धर्मधुरन्धरस्यापि शक्रस्याधर्मे प्रवृत्तौ बीजं दर्शयितुमाह अफल इति । अवृषण इत्यर्थः । त्रस्तेति । त्रासेन स्वकारणं दैन्यं व्यज्यते ॥ १।४९।१ ॥
सुरकार्यमिति । अन्यथा ह्युग्रतपसा सकलदेवस्थानापहारस्तेन कृतः स्यादिति भावः ॥ १।४९।२ ॥
साहल्या दुष्टचारित्रेति निराकृतोक्तशापपूर्वं त्यक्ता । एवमपि सुरकार्यनिष्पत्तिः कथं तत्राह शापेति । स्वस्मिन्गौतमकर्तृकशापमोक्षणेनास्य तपो मया हृतम् । महतः शापेन विना न तपोव्यय इति भावः । तपोव्ययसम्पादकक्रोधोत्पादनमेव कार्यं मया कृतमिति तात्पर्यम् ॥ १।४९।३ ॥
सफलं माम् सवृषणम् । सर्वे इत्यस्य वारद्वयपाठे हे सर्वे सुरवराः सर्वे यूयमित्यन्वयो ज्ञेयः । परत्र “यूयम्” इत्येव पाठः प्रायेण ॥ १।४९।४ ॥
पितृदेवाः कव्यवाहनादयस्तानुपेत्य हव्यवाहनाग्निमुखेनाहुः । “अग्नेस्तु वचनं श्रुत्वा” इति वक्ष्यमाणत्वात् ॥ १।४९।५ ॥
अयं मेषो यो भवतां हविष्ट्वेन कल्पितः । गृह्य गृहीत्वा ॥ १।४९।६ ॥
अफलस्त्विति । नन्विदमयुक्तम् । नहि मेषा अवृषणा दृश्यन्त इति चेन्न । भवदुद्देशेन कृतो हविष्ट्वेन कल्पितो यो ऽफलः षण्ढो मेषः । यद्वा वृषण यद्वा वृषणाभिन्नो यो मेषो मेषावयवो भवद्धविष्ट्वेन कल्पितः स भवतां परां तुष्टिं दास्यतीत्यन्वयात् । ये वाफलं मेषं भवतां हर्षणार्थं तोषाय भवद्भ्यो दास्यन्ति तेषामक्षयं फलं यूयं दास्यथेत्यन्वयः ॥ १।४९।७ ॥
समागता मिलिताः ॥ १।४९।८ ॥
अफलान्षण्ढांस्तदंशरहितान्वा । यतस्तेषां फलैः फलाभ्यां वृषणाभ्यामिन्द्रमयोजयन् ॥ १।४९।९ ॥
तदाप्रभृति ततो हेतोरिन्द्रो मेषवृषण इत्यन्वयः । तपसा प्रभावेण तपःकृतप्रभावेण च स्वापचारेण च ॥ १।४९।१० ॥
महातेज इति रामसम्बोधनम् । पुण्यकर्मणो गौतमस्य । ननु ताटकयेव घोररूपयाहल्ययावष्टब्धमाश्रमं कथं गच्छेयमत आह देवरूपिणीमिति । शापस्यैतदवधिकत्वात् । अद्य त्वत्पादस्पर्शनान्मुक्तशापतया देवरूपिणीमित्यर्थः । एनां तारय भर्तृप्रत्यापत्तिफलकमातिथ्यं गृहीत्वा भर्तृप्रापणेनैनामनुगृहाण ॥ १।४९।११,१२ ॥
ददर्शेति । आश्रमप्रवेशकाले ऽनायासतः स्वचरणस्पर्शाद्व्यभिचारकृतपापनाशेन शापनिवृत्त्या शापवशात्सुरासुरैः समागम्य मिलित्वापि सर्वलोकैर्दुर्निरीक्ष्यां विश्वामित्रो यथावद्देवरूपिणीमिति तथा ददर्शेत्यर्थः । तदुक्तम् तपसा द्योतितप्रभामिति । एवं दर्शनं तत्समये रामलक्ष्मणविश्वामित्राणामेव । सर्वदृश्यत्वं तु भगवदातिथ्यकार्यमिति बोध्यम् ॥ १।४९।१३ ॥
प्रयत्नादित्यादिना दिव्यरूपत्वमुक्तम् । रामादेरपि दर्शनं नात्यन्तस्पष्टतया किंत्वेवंरूपेण । भर्तृसन्तोषकरस्य भर्तृसान्निध्यस्य शापान्तकरणस्याभावादित्याह धूमेनेति । धूमेनाभिपरीतानि व्याप्तान्यङ्गानि यस्याः सा ॥ १।४९।१४ ॥
उपमात्रयं भस्मावृतत्वेन । अम्भसो लक्षणया तद्युक्तमेघस्य मध्यस्थां रविप्रभावमिव ददर्श । दुराधर्षाम् स्प्रष्टुमशक्याम् ॥ १।४९।१५ ॥
तथादर्शने हेतुमाह सा हीति । त्रयाणामपि लोकानां दुर्निरीक्ष्यत्वशापवशाद्रामादीनामप्येवं दर्शनविषया जाता । अन्येषां त्वदृश्यैव । रामादीनां तु दुःखदृश्येत्यर्थः । शापस्यान्तं तदन्तस्यावधिकालं प्राप्य । तेषां रामादीनां दर्शनं पूर्वोक्तप्रकारेण दर्शनविषयत्वं प्राप्तेत्यर्थः । तथा च पाद्मे “गच्छतस्तस्य रामस्य पादस्पर्शान्महाशिला । काचिद्योषाभवत्सो ऽपि विस्मितो मुनिरब्रवीत् ॥ " शिला तत्प्रतिमाकारा। सोऽपि रामः। विस्मितः स एवासीत्। तथाभूतं तं दृष्ट्वा मुनिरवददित्यर्थः। “शापदग्धा पुरा भर्त्रा राम शक्रापराधतः। अहल्याख्या शिला जज्ञे शतलिङ्गः कृतः स्वराट् ॥
त्वदङ्घ्रिस्पर्शनात्तस्यै शापान्तं प्राह गौतमः । तस्मादियं ते पादाब्जस्पर्शाच्छुद्धाभवत्प्रभो ॥ " इति। यदुद्धारार्थं त्वं मयेहानीतः सैषैवेति शेषः। एवं मदुक्तरीत्या सर्वेषामविरोधे सम्भवति कल्पान्तरपरत्वेनाविरोधवर्णनं कतकाद्युक्तं चिन्त्यम्। यदपि “तेन धूमेन” इत्यादिसार्धश्लोके तामेव दुर्निरीक्ष्यामिति शेषं पूरयित्वा दुर्निरीक्ष्यत्वे हेतुमाह सा हीति। तेषां दर्शनमित्यत्र तेषां त्रयाणां लोकानामिति व्याख्यातं तदपि क्लिष्टम् ॥
१।४९।१६ ॥
तदा स्वपदस्पर्शमात्रेण शिलारूपतापरित्यागे गौतमवचः स्मरन्ती । मदाश्रमप्राप्तराघवपूजया पुनर्मत्सम्बन्ध इत्येवं तद्वचः स्मरन्तीत्यर्थः । स्वशिलारूपतापरित्यागमात्रेण तु तस्मिन्रामत्वनिश्चयो ऽस्याः । तौ रामपादौ प्रतिजग्राह स्पृष्ट्वा प्रणनाम । यत्तु तौ रामलक्ष्मणौ प्रतिजग्राह पूज्यत्वबुद्धिमकरोदिति, तन्न । अग्रे काकुत्स्थ इत्येकवचनप्रयोगात् ॥ १।४९।१७ ॥
सुसमाहिता ऽप्रमत्ता । काकुत्स्थो रामः । तस्यैव मुख्यतया पूजनात् ॥ १।४९।१८ ॥
देवदुन्दुभिनिःस्वनैः सह पुष्पवृष्टिरासीत् । रामस्याहल्यायाश्चेत्यर्थः ॥ १।४९।१९ ॥
रामपूजया निष्पापत्वादहल्यायाः पूजा । तपोबलविशुद्धाङ्गीं तद्बललब्धरामस्पर्शेन शुद्धाङ्गीमत एव गौतमस्य वशां तद्गतचित्ताम् । अत एव पूर्वं परत्र काले शरीरेणापि तदनुगाम् ॥ १।४९।२० ॥
अहल्यासहितः सुखीत्यनेन योगबलाद्रामागमनं ज्ञात्वा तद्बलादेव झटिति तदाश्रमप्राप्तिर्गौतमस्येति बोध्यम् ॥ १।४९।२१,२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥