सप्तधा त्विति । दुराधर्षम् । न्यायोपायेन जेतृत्वादित्याशयः ॥ १।४७।१ ॥
ममापराधादशुचित्वरूपात् ॥ १।४७।२ ॥
गर्भविपर्यये गर्भविपत्तौ यत्त्वया कृतं कर्म तत्तव च मम च यथा प्रियं भवति तथेच्छामि । तत्प्रकारमाह मरुतामिति । सप्तानां मरुतां वा तत्स्थानविशेषाणां सप्त इमे ते त्वदधीनाः स्थानपाला लोकरक्षिणो भवन्त्वित्यन्वयः ॥ १।४७।३ ॥
तदर्थमेव हे पुत्रक मारुता इति नाम्ना प्रसिद्धा दिव्यरूपा मम पुत्रा य इमे वातस्कन्धा इति सप्त प्रसिद्धास्तेषु चरन्त्वित्यन्वयः ॥ १।४७।४ ॥
एक एति । एको गण इत्यर्थः । प्रथमं सप्तधा विभज्य पुनरेकशः सप्तधा करणमित्यस्यार्थस्य पुराणान्तरे स्पष्टमुक्तत्वात्, इहापि “बिभेद च महातेजा रुदन्तमपि” इत्यादिना ध्वनितत्वाच्चेति बोध्यम् । एवमपर इत्याद्यपि व्याख्येयम् । इन्द्रलोकमिति । “रुद्रलोकम्” इति प्रचुरः पाठः । दिव्यवायुः । दिव्यन्तरिक्षे भव इत्यर्थः ॥ १।४७।५ ॥
दिशः पूर्वादिमहादिशः ॥ १।४७।६ ॥
त्वत्कृतेन मा रुदो मा रुद इति वचनमूलेन ॥ १।४७।७ ॥
यथोक्तं ब्रह्मादिस्थानपालकत्वम् ॥ १।४७।८ ॥
मातापुत्रौ दितीन्द्रौ ॥ १।४७।९ ॥
वर्णितेन्द्रचरितस्य प्रकृतशेषत्वमाह एष इति । स एष इत्यन्वयः ॥ १।४७।१० ॥
एवम् प्रागुक्तरीत्या । एवंभूते देशे । विशालोत्पत्तिप्रकारमाह इक्ष्वाकोस्त्विति ॥ १।४७।११ ॥
विशालेति कृता आसीदित्यन्वयः ॥ १।४७।१२ ॥
कतरो ऽत्र वंश इति प्रश्नस्योत्तरमाह विशालस्येत्यादि ॥ १।४७।१३१६ ॥
इमां पुरी सम्प्रत्यावसदित्यन्वयः ॥ १।४७।१७ ॥
वैशालिकाः । विशालायां निवासो येषां त इत्यर्थः । अनेन त्वत्समानवंश्यो ऽयमिति सूचितम् ॥ १।४७।१८ ॥
अत एवाह इहाद्येति ॥ १।४७।१९२१ ॥
मम । मत्त इत्यर्थः ॥ १।४७।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥