वसिष्ठं प्रणतो वसिष्ठेन स्वागतमित्युक्तश्चेति योजना ॥ १।५२।१ ॥
व्यादिदेशादापयत् ॥ १।५२।२ ॥
फलमूलमिति जातित्वादेकवत्त्वम् ॥ १।५२।३,४ ॥
वनस्पतिशब्देन वृक्षमात्रं न तु विनापुष्पं फलवन्त एव तद्विषये ऽपि कुशलं पर्यपृच्छत । सर्वत्र तत्पृष्टसर्वविषये ॥ १।५२।५ ॥
जपताम् तपस्विनाम् ॥ १।५२।६ ॥
कच्चिदिति प्रश्ने । हे धार्मिक, धर्मेण तदनुष्ठानेन प्रजा रञ्जयन् । राजवृत्तेन “न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥ " इत्युक्तेन राजवृत्तेन पालयामास इत्यन्वयः ॥
१।५२।७ ॥
सम्भृता वेतनदानादिना ॥ १।५२।८ ॥
बलेषु चतुरङ्गेषु । कोशेष्वर्थसमूहेषु । पुत्रपौत्रे । गवाश्वप्रभृतित्वादेकवत्त्वम् ॥ १।५२।९ ॥
एको वसिष्ठशब्दो वरिष्ठवाची ॥ १।५२।१० ॥
तावुक्तविशेषणकौ वसिष्ठविश्वामित्रौ । ताः कथा अन्योन्यकुशलप्रश्नोत्तरादिरूपाः । प्रीयेताम् अडभाव आर्षो लङि ॥ १।५२।११ ॥
प्रहसन्निवोत्तमातिथिलाभजहर्षेण ॥ १।५२।१२ ॥
सम्प्रतीच्छ मे मत्कृतमातिथ्यमङ्गीकुरु ॥ १।५२।१३ ॥
हेतुगर्भं विशेषणमितिथिश्रेष्ठ इति ॥ १।५२।१४ ॥
पूजावाक्येनातिथ्यं करिष्यामीत्येवंरूपेणैव मम पूजनं कृतमिति राजाब्रवीत् ॥ १।५२।१५ ॥
विद्यते यत्तवाश्रमे फलमूलं तेन पूजित इत्यनेन राजभोज्याभावादनेनैव वयं सन्तुष्टा इति ध्वनिः ॥ १।५२।१६ ॥
पूजार्हेण । त्वयेति शेषः । मैत्रेण स्नेहयुक्तेन । मत्वर्थीयाजन्तम् ॥ १।५२।१७ ॥
निमन्त्रणम् भोजनाङ्गीकाराय प्रार्थनम् ॥ १।५२।१८ ॥
बाढमित्यस्य विवरणम् यथाप्रियमित्यादि ॥ १।५२।१९ ॥
तेन विश्वामित्रेण । कल्माषीम् चित्रवर्णां होमधेनुम् ॥ १।५२।२० ॥
शबले तन्नामे, अस्य राजर्षेर्महार्हेण भोजनेन सत्कारं कर्तुं व्यवसितो ऽस्म्युद्युक्तो ऽस्मि । तं मे व्यवसायं संविधत्स्व सम्पादय । तदुपयोगिपदार्थदानेनेति शेषः ॥ १।५२।२१ ॥
षड्रसेषु मधुरादिषु यस्य यस्य यदभिपूजितमभीष्टम्, तत्सर्वं यथाकामं तत्प्रीत्यनतिक्रमेण मम कृते मत्तोषार्थम् ॥ १।५२।२२ ॥
रसेनान्नेन रसयुतान्नेन भक्ष्यशष्कुल्यादिना । रसेनेति सर्वान्वयि । पानेन पानकरसादिना । लेह्यम् जिह्वाग्राह्यं क्षौद्रादि । चोष्यमधरपुटग्राह्यमाम्रफलादि । अन्नानां शाल्यन्नादीनां निचयम् राशिम् ॥ १।५२।२३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥