व्यश्रमत् । “व्यश्राम्यत्” इति पाठान्तरम् ॥ १।६२।१ ॥
विश्रममाणस्येति विश्रामत इत्यर्थे आर्षम् ॥ १।६२।२ ॥
तृष्णया पिपासया जिजीविषया च । श्रमेण चेति विषण्णवदनत्वे दीनत्वे परमातुरत्वे च हेतुः ॥ १।६२।३ ॥
अङ्के उत्सङ्गे । मातुलत्वात्तत्र पातः । बान्धवाः कुतः । दूरादेव । सर्वथा न सन्त्येवेत्यर्थः ॥ १।६२।४ ॥
धर्मेण स्वार्जितेन । सर्वेषां शरणागतानां भावतः सर्वेष्टसाधनम् । एको हिस्त्वर्थे ॥ १।६२।५ ॥
यथा च राजा कृतकार्यः स्यात्, अहं चाव्ययो धर्मलोपाभाववान्दीर्घायुस्तपस्तप्त्वा स्वर्गं प्राप्नुयाम् । तथा कुर्विति शेषः ॥ १।६२।६ ॥
किल्बिषाज्जीवविपत्तिरूपात् । भव्येन प्रसन्नेन । पुत्रम् ज्येष्ठम् ॥ १।६२।७,८ ॥
यत्कृते यत्प्रयोजनाय । तदेव प्रयोजनमाह परलोकहितार्थाय परलोकहितरूपप्रयोजनाय । तस्य प्रयोजनस्य ॥ १।६२।९ ॥
परलोकहितं प्रयोजनमाह अयमिति । शरणम् रक्षणम् । जीवितमात्रेण जीवितप्रदानमात्रेण । प्रियमित्यस्य मम स्वस्य । “जीवितो वाक्यकरणात्” इति स्मृतेः । शुनकवत्परलोकसाधनत्वेन प्रियमित्यर्थः ॥ १।६२।१० ॥
तत्र प्रवृत्त्यर्थं स्तौति सर्वे इति । पशुभूता अस्य राज्ञा पशुत्वेन ग्रहणादेतत्प्रतिनिधित्वेन पशुभूता नरेन्द्रस्य यज्ञे ऽग्नेस्तृप्तिं प्रयच्छथेत्यर्थः ॥ १।६२।११ ॥
नाथवान्मया रक्षकवान् । मम युष्मत्पितुर्जीवतो वाक्यकरणाद्वचः कृतं भवति ॥ १।६२।१२ ॥
साभिमानम् साहङ्कारम् । सलीलम् सपरिहासम् ॥ १।६२।१३ ॥
लोकतः शास्त्रतश्चानुष्ठातृत्वे दृष्टान्तमाह श्वमांसमिवेति ॥ १।६२।१४,१५ ॥
साध्वसम् भयम् । पितृत्वप्रयुक्तभीतिरहितम् । जीवतो वाक्यकरणाद्धर्मादपि विगर्हितं भ्रष्टम्, एवं मद्वाक्यमतिक्रम्य यतो दारुणं परुषं रोमहर्षणं रोमाञ्चरूपविकारजनकमुक्तं तस्मादिति शेषः ॥ १।६२।१६ ॥
जातिषु मुष्टिकजातिषु ॥ १।६२।१७ ॥
निरामयां सर्वदुःखनाशिकां रक्षां कृत्वा शुनःशेपमुवाच ॥ १।६२।१८ ॥
वाक्यमाह पवित्रेति । पवित्रपाशा दर्भरशनाः । वैष्णवम् विष्णुदैवत्यम् “वैष्णवो वै देवतया यूपः” इति श्रुतेः । वाग्भिराग्नेयमन्त्रैरग्निमुदाहर स्तुहि ॥ १।६२।१९ ॥
इमे मयोपदिश्यमाने इन्द्रोपेन्द्रदैवत्ये । सिद्धिम् जीवितसिद्धम् ॥ १।६२।२०,२१ ॥
गच्छावहे इत्यार्षस्तङ् । निर्वर्तयस्व यज्ञमिति शेषः । समुदाहर कुरु ॥ १।६२।२२,२३ ॥
पवित्रैर्दर्भरज्जुभिः कृतपशुत्वज्ञापनं पशुं कृत्वा यज्ञपशुत्वेन सम्पाद्याबन्धयत् । राजेति शेषः ॥ १।६२।२४ ॥
इन्द्रानुजो विष्णुर्यूपदेवः । अत्र पूर्वमग्निं स्तुत्वा तत एतौ । उपदेशकाले तथोक्तत्वात् ॥ १।६२।२५ ॥
सहस्राक्ष इत्युपलक्षणं विष्णोरपि । रहस्यस्तुतिर्विश्वामित्रोपदिष्टा ॥ १।६२।२६ ॥
समाप्तवान् । फलं सम्यगाप्तवानित्यर्थः । यद्यपि बह्वृचब्राह्मणे, “हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजा” इत्यादिना हरिश्चन्द्रयज्ञे शुनःशेपस्याजीगर्तिसुतस्य पशुत्वं प्राजापत्यादिस्तुत्या च मोक्षः श्रूयते, तथाप्यम्बरीषविषयमप्येतत् । एतत्प्रामाण्यात्तन्मूलश्रुतिश्चान्वेष्येति बहवः । केचित्तु हरिश्चन्द्रपदं सादृश्यादम्बरीष एव प्रयुक्तम् । अजीगर्तिपदं च ऋचीके प्रयुक्तं श्रुतावस्मादेवोपबृंहणादित्याहुः ॥ १।६२।२७ ॥
भूयः पूर्वतपसः पुत्रेषु क्रोधेन नाशात्क्रोधं न करिष्यामीति सङ्कल्प्य पुनस्तपो ऽकरोत् ॥ १।६२।२८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥