वनवासिनस्तपोवनवासिनस्तान्स्वाज्ञया यज्ञार्थमागतान्प्रस्थितान्वीक्ष्य सर्वांस्तानब्रवीदित्यन्वयः । वनवासिन इत्यस्य स्थाने “विनयान्वितान्” इति पाठान्तरम् ॥ १।६१।१ ॥
दक्षिणां दिशमासमन्ताद्व्याप्यास्थितो ऽयं त्रिशङ्कुरूपो महाविघ्नो ऽस्माकं तपोनाशकत्वात्प्रवृत्तस्तच्छायाक्रान्तत्वाच्चायं देशो ऽतःपरं तपो ऽयोग्य इति भावः ॥ १।६१।२ ॥
विशालायां विशालतपोवनवत्यां पश्चिमायां वर्तमानेषु पुष्करेषु । तत्तीरे तपोवनेष्वित्यर्थः । महात्मन इति महात्मान इत्यर्थकमृषिसम्बोधनम् । अदीर्घत्वमार्षम् ॥ १।६१।३५ ॥
विप्रः पुरोहितः ॥ १।६१।६ ॥
अभ्याहृत इदानीमस्माभिरानीतः पशुस्तव दुर्नयात्त्वत्पापवशात्तावकरक्षिणां प्रमादाच्च प्रनष्ट इत्यन्वयः । राजपापमाह अरक्षितारम् । प्रजानामिति शेषः ॥ १।६१।७ ॥
एतत्पशुनाशरूपं महत्प्रायश्चित्तं महतः प्रायश्चित्तस्य कारणम् । प्रकान्तं कर्म यावत्प्रवर्तते प्रवर्तिष्यते तावत्ततः प्रागेव नष्टं पशुमन्विष्यानय । तत्प्रतिनिधित्वेन क्रीत्वा नरं वा पशुमानयेत्यर्थः ॥ १।६१।८ ॥
सहस्रशो गोभिः । निष्क्रयभूताभिरित्यर्थः ॥ १।६१।९,१० ॥
स पुत्रेति । स इति पृथक्पदम् । सो ऽम्बरीषः । भृगुतुङ्गम् पर्वतशृङ्गविशेषः ॥ १।६१।११,१२ ॥
तं प्रसिद्धतपसमृचीकमिदं वक्ष्यमाणं वचः । अब्रवीदिति शेषः । यदि विक्रीणीषे तदा कृतकृत्यो ऽस्मि भवेयम्, यतो यज्ञियं यज्ञे पूर्वं परिकल्पितं पशुं क्वापि न लभे ॥ १।६१।१३,१४ ॥
इत एतेषु । सार्वविभक्तिकस्तसिः ॥ १।६१।१५ ॥
कथञ्चन बहुनापि मूल्येन । अनेनेतरयोरनुमतिः सूचिता । अप्रतिषिद्धमनुमतमिति न्यायात् ॥ १।६१।१६,१७ ॥
शुनक इति कनिष्ठपुत्रनाम ॥ १।६१।१८ ॥
पितृषु पितृणाम् । रक्षिष्यामीत्यर्थे रक्ष्ये इत्यार्षम् ॥ १।६१।१९ ॥
रामेति सम्बुद्धि ॥ १।६१।२० ॥
मध्यमं मध्यमपुत्रं विक्रेयं मातापित्रोर्विक्रेयत्वेन सम्मतं मन्ये । अर्थादिति शेषः ॥ १।६१।२१ ॥
ब्रह्मवादिनो मध्यमपुत्रस्य ॥ १।६१।२२ ॥
गृहीत्वा क्रीत्वा । यद्यप्यपत्यस्य दानक्रयौ शास्त्रनिषिद्धौ, तथाप्यनेन कुलहानौ धर्मार्थमपत्यदानमिव यज्ञायापत्यक्रयो न विगीत इति सूचितम् । पुत्रस्य चैवं पित्रधीनतोचितेति च बोधितम् ॥ १।६१।२३ ॥
शुनःशेपं रथमारोप्येत्यन्वयः ॥ १।६१।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥