तत इति । कृतवैर इति । इदमेव तपोनाशकमस्य ॥ १।५७।१ ॥
तताप । तपश्चकारेत्यर्थः ॥ १।५७।२ ॥
तपसो घोरत्वं दर्शयति फलेत्यादि । दान्तो जितेन्द्रियः । पुत्रा हविष्पन्दादयः ॥ १।५७।३ ॥
ब्रह्मर्षित्वाय ब्रह्मविद्यया तपःकरणात्तदधिदैवतत्वाद्ब्रह्माब्रवीत् ॥ १।५७।४६ ॥
देवैः सह त्रिविष्टपं स्वर्गं गत्वा तदनु स्वलोकं गतः । लोकानाम् भूरादीनाम् ॥ १।५७।७ ॥
समन्युः सदैन्यः स्वं प्रत्येवेदं वचःसु महति तपसि कृते ऽपि सर्षिगणा देवा मां राजर्षिरित्येव विदुरवगच्छन्ति । तस्मादस्य तपसस्तद्ब्राह्मणत्वं फलं नास्त न भवतीति मन्ये ॥ १।५७।८,९ ॥
परमात्मवान्परमात्मध्यानवान्परमधीरश्च ॥ १।५७।१०,११ ॥
गच्छेयम् । यज्ञबलेनेति शेषः । देवतानां परा गतिः स्वर्गः ॥ १।५७।१२ ॥
अशक्यत्वकथनपूर्वकं प्रत्याख्यानबीजं च प्रसिद्धं त्रिशङ्कुत्वमेवेति पुराणेषु स्पष्टम् ॥ १।५७।१३ ॥
तत्कर्म सशरीरस्वर्गप्रापकयज्ञकर्म । तस्य वसिष्ठस्य पुत्रा यत्र तेपिरे । तत्र गत्वेति शेषः । तस्य पुत्रान्गतः प्राप्तः ॥ १।५७।१४ ॥
शतशब्देन स्वावयवगतबहुत्वेन बहुवचनम् । अनिभिधानात् । शतशब्दः सङ्ख्यावाची सङ्ख्येयवची च विंशत्यादिवत् । अत्र तु सङ्ख्येयवाची । शतं वसिष्ठपुत्रान् । शतसङ्ख्याकानित्यर्थः । अत्रावयवप्राधान्येन तद्बहुत्वेन बहुवचनं प्राप्तं तदनभिधानान्न भवति । एकवचनमेव भवति यथा विंशतिर्ब्राह्मणाः । सङ्ख्यावाचिनो ऽप्येकवचनं ब्राह्मणानां शतमिति यथा । अतो वसिष्ठपुत्रानित्यनेन शतमित्यनेन च सामानाधिकरण्यम् ॥ १।५७।१५ ॥
ह्रिया तत्पितृकृतप्रत्याख्यानजया । महात्मन इति द्वितीयार्थे महात्मान इत्यार्षम् ॥ १।५७।१६ ॥
शरण्यान्रक्षणसमर्थान् । शरणं गतो ऽन्येषां रक्ष्याणां शरणं गतो ऽपि । शरणत्वं प्राप्तो ऽपीत्यर्थः ॥ १।५७।१७,१८ ॥
ब्राह्मणानन्वर्थब्राह्मणान् ॥ १।५७।१९ ॥
सिद्ध्यर्थम् सशरीरस्वर्गगमनसिद्ध्यर्थम् ॥ १।५७।२० ॥
गुरुपुत्रानृते तान्विनान्यां काञ्चन गतिमहं न पश्यामीत्यन्वयः ॥ १।५७।२१ ॥
“अयं श्लोकः प्रक्षिप्त” इति कतकस्वरसः । तस्मादिक्ष्वाकूणां परमगतिरूपात्पुरोधसो वसिष्ठादनन्तरमित्यर्थः ॥ १।५७।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥