यस्य यस्य यथा यथेप्सितम् तथा तथा सर्वान्कामान्विदधे इत्यर्थः ॥ १।५३।१ ॥
तदेव प्रपञ्चयति इक्षूनिति । सविकारानिक्षून् । मधून्क्षौद्राणि । मैरेयं च धात्रीधातकीगुडवारिभिः कृतं मद्यम् । भक्ष्यानपूपादीन् । उच्चावचाननेकविधान् ॥ १।५३।२ ॥
उष्णाढ्यस्योष्णत्वगुणयुक्तस्य । राशयः । आसन्निति शेषः । मृष्टान्यन्नानि पायसभेदाः । दधिकुल्या इत्युपलक्षणं दुग्धादेरपि ॥ १।५३।३ ॥
अनेकविधस्वादुरसयुतानां खाण्डवानां भक्ष्यविशेषाणाम् । शेषे षष्ठी । तैः पूर्णानि भोजनानि भोजनपात्राणि । गौडानि राजतानि । आसन्निति शेषः । “रजते गुडः” इत्यभिधानमिति कतककृत् ॥ १।५३।४ ॥
हर्षश्चित्तसन्तोषः पुष्टिर्देहपुष्टिस्तद्युक्तजनैरासमन्ताद्युक्तम् ॥ १।५३।५ ॥
अन्तःपुरश्रेष्ठैः सहितः ॥ १।५३।६ ॥
अमात्याः कर्मसचिवाः । मन्त्रिणो मन्त्रस्य सचिवाः । पूजितः आतिथ्येन सत्कृतः ॥ १।५३।७ ॥
पूजार्हेण मादृशपूजाकरणयोग्येन । पूजित इत्यस्यैव विवरणमादरातिशयद्योतनाय सुसत्कृत इति । हर्षाद्वा पुनरुक्तिरदोषः ॥ १।५३।८ ॥
शतसहस्रेण । निष्क्रयभूतेनेति शेषः ॥ १।५३।९ ॥
धर्मतो न्यायतः । पार्थिवस्य रत्नस्वामित्वाद्रत्नहरत्वाच्च ममैषा योग्येति शेषः ॥ १।५३।१०१२ ॥
कुत इयं परित्यागं नार्हेत्यत्राह शाश्वतीति । यथात्मवतो राजयोगवतो विद्यादिजा कीर्तिः शाश्वती नित्यसम्बद्धा एवं मह्यं ब्रह्मदत्ता शबला नित्यं मत्सम्बद्धा । एवमादरे बीजमाह हव्यम् दैवम् । कव्यम् पित्र्यम् । प्राणयात्रा जीवनम् ॥ १।५३।१३ ॥
आयत्तमधीनम् । बलिर्भूतबलिः । होमो वैश्वदेवादिः । आयत्त इत्यस्य सर्वत्रानुकर्षः । स्वाहाकारवषट्कारौ तत्साध्ययज्ञौ । विद्या इति एतत्पयःप्राशनेन चित्तशुद्धेः प्राणतृप्तेर्देहपाटवाच्च तत्साध्यविद्यानामेतदायत्तत्वम् ॥ १।५३।१४ ॥
एतत्सर्वमातिथ्यादि । एतच्छबलारूपमेव मे सर्वस्वम् । सत्येन । शपे इति शेषः । तथा दर्शनादिना मम तुष्टिकरी च ॥ १।५३।१५ ॥
कारणैरुक्तैः साभिप्रायं चैतद्बोध्यम् ॥ १।५३।१६ ॥
संरब्धतरमत्याग्रहयुक्तम् । हैरण्या हिरण्यविकाराः । कक्षा घण्टोपेतमध्यबन्धनार्थाशृङ्खलाः । ग्रैवेयम् ग्रीवालङ्कारशृङ्खलादि ॥ १।५३।१७ ॥
श्वेताश्वानां चतुर्युजाम् । चतुःसङ्ख्याकश्वेताश्वयुतानामित्यर्थः । आर्षः समासः । “रथानां च” इति पाठः ॥ १।५३।१८ ॥
किङ्किणीकविभूषितानिति षष्ठ्यर्थे द्वितीया । रथानां विशेषणमेतत् । देशो बाह्लीकादिः । कुलमुच्चैःश्रवआदीनाम् । गन्धर्वकुलं वा । “गन्धर्वकुलजातस्त्वम्” इति पुराणवचनात् ॥ १।५३।१९ ॥
अनेकवर्णैर्विभक्तानाम् प्राप्तभेदानाम् । वयःस्थानाम् तरुणीनाम् । “वयःस्थस्तरुणो युवा” इति कोशात् । एकां कोटिमित्यन्वयः ॥ १।५३।२० ॥
यावदिति । इतो ऽप्यधिकं वा यावदिच्छसीत्यर्थः ॥ १।५३।२१,२२ ॥
एतच्छबलारूपं वस्तु ॥ १।५३।२३ ॥
आप्तदक्षिणा इत्यनेन हव्यादिवद्दक्षिणाप्येतदधीनेति सूचितम् । एतदेव क्रिया इत्यस्यैव विवरणम् ॥ १।५३।२४ ॥
अतोमूलाः । एतन्मूला इत्यर्थः । सर्वथा दानाभावे हेतुगर्भं विशेषणम् । कामदोहिनीमिच्छाविषयदोहनशीलाम् । काव्यलिङ्गमलङ्कारः ॥ १।५३।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥