तस्येति । हृष्टरोमा स्वमातुः शापोद्धारश्रवणजसन्तोषेण जातरोमाञ्चः ॥ १।५१।१ ॥
परं विस्मयमिति । भगवद्दर्शनस्यान्यासुलभत्वात् ॥ १।५१।२ ॥
निषण्णावासने ॥ १।५१।३ ॥
उक्तमप्यर्थमुत्कण्ठातिशयेन पुनः पृच्छति दार्ढ्याय अपि ते इति । अपिः प्रश्ने । ते त्वया ॥ १।५१।४ ॥
रामे रामविषये । पूजार्हे इति रामविशेषणम् ॥ १।५१।५ ॥
देवेनेन्द्रेण दुरनुष्ठितं गौतमवेषधारणपूर्वकं तत्कर्तृकदुरनुष्ठानरूपं मातुर्यद्वृत्तं चरितं पुरातनं तद्रामाय कथितमित्यन्वयः । महातेज इति विश्वामित्रसम्बोधनम् ॥ १।५१।६ ॥
मम गुरुणा मम मातेत्यन्वयः । अत्र वारद्वयं ममेति प्रयोगो हर्षातिशयात् । रामसन्दर्शनादित इतस्य गतशापेति शेषः । आदिना पूजापादस्पर्शौ ॥ १।५१।७ ॥
महातेजा रामो मद्गुरोः सकाशात्पूजां प्राप्येह यज्ञभूमावागत इति पृष्टस्यैवार्थस्य भङ्ग्यन्तरेण प्रश्नः ॥ १।५१।८ ॥
शान्तेन मनसोपलक्षितो मे गुरुरिहागतेन गौतमाश्रम आगतेन गौतमपूजितेन रामेणाभिवादितः । न तु मन्मातृदोषात्तिरस्कृत इति प्रश्नान्तरम् । पूजाङ्गीकारवन्दने अतिरस्कारचिह्नमिति भावः ॥ १।५१।९,१० ॥
यत्कर्तव्यं तन्नातिक्रान्तम् न विस्मृतम् । किन्तु मया कृतमेवेत्यर्थः । भार्गवो जमदग्निस्तत्कोपहता रेणुका परशुराममाता यथा जमदग्निना सङ्गता तद्वदित्यर्थः ॥ १।५१।११,१२ ॥
दिष्ट्या भाग्येन ॥ १।५१।१३ ॥
विश्वामित्रयत्नत एव तेन सह प्राप्तिस्तत एव च मातुः शापोद्धार इति तं स्तौति अचिन्त्येत्यादिना । मनसाप्यन्येनाशक्यचिन्तनम(प्र)तिसृष्ट्यादिकर्ता । परमां गतिम् जगतः परमहितप्रदम् । अन्ये तव मम चेत्याहुः ॥ १।५१।१४ ॥
गोप्तास्त्रदानादिना ॥ १।५१।१५ ॥
बलम् तपोबलम् । यथा यादृशम् । तत्त्वं ब्रह्मर्षित्वं च यथा तच्छृण्वित्यर्थः । “वृत्तम्” इति क्वचित्पाठः । वृत्तम् चरितम् ॥ १।५१।१६,१७ ॥
स राजा कस्य पुत्रस्तत्राह प्रजापतीत्यादि ॥ १।५१।१८,१९ ॥
अकारयत् स्वार्थे णिः ॥ १।५१।२० ॥
वरूथिनीम् चतुरङ्गबलम् । योजयित्वा समुपस्थाय तद्रूपाक्षौहिणीसङ्ख्यसेनापरिवृतो भूत्वा ॥ १।५१।२१२३ ॥
तपोतिशयात्प्रशान्तहरिणत्वम् ॥ १।५१।२४ ॥
ज्ञानमात्राधिकृता नारदाद्या देवलोकसञ्चारिणो देवर्षयः । ज्ञानकर्मोभयाधिकृता ब्रह्मर्षयो भूप्रतिष्ठाः । अग्नितुल्यैर्ऋषिभिः सङ्कुलं व्याप्तमित्यन्वयः ॥ १।५१।२५ ॥
तथा ब्रह्मकल्पैश्चतुर्मुखतुल्यैः । तस्यैव सहजतपोवैभवात् । अब्भक्षैस्तन्मात्रभक्षैः सङ्कुलम् ॥ १।५१।२६ ॥
ब्रह्मरोमनखजा वालखिल्या वैखानसाश्च । “ये नखास्ते वैखानसाः ये वालस्ते वालखिल्याः” इति श्रुतेरिति कतकः ॥ १।५१।२७ ॥
परमकल्याणस्वभावाद्ब्रह्मलोकोपमाश्रमस्य । जयताम् शूराणाम् ॥ १।५१।२८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥