥ १।६३।२०२२ ॥

घर्मे ग्रीष्मे । आकाशम् निरावरणदेशः ॥ १।६३।२३२५ ॥

आत्महितमात्मा इन्द्रः ॥ १।६३।२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥