०५५ विश्वामित्रास्त्रमोक्षणम्

आकुलान्पलायमानान् । कामधुगिति सम्बोधनम् । योगतो योगमहिम्ना ॥ १।५५।१,२ ॥

रोमकूपेषु रोमकूपेभ्यः । म्लेच्छहारीतकिराता जातिविशेषाः ॥ १।५५।३ ॥

विश्वामित्रस्य तत्सैन्यम् ॥ १।५५।४ ॥

विश्वामित्रसुतानां शतमृषिरेव धेनोर्बलम्, अतो ऽमेव नाशनीय इत्याशयेन वसिष्ठमभ्यधावत् ॥ १।५५।५ ॥

हुङ्कारेण तपोबलसम्भृतेन । क्षत्रियत्वे ऽपि पृथिवीपतित्वाभावात्तद्वधे ऽल्पप्रायश्चित्तम् । आततायित्वाच्चेति भावः ॥ १।५५।६ ॥

मुहूर्तेन भस्मीकृता इत्यपवर्गे तृतीया । मासेनानुवाको ऽधीत इतिवत् ॥ १।५५।७ ॥

सर्वान्पुत्रान् । सव्रीडमिति क्रियाविशेषणम् ॥ १।५५।८ ॥

निर्वेगत्वे समुद्रोपमा । निष्प्रभत्वे इतरे उपमे । उपरक्तो राहुग्रस्तः ॥ १।५५।९ ॥

हतसर्वबलोत्साहः सर्वाणि बलानि शारीरबौद्धास्त्रादीनि तज्जन्योत्साहहीनः । निर्वेदम् सर्वत्र निष्फलत्वबुद्धिजं चित्तखेदम् ॥ १।५५।१० ॥

एकम् । अवशिष्टमिति शेषः । राज्याय राज्यं रक्षितुम् । पृथिवीं क्षत्रधर्मेण पालयेति नियुज्येत्यन्वयः ॥ १।५५।११,१२ ॥

दर्शयामास । आत्मानमिति शेषः ॥ १।५५।१३१५ ॥

साक्षादुपकारकाण्यङ्गानि, आरादुपकारकाण्युपाङ्गानि, मन्त्रा उपनिषदः । समाहारद्वन्द्वे “द्वन्द्वाच्चुद्” इति टच् । तेन सहितो धनुर्वेद इत्यर्थः । रहस्यमाचार्यमुखैकगम्यं विद्याजातम् ॥ १।५५।१६,१७ ॥

प्रसादात् । न तूपदेशापेक्षेति भावः ॥ १।५५।१८ ॥

क्षत्रियत्वात्सहज एव दर्पस्तस्य पूर्तिरस्त्रलाभात् ॥ १।५५।१९,२० ॥

यैरस्त्रैरस्त्रतेजसा स्वीयतेजसा तपोवनं निर्दग्धं भवेत्तान्यस्त्राणि मुमुचे इत्यन्वयः ॥ १।५५।२१ ॥

विश्वामित्रस्य । शेषे षष्ठी । तेनोदीर्यमाणम् विसृज्यमानम् ॥ १।५५।२२ ॥

भयाद्भयहेतोरस्त्रजालात् । नानादिग्भ्यः व्यत्ययेन द्वितीयार्थे चतुर्थी पञ्चमी वा ॥ १।५५।२३ ॥

शून्यम् सर्वप्राणिपलायनात् । अत एव निःशब्दमिव । ईरिणमूषरम् । निर्वृक्षनिर्मानुषकान्तारसदृशमिति यावत् ॥ १।५५।२४ ॥

वदतो वै । वदतो ऽपीत्यर्थः । तादृशस्यापि वसिष्ठस्य वचनमनादृत्य दुद्रुवुरित्यर्थः ॥ १।५५।२५ ॥

एवमुक्त्वा पलायमानप्राणिजातं प्रतीति शेषः । इदम् वक्ष्यमाणम् ॥ १।५५।२६ ॥

यद्यस्मान्म आश्रमं विनाशितवानसि, यद्यस्माच्च, हि प्रसिद्धम् । दुराचारो मूढस्त्वम्, तस्मान्न भविष्यसि । नङ्क्ष्यसीत्यर्थः ॥ १।५५।२७ ॥

विधूमः कालाग्निरिव क्रोधाद्वसिष्ठो ऽपरं यमदण्डमिव दण्डमुद्यम्य तस्थाविति शेषः ॥ १।५५।२८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥