क्रोधसमन्वितमिति ऋषिपुत्रशतविशेषणम् ॥ १।५८।१ ॥
दुर्मेधः दुर्बुद्धे शाखान्तरं याजनादिना रक्षकान्तरम् ॥ १।५८।२ ॥
न चातिक्रमितुं शक्यम् । इक्ष्वाकुभिरिति शेष ॥ १।५८।३ ॥
सोवाचेति “सो ऽचि लोपे चेत्” इति साधु । तम् क्रतुम् । यमशक्यमित्युवाच तं यज्ञमित्यर्थः । कथं च । कथमपि न शक्ता इत्यर्थः ॥ १।५८।४ ॥
बालिशो ऽज्ञः । त्रैलोक्यस्यापि सिद्ध्यर्थम् । याजने इत्यर्थः । भगवान्वसिष्ठः ॥ १।५८।५ ॥
अवमानं तेनासाध्यतयोक्तार्थस्य साधनरूपम् ॥ १।५८।६ ॥
एतान्वासिष्ठान् ॥ १।५८।७ ॥
अन्यां गतिम् याजकान्तरम् । घोराभिसंहितम् घोराभिप्रायसंयुक्तम् । कुलगुर्वतिक्रमेणान्याश्रयस्य कुलनाशहेतुतया तदभिप्रायस्य घोरत्वम् ॥ १।५८।८ ॥
चण्डालत्वं गमिष्यसीति शेपुरिति योजना । तादृशपापिष्ठदर्शनस्य पापजनकत्वात्स्वस्वाश्रमप्रवेशस्तेषाम् ॥ १।५८।९ ॥
परुषो रूक्षाङ्गः । ध्वस्तमूर्धजः खर्वकेशः ॥ १।५८।१० ॥
चिता श्मशानं तत्र भवं पुष्पभस्मादि माल्याङ्गरागो यस्य । अयोविकार आयसं तदाभरणः । त्यज्य त्यक्त्वा ॥ १।५८।११ ॥
अनुगामिनः सहगताः । प्राद्रवंस्तं त्यक्त्वा गताः । परमात्मवान्धीरः ॥ १।५८।१२ ॥
दह्यमान इत्यस्य दुःखेनेत्यादि । विश्वामित्रं जगामेति पूर्वेणान्वयः । वसिष्ठवैरित्वाद्विफलीकृतं वसिष्ठतत्पुत्रैर्विनाशितैहिकामुष्मिकार्थम् ॥ १।५८।१३,१४ ॥
यस्त्वं शापाच्चण्डालतां गतस्तस्य त इहागमनकार्यं किमित्यन्वयः ॥ १।५८।१५१७ ॥
यं काममुद्दिश्य गतस्तं काममनवाप्य नैतावदेव, अपि तु विपर्ययो जातिभ्रंश एवंवेषरूपः । काममाह सशरीर इत्यादि । इतीत्यस्य काम इति शेषः । सौम्यदर्शनेति सम्बोधनम् ॥ १।५८।१८ ॥
तच्च तथापि । तत्फलं सशरीरस्वर्गप्रप्तिरूपं नावाप्यत इत्यन्वयः । क्रतुशतं न कृतं त्वयेति चेत्तत्राह अनृतमिति ॥ १।५८।१९ ॥
कृच्छ्रेष्वपि गतो ऽनृतं न वक्ष्य इत्यन्वयः । क्षत्रधर्मेण तत्साक्षितया ॥ १।५८।२० ॥
शीलम् सद्गुणः । वृत्तमाचारः । इच्छत ममेति शेषः ॥ १।५८।२१ ॥
न गच्छन्ति न गच्छन्ति स्म । यदेवमतो दैवमेव प्रारब्धफलमदृष्टमेव । परं श्रेष्ठं हिताहितप्रापणे पौरुषमिदानीन्तनधर्मानुष्ठानं निरर्थकम् । प्रारब्धतिरस्कारे दुर्बलमित्यर्थः ॥ १।५८।२२ ॥
दैवमुक्तम् । आक्रम्यते ऽभिभूयते । परमा गतिः साक्षादितरतिरस्कारेणैहिकसुखदुःखदम् । प्रसादं दैवनानुकूल्यसमर्थं त्वदीयं प्रसादमिच्छतो मे प्रसादं कर्तुमर्हसि । दैवेनोपहतं तिरस्कृतमिहानुष्ठीयमानं कर्म यस्य ॥ १।५८।२३,२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे ऽष्टपञ्चाशः सर्गः ॥ ५८ ॥