एवमुक्तो न भविष्यसीत्युक्तः ॥ १।५६।१,२ ॥
तिष्ठ तिष्ठेति भीषयन्तं प्रति स्वभीत्यभावमाह स्थितो ऽस्म्येष इति । तव शस्त्रस्य दर्पं त्वया लब्धं यदस्त्ररूपं शस्त्रं तत्प्राप्तिजं ते तव दर्पम् ॥ १।५६।३,४ ॥
क्षत्रियपांसनेत्युक्त्वा स्थितस्य तस्य वसिष्ठस्य ब्रह्मदण्डेन गाधिपुत्रस्याग्नेयं शान्तमासीत् ॥ १।५६।५८ ॥
दयितम् । शिवस्येति शेषः ॥ १।५६।९१२ ॥
ग्रसते स्म ॥ १।५६।१३ ॥
अग्निपुरोगमो वायुस्तत्सहिताः । अग्निसहितो वायुः पुरोगमो येषां युद्ध इति वा ॥ १।५६।१४ ॥
समुदीरिते प्रयुक्ते ॥ १।५६।१५ ॥
ब्राह्मेण तेजसा ब्रह्मविद्याभ्यासजेन तेजसा युक्तेन ब्रह्मदण्डेन करधृतेन ग्रसते स्मेत्यन्वयः । ब्राह्मेणैव तेजसा ब्राह्मतेजःशमनस्य साध्यत्वादिति भावः ॥ १।५६।१६ ॥
त्रैलोक्यमोहनं भयात्ित्रलोकीचित्तमूर्च्छाकरम् । रौद्रम् स्मरणे ऽपि भयदम् । सुदारुणं दुर्दर्शं नृसिंहवीरभद्रादिवत् । “घोरम्” इति पाठान्तरम् । तुल्यो ऽर्थः ॥ १।५६।१७ ॥
रौद्रदारुणत्वे उपपादयति रोमेत्यादि । रोमकूपेषु रोमकूपेभ्यः । मरीच्यो विस्फुलिङ्गा । ऋषेर्विश्वामित्रब्रह्मास्त्राकुलत्वाद्धूमाकुलार्चिष्ट्वमग्नेर्विशेषणम् ॥ १।५६।१८ ॥
विधूमः कालाग्निरिव ब्रह्मदण्डश्च प्राज्वलत् । तत्समर्पितब्रह्मतेजसेति भावः ॥ १।५६।१९ ॥
ततो ऽस्तुवन्साधु साध्वित्युपश्लोकितवन्तः । हे ब्रह्मन् ते बलममोघमस्तु । अरातावविसर्जनेनाक्षीणमस्तु । प्रतिब्रह्मास्त्रं मा प्रयुङ्क्ष्वेति यावत् । पारक्यं तेजः स्वतेजसा सहजेन धारय विलाप्यैकीकुरु ॥ १।५६।२० ॥
नन्वरौ स्थिते कथमप्रतियोगो ऽत आह निगृहीत इति । ब्रह्मास्त्रग्रासेन नष्टसामर्थ्यः स्वत एव मृतप्रायो जात इत्यर्थः ॥ १।५६।२१ ॥
शमं चक्रे । प्रतियोगतो ऽरातिनाशनादुपरत इत्यर्थः । विनिकृतो निरस्तसर्वशक्तिः ॥ १।५६।२२ ॥
क्षत्रियबलं धिक् । केवलं निन्द्यं बलमित्यर्थः । ब्रह्मतेजोबलं प्रशस्तं बलम् ॥ १।५६।२३ ॥
प्रसन्नेन्द्रियमानसः । परित्यक्तक्षत्रस्वभाव इति यावत् ॥ १।५६।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥