प्रागुत्तरामैशानीम् । ततो गौतमाश्रमात् ॥ १।५०।१,२ ॥
बहूनीति । दृश्यन्त इति शेषः ॥ १।५०।३ ॥
शकटीतमग्निहोत्रसम्भारवाहकम् । ऋषिवाटा यज्ञार्थमागतानां साग्निहोत्रऋषीणां निवासाः । एवं नैबिड्यात्स्वावासदेशविचारः । देश इत्यादि । देशो निवासस्थानम् । विधीयताम् विचार्यताम् ॥ १।५०।४ ॥
विविक्ते सलिलन्वित इत्यनेनानुष्ठानसौकर्यम् ॥ १।५०।५,६ ॥
ऋत्विजो ऽपीत्यत्र पुरस्कृत्येत्यनुकर्षः ॥ १।५०।७ ॥
धर्मेण शास्त्रमार्गेण । ददौ अर्ध्यमिति शेषः । धर्मपुरस्कृतमित्यर्घ्यविशेषणम् । “महाजं वा महोक्षं वा श्रोत्रियायोपकल्पयेत्” इति शास्त्रोक्तेन धर्मसाधनेन पुरस्कृतम् । तत्सहितमिति यावत् ॥ १।५०।८ ॥
राज्ञः कुशलम् निरामयम् । यज्ञस्य निरामयं कुशलं निर्विघ्नत्वमविकलत्वं वा यज्ञस्य कुशलम् । स विश्वामित्रस्तानर्घ्यदातृ़न्पृष्ट्वा । कुशलमिति शेषः ॥ १।५०।९ ॥
यथार्हम् यथान्यायम् । प्रहृष्टवत्प्रहर्षवत् । तोषसहितं यथा भवति तथेत्यर्थः । समागच्छत्सन्तोषसहितमालिङ्गनं यथा भवति तथा सर्वैः सङ्गतो बभूवेत्यर्थः ॥ १।५०।१०१२ ॥
यज्ञसमृद्धिरङ्गवैकल्यराहित्यं साद्गुण्यं च । अत एव सफला कृता । इष्टिरिति शेषः ॥ १।५०।१३,१४ ॥
तत्र हेतुमाह यज्ञोपसदनमिति । यज्ञस्थानम् । द्वादशाहम् द्वादशदिनानि । दीक्षां कर्तव्यत्वेनाहुः । दीक्षायास्तावन्ति दिनान्यवशिष्टानि । ऋत्विज आहुः ॥ १।५०।१५ ॥
विश्वामित्रस्य योगेन सर्वसामर्थ्यादाह देवान्द्रष्टुमर्हसीति ॥ १।५०।१६ ॥
इमौ कुमारावित्यादि व्याख्यातप्रायम् ॥ १।५०।१७,१८ ॥
पद्भ्याम् वाहनरहिताभ्याम् । पद्वपत्रकोमलत्वात्कथमेतद्दूरं प्राप्ताविति विस्मयः । किमर्थमिति प्रयोजनप्रश्नः । कस्य वेति । पुत्राविति शेषः । उत्तरश्लोको यदि प्रमाणं तर्ह्यस्यैव विवरणं बोध्यम् । केचित्तु कस्येतस्य पुरुषस्य कार्यं साधयितुमिति शेषमाहुः, तत्प्रयोजनप्रश्नेनैव गतार्थम् ॥ १।५०।१९२१ ॥
“निवेदयत्” इति पाठे ऽडभाव आर्षः ॥ १।५०।२२ ॥
तत्राव्यग्रमागमनं रक्षःसमाक्रान्ते ऽपि मार्गे भयरहितमागमनम् ॥ १।५०।२३ ॥
महाधनुषि जिज्ञासां तद्विषयां रामस्य दिदृक्षाम् । ज्ञानमिह दर्शनरूपम् । यद्वा धनुर्निष्ठसारजिज्ञासाम् । तथादृष्टस्य तस्य सज्जीकरणादिकं च कर्तुमागमनमित्येतत्सर्वं निवेद्य । “विरराम तदा” इति पाठे ऽर्थश्चिन्त्यः ॥ १।५०।२४,२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥ ५० ॥