०५४ शबलापहरणम्

अथ दण्डोपायप्रवृत्तिमाह कामधेनुमिति । न त्यजते नात्यजत् । अन्वकर्षत । बलादिति शेषः ॥ १।५४।१,२ ॥

राजभृतैः राजसेवकैः । “भटैः” इति क्वचित्पाठः । ह्रियेय । कर्मणि लिङ् । भृशदुःखिता भृशेनातिशयेन दुःखिता अस्मीति शेषः । भृशशब्दो बहुपर्यायो वा ॥ १।५४।३ ॥

अपकृतमपराद्धम् । दृष्ट्वा ज्ञात्वापि । भक्ताम् सेवापराम् ॥ १।५४।४,५ ॥

शतशो भृत्यान्स्वकर्षकान् । पादमूलम् पादसमीपम् । महात्मनो वसिष्ठस्य ॥ १।५४।६ ॥

रोदनमश्रुपातः । क्रोशनमार्तशब्दः । रुदन्त्या एव ऋषिसमीपगमनं रुदन्त्यैव च कथनमित्येतदर्थं द्वी रुदन्तीति ॥ १।५४।७ ॥

सकाशः समीपम् ॥ १।५४।८ ॥

स्वसा भगिनी ॥ १।५४।९ ॥

बलात्क्षात्रात् । मत्तो ऽविवेकी ॥ १।५४।१० ॥

मह्यम् मम । नहि तद्बलेन तुल्यमित्यर्थः । तपोबलेन तर्हि दण्ड्यताम् । तत्राह राजा त्वित्यादि । राजत्वात्तपोबलेन न दण्ड्य इति भावः । तद्वक्ष्यति किष्किन्धायाम् “दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिप्रेन्नाप्रियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले ॥ " इति। अद्य विशेषतः। अवध्य इति शेषः। अद्य कृतातिथ्यके दिने। तेनातिथित्वाद्विशेषतोऽवध्य इति भावः। बली राजेत्यनेन युद्धाज्येयत्वमुक्तम्। पृथिवीपतिक्षत्रियत्वेन तद्वधस्य महापातकसमता बोधिता ॥

१।५४।११ ॥

बलित्वमेवोपपादयति इयमिति । हस्तिस्थैर्ध्वजैः समाकीर्णा ॥ १।५४।१२ ॥

विनीतवद्विनयोपेतम् ॥ १।५४।१३ ॥

न बलमल्पबलम् । बलवत्तराः क्षत्रियादिभ्यः । क्षात्रात्क्षत्रियबलादपि बलवत्तरमधिकम् ॥ १।५४।१४ ॥

तुभ्यम् तव । न त्वया । सदृशो ऽपीति शेषः । बलवत्तर इति । दूरे इति शेषः । महावीर्यो महावीर्यो ऽपि । तत्र हेतुस्तेजस्तवेत्यादि ॥ १।५४।१५ ॥

ननु त्वमेव तस्य बलं नाशय । तत्राह नियुङ्क्ष्वेति । कामधेनुत्वान्नियोगापेक्षा परकाम्यार्थसृष्टावेव तस्याः सामर्थ्यात् । ब्रह्मबलसम्भृतां तादृशकार्यसमर्थत्वेन मां ध्यायस्वेत्यर्थः ॥ १।५४।१६,१७ ॥

हुम्भानाम गवां शब्दाः । पह्लवशकयवनकाम्बोजबर्बरा म्लेच्छजातिविशेषाः ॥ १।५४।१८ ॥

पश्यत इत्यनादरे षष्ठी । विस्फारितम् विवृतम् ॥ १।५४।१९ ॥

अर्दिताः पीडिताः ॥ १।५४।२०,२१ ॥

प्रभा दुर्निरीक्ष्यं तेजः । हेम्नः किञ्जल्कस्य च सदृशैः । हेमवर्णाम्बरम् पीताम्बरम् ॥ १।५४।२२,२३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥