उक्तेति ॥ १।५९।१,२ ॥
यज्ञसाह्यम् यज्ञसाहाय्यम् ॥ १।५९।३ ॥
अनेन रूपेण गुरपुत्रशापकृतेन चण्डालरूपेण । ऋषिशापस्यान्यथाकर्तुमशक्यत्वात् । गमिष्यसि । स्वर्गमिति शेषः । गमिष्यसि स्वर्गमिति शेषः । जातिचाण्डालत्वाभावाच्च यज्ञप्रवृत्तिः ॥ १।५९।४ ॥
हस्तप्राप्तमनायासलभ्यम् । तत्र हेतुः यस्त्वमित्यादि ॥ १।५९।५ ॥
यज्ञसम्भारकारणाद्यज्ञसामग्रीसम्पादनार्थम् ॥ १।५९।६ ॥
शिष्याणामृष्यानयन आज्ञा ॥ १।५९।७ ॥
सुहृदः स्वस्य । स्वस्वऋत्विक्सहितान् । तद्विशेषणम् सुबहुश्रुतानिति । यदिति । आहूतो ऽन्यो वा । अनादृतमुपेक्षारूपं चण्डालयाजनरूपं निन्दात्मकं वा यद्वाक्यं ब्रूयत्तत्सर्वमुक्तमखिलेन ममाख्येयम् ॥ १।५९।८१० ॥
ते तव ॥ १।५९।११ ॥
सर्वदेशेष्वित्यस्य स्थिता इति शेषः । आगच्छन्नित्यस्य केचिदिति शेषः । महोदयं तन्नामानमृषिम् । वासिष्ठं यच्छतं सर्वं तच्च वर्जयित्वेति योजना । तद्वासिष्ठशतं क्रोधपर्याकुलाक्षरं यथा येन प्रकारेण वचनमाह तत्सर्वं शृण्वित्यर्थः । क्षत्रिय इत्यादि । ब्राह्मणस्यैव याजनाधिकारात् चण्डालस्य यज्ञे ऽनधिकाराच्च ॥ १।५९।१२,१३ ॥
सुराणां देवतात्वेन भोक्तृत्वम् । ऋषीणामृत्विक्त्वेन यज्ञशिष्टभोक्तृत्वम् ॥ १।५९।१४ ॥
पालिता इति व्यङ्ग्योक्तिः । वचननैष्ठुर्यम् । अर्शआद्यजन्तम् । नैष्ठुर्यवद्वचनमित्यर्थः ॥ १।५९।१५ ॥
वासिष्ठा इत्याद्यर्धं पूर्वान्वयि । सहमहोदया महोदयेन सहिताः ॥ १।५९।१६ ॥
अदुष्टत्वे हेतुः तप उग्रमिति । तपस्तेजसा क्षत्रियस्य चण्डालयाजनमपि न दोषायेति ज्ञात्वापि यद्दूषयन्ति स्म ॥ १।५९।१७ ॥
तस्माद्भस्मीभूता इत्यादि ॥ १।५९।१८ ॥
सप्तजातिशतानि सप्तजन्मशतीनि । मृतपाः शववस्त्रादिहारिणः । मुष्टिका नाम तन्नामानः । इदानीम् “डोम्बा” इति प्रसिद्धाः ॥ १।५९।१९ ॥
विकृता विकृतव्यापाराः । विरूपा विकृताकाराः । अदूष्यं ह्यदूषयदिति प्राग्वत् ॥ १।५९।२० ॥
प्राणातिपातनिरतः प्राणिनां प्राणनाशोद्यतः । अनुक्रोशो दया ॥ १।५९।२१ ॥
वर्तयिष्यति प्राप्स्यति । अत्रेदं बोध्यम् क्षत्रियत्वे ऽपि याजने प्रवृत्तिः, तत्रापि शपदूषितचण्डालयाजने प्रवृत्तिः, ब्राह्मणेषु वासिष्ठेषु वधादिकृत्याप्रवृत्तिः, एतत्सर्वं ब्राह्मणत्वेच्छया प्रवर्तमानतपसो विनाशाय दैवकृतमिति बोध्यम् ॥ १।५९।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥