०४८ अहल्याचरितम्

पृष्ट्वेति । सुमतिर्नाम विशालाराजा । महामुनिम् विश्वामित्रम् । कथान्ते मिश्वामित्रेण कथ्यमानकथान्ते ॥ १।४८।१ ॥

गजसिंहगती गजवद्धीरमन्दगती सिंहवदप्रतिहतगती । यद्वा प्रभुत्वाद्गजगती रामो ऽन्यगतिर्लक्ष्मणः । तथा शार्दूलाकृती रामो वृषभाकृतिर्लक्ष्मणः ॥ १।४८।२ ॥

पद्मपत्रविशालाक्षावित्यनेन भाग्यसम्पत्सूचिता । वीरधर्मसूचकं खङ्गेत्यादि ॥ १।४८।३ ॥

यदृच्छया दैववशसम्पन्ननिमित्तविशेषेण यया कयाचित्स्वेच्छयेत्यर्थो वा । देवलोकाद्गां भुवं प्राप्ताववतीर्णौ । अमराविव स्थितौ । किमर्थं किं वा प्रयोजनमुद्दिश्य । कथमतिसुकुमारचरणत्वात्केन प्रकारेण पद्भ्यामिह प्राप्तौ । कस्य वा । सुताविति शेषः ॥ १।४८।४ ॥

भूषयन्तौ । स्वतेजसेति शेषः । प्रमाणं शरीरौन्नत्यादि, इङ्गितमान्तराशयबोधकम्, चेष्टितं वचनगमनादि, तैस्तादृशपुरुषान्तराभावात्परस्परसदृशौ ॥ १।४८।५ ॥

आदरातिशयात्पुनः पृच्छति किमर्थं चेत्यादि । दुर्गमे कान्तारसम्बन्धात् ॥ १।४८।६ ॥

यथावृत्तं न्यवेदयत् । दशरथकुमारावस्मद्यज्ञविघ्ननिवारणाय मदाकारणान्मदुपालनात्सिद्धाश्रमं प्राप्य तत्र विघ्नकर्तृराक्षसादीन्हत्वा पथि ताटकां च हत्वा जनकदिदृक्षयैतद्देशमागताविति न्यवेदयत् ॥ १।४८।७ ॥

परमत्यन्तमादरणीयौ प्राप्तावतिथी तौ पूजयामासेत्यन्वयः ॥ १।४८।८ ॥

सुमतेरिति पञ्चमी । उष्योषित्वा आर्षमेतत् ॥ १।४८।९ ॥

पूजाप्रकारः साधुसाध्विति शंसनम् ॥ १।४८।१० ॥

मिथिलोपवने मिथिलासमीपवने । दृश्य दृष्ट्वा । पुराणमित्यादित्रयमाश्रमविशेषणम् ॥ १।४८।११ ॥

मुनिराहित्यादाश्रमवदस्याशक्यत्वम्, अत एवाश्रमसङ्काशमाश्रमवदवभासमानम् । अत इदं किं नु तस्यैव विवरणम् । कस्यायं पूर्वः पूर्वस्वभूतः ॥ १।४८।१२,१३ ॥

अहल्यानुग्रहे तु कालस्मृतिजसन्तोषे हन्तेति । यस्यैतदाश्रमपदं भवति । महात्मनः कोपाद्यथा शप्तं प्राप्तशापं तत्ते कथयिष्यामीत्यन्वयः ॥ १।४८।१४ ॥

दिव्यसङ्काशो द्युभवाश्रमतुल्यः ॥ १।४८।१५ ॥

अनेकानि वर्षपूगान्यनेकवर्षसमूहान् ॥ १।४८।१६ ॥

तस्याश्रमस्य । अन्तरम् मुनिसन्निधानरहितं कालम् । शचीपतिरित्यनेन शचीतो ऽपि सौन्दर्यमहल्याया ध्वनितम् । मुनिवेषधरो गौतमवेषधरः । मम रूपं समास्थायेति वक्ष्यमाणत्वात् ॥ १।४८।१७ ॥

ऋतुकालम् शास्त्रोक्तरतिकालम् । अर्थिनो रत्यर्थिनः । सुसमाहिते

सङ्गमोचितरूपप्रसाधनवति, अतिसुन्दरीति वा । तेन स्वाभिलष्यदिव्यस्त्रीत्वं सूचितम् ॥ १।४८।१८ ॥

सहस्राक्षं विज्ञाय । “ऋतुकालं प्रतीक्षन्ते नार्थिनः” इति वचनात्तपसा चाश्रमवर्तिसर्वप्राणिजातस्य शङ्काभावाय गौतमवेषो ऽयमिन्द्र इति ज्ञात्वेत्यर्थः । देवराजकुतूहलात्स मामभिलषतीति कौतुकात् । दिव्यरतिकौतुकाच्चेत्यर्थः । दुर्मेधा अहल्या तेन सह रत्यर्थं मतिं चकारेत्यन्वयः ॥ १।४८।१९ ॥

कृतार्था तादृशदिव्यपुरुषलाभात्प्राप्ततपःफला ॥ १।४८।२० ॥

शीघ्रगमने हेतुर्ममाहल्याया आत्मन इन्द्रस्य च शापतो रक्षणम् । तदाह आत्मानमित्यादि । प्रहसन्निति । विशिष्टस्त्रीचरितेन प्रहासो रक्षणस्य दुर्लभत्वाद्वा । गौतमतपोभङ्गस्य स्वेष्टस्य करणेनाग्रिमशापादिभयमल्पमिति वा ॥ १।४८।२१ ॥

सङ्गम्य । अहल्यया सहेति शेषः ॥ १।४८।२२ ॥

स इन्द्रः सम्भ्रमाद्गौतमभयात्त्वरन्निश्चक्रामेत्यन्वयः । निर्गमसमये गौतमं प्रति तदागमनं प्रति शङ्कितश्च । आसीदिति शेषः । अथ निष्क्रमणसमयानन्तरमेव ॥ १।४८।२३२६ ॥

मम गौतमस्य । कृतवानसि । मद्भार्याभोगरूपमकार्यम् । तस्माद्विफलो विगतवृषणः ॥ १।४८।२७२९ ॥

शापस्वरूपम् वातभक्षेत्यादि । तप्यन्ती स्वकृतकार्यस्मरणेन पीडिता । पुराणादिप्रसिद्धशिलारूपप्रप्तिशापस्तु कल्पान्तरीण इति न विरोधः । अत्र शिलारूपत्वे तात्पर्यकल्पने वातभक्षेत्यनेन विरोधः स्पष्ट एवेति केचित् । वस्तुतस्तु अदृश्येत्यस्य स्वरूपेणादृश्या । शिलाप्रतिमारूपेण सर्वदृश्येत्यर्थः । न च तावता चैतन्यहानिरिति क्षुधादिपीडा स्यादेवेत्यतो वातभक्षा । तदतिरिक्ताहाराभावाच्च निराहारा । तप्यन्ती । स्वकर्मणेति शेषः । तादृश्यपि भस्मशायिनी न तु स्थिता इति न कश्चिद्विरोधः । इन्द्रशापो ऽप्युपलक्षणमत्रानन्तभगवतः शापस्य । तदुक्तं पाद्मे “शापदग्धा पुरा भर्त्रा राम शक्रापराधतः । अहल्याख्या शिला जज्ञे शतलिङ्गः कृतः स्वराट् ॥ " इति। शिला तत्प्रतिमाकारा। शतशब्दोऽनन्तवाची। लिङ्गशब्देन भगाकारं चिह्नम्। स्वराडिन्द्रः ॥

१।४८।३० ॥

शापान्तमाह यदेति । घोरमित्यनेन मुनिराहित्यसूचनम् । रामो यदागमिष्यति तदागमनकाले जायमानचरणविन्यासेनानायासतस्तत्पादस्पर्शात्पूता व्यभिचारकृतपापनाशेन पवित्रा भविष्यसि । पावित्र्येण च तपस्विनां दृश्या भविष्यसि ॥ १।४८।३१ ॥

ततो मत्सकाशं मत्सान्निध्यं प्राप्ता स्वं वपुः पूर्ववत्सर्वदृश्यं भस्मनानावृतं धारयिष्यसि । प्राप्स्यसीत्यर्थः । इतरत्स्पष्टम् । कतककारस्तु “यदा तु” इत्यादिशापान्तप्रतिपादकं “स्वं वपुर्धारयिष्यसि” इत्यन्तं श्लोकद्वयं प्रिक्षिप्तमित्याह । “एवमुक्त्वा” इत्यादिसार्धश्लोकस्तु प्रामाणिक एव । एवं च द्वांत्रिंशच्छ्लोका एवात्रेत्याहुः ॥ १।४८।३२,३३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ४८ ॥