०६० त्रिशङ्कुस्वर्गप्राप्तिः

ज्ञात्वा योगबलेन ॥ १।६०।१ ॥

इक्ष्वाकुदायादस्तद्वंश्यः । एवमादिगुणैर्यागाधिकारित्वं सूचितम् ॥ १।६०।२ ॥

स्वं प्रति शरणमागमने हेतुमाह स्वेनेत्यादि ॥ १।६०।३ ॥

प्रवर्त्यतामारभ्यताम् ॥ १।६०।४ ॥

धर्मसंहितमिति क्रियाविशेषणम् । ऊचुरित्यस्यान्योन्यमिति शेषः । यदूचुस्तदाह अयमित्यादि ॥ १।६०।५ ॥

अग्निकल्पः । अजितकामक्रोधत्वाच्छापं दास्यति यतस्तस्मादिति ॥ १।६०।६,७ ॥

ततः सशरीरस्य स्वर्गगमनाय यज्ञः प्रवर्त्यताम् । सर्वे भवन्तः स्वस्वकृत्यमधितिष्ठत प्रारभध्वम् । ताः क्रियाः स्वस्वार्त्विज्यकर्माणि ॥ १।६०।८ ॥

याजकः । अध्वर्युरिति यावत् । अत एव वक्ष्यति स्रुवमुद्यम्येति ॥ १।६०।९ ॥

यथाकल्पम् शास्त्रानुसारेण । यथाविधि यथासम्प्रदायानुष्ठानम् । कल्पशास्त्रे नानापक्षोपन्यासस्थले ऽनुष्ठेयांशे सम्प्रदायस्यैव शरणत्वात् । महता कालेनाधिककालसाध्ययत्नपूर्वकमन्त्रपाठेन ॥ १।६०।१० ॥

सर्वदेवताः । प्रतीति शेषः । तदा तथाप्यनधिकारिणा याजनाद्यजनाच्च ॥ १।६०।११ ॥

उद्यम्योर्ध्वं क्रोधेन प्रक्षिप्य । कोपस्यैवाधिकावस्था क्रोधः ॥ १।६०।१२ ॥

पश्य मे इति । भागार्थं देवानामनागमनेनासाध्यत्वे ऽपि स्वतपोव्ययेन त्वामभीष्टं स्वर्गं नयामीति भावः ॥ १।६०।१३ ॥

स्वशरीरेण दुष्प्रापमित्यन्वयः । हि यदि मया स्वार्जितं यत्किञ्चिदपि तपसः फलं सुकृतमस्ति ॥ १।६०।१४ ॥

तदाह हे राजन् त्वं तस्य तेजसा वैभवेन सशरीरो दिवं गच्छ । क्रुद्धत्वात्पुनरुक्त्यादि न दोषः ॥ १।६०।१५ ॥

मुनीनां पश्यताम् मुनिषु पश्यत्सु ॥ १।६०।१६ ॥

स्वर्गकृतालयः स्वर्गे निजपुण्यकर्मणा कृत आलयो यस्य तादृशः । स्वर्गवासार्हो नास्तीत्यर्थः ॥ १।६०।१७ ॥

तत्र हेतुः गुरुशापेत्यादि ॥ १।६०।१८,१९ ॥

आहारयदकरोत् ॥ १।६०।२० ॥

सृजन्निति । यथोत्तरतो ध्रुवो ऽचलस्तिष्ठति, एवं त्रिशङ्कुस्तिष्ठतु । तस्य परितो यथा सप्तर्षिमण्डलं तथास्यापि भवत्वित्याशयः । सृजन्निति हेतौ शतृप्रत्ययः । सृष्टिं कुर्वंस्तद्धेतोर्दक्षिणमार्गस्थानपरानसृजत् । पुनः सप्तविंशतिनक्षत्रमालामसृजत् ॥ १।६०।२१ ॥

नक्षत्रवंशम् क्षुद्रनक्षत्रगणम् ॥ १।६०।२२ ॥

अन्यमिन्द्रम् । स्वसृज्यमानस्वर्गस्येति शेषः । अथवा मया सृज्यमानः स्वर्गो ऽनिन्द्र एवास्तु । त्रिशङ्कुरेव तत्रेन्द्रो भवत्वित्याशयः । एवमिन्द्रस्थाने त्रिशङ्कुं प्रतिष्ठाप्य तस्य परिवारभूतदैवतानि स्रष्टुमुपचक्रमे ॥ १।६०।२३ ॥

तत इति । देवप्रतिस्वर्गवत्स्वस्यापि प्रतिस्वर्गं कुर्यादिति हेतोः सुरा असुराश्च सम्भ्रान्ताः । पर्याकुलचित्ता इत्यर्थः ॥ १।६०।२४ ॥

अनुनयप्रकारमाह अयं राजेत्यादि । गुरुशापेन परिक्षतश्चण्डालत्वं प्राप्तः । दिवं ब्रह्मसृष्टं त्वत्सृष्टं वा स्वर्गम् ॥ १।६०।२५,२६ ॥

भद्रं व इत्यनेनानुनयः ॥ १।६०।२७ ॥

स्वर्गो ऽस्तु स्वर्गपदवाच्यसुखविशेषानुभवो ऽस्तु ॥ १।६०।२८ ॥

लोका भूरादिसत्यान्ताः ॥ १।६०।२९,३० ॥

वैश्वानरपथाज्ज्योतिःशास्त्रप्रसिद्धानादिज्योतिश्चक्रमार्गाद्बहिर्बहिर्देश एतानि तानि नक्षत्राणि तिष्ठन्त्विति पूर्वेणान्वयः । तेषु त्वदीयेषु ज्योतिःषु नक्षत्रेषु जाज्वलन्भृशं ज्वलन् ॥ १।६०।३१ ॥

अवाक्शिरा अस्मदुक्तावाक्शिरस्त्ववानेव त्रिशङ्कुर्देवतुल्यसुखवांस्तिष्ठतु । एतानि तव ज्योतिंषि तमनुयास्यन्ति च ॥ १।६०।३२ ॥

स्वर्गलोकगतं यथा स्वर्गलोकगतमिवेत्यन्तं पूर्वान्वयि ॥ १।६०।३३ ॥

बाढमित्येव । आहेति शेषः । दुराग्रहस्यानर्थहेतुतां प्रतिसन्धाय देवतावचनमङ्गीचकार ॥ १।६०।३४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षष्टितमः सर्गः ॥ ६० ॥